अकर्तृकर्मकरणम् अकारणम् अबीजकम् । अप्रतर्क्यम् अविज्ञेयं ब्रह्म कर्तृ कथं भवेत्
अकारणत्वात् कार्यत्वरहितं तद् यदा भवेत् । अद्वैतैक्यम् अनाद्यन्तं तदा तदुपलम्भनम्
अप्रतर्क्यम् अविज्ञेयं यच् छिवं शान्तम् अव्ययम् । तत् कथं कस्य केनेव कर्तृ भोक्तृ कदा भवेत्
अतो नेदं कृतं किञ्चिज् जगदादि न विद्यते । न कर्तास्ति न भोक्तास्ति सर्वं शान्तम् अजं शिवम्
कारणाभावतः कार्यं न कस्यचिद् इदं जगत् । अकार्यत्वाच् च नास्त्य् एतत् सर्ग इत्थं न विद्यते
यदा न कस्यचित् कार्यं कारणस्य जगत् तदा । पदार्थाभावसंसिद्धिस् तत्सिद्धौ कस्य वेदनम्
एवं तु वेदनाभावे नास्त्य् अहन्त्वस्य कारणम् । अतश् शुद्धो ऽसि मुक्तो ऽसि केवोक्तिर् बन्धमोक्षयोः
आं प्रबुद्धो ऽस्मि भगवन् युक्तम् उक्तं त्वयोत्तमम् । कारणाभावतः कर्तृ नेह ब्रह्मेति वेद्म्य् अहम्
कर्त्रभावाज् जगन् नास्ति तेन नास्ति पदार्थदृक् । नातश् चित्तादि तद्बीजं नातो ऽहन्तादि किञ्चन
एवं स्थिते विशुद्धो ऽस्मि विबुद्धो ऽस्मि न चास्मि च । नमो मह्यं परं नौमि नकिञ्चिद् अपि बोधतः
पदार्थवेदनं मिथ्यैवासद् एवावभासते । अहमाद्य् अलम् एतेन शान्तम् आसे खकोशवत्
जगत्पदार्थप्रविभागदृष्टिस् सदेशदिक्कालकलाक्रियौघा । अहो नु कालेन चिरेण शान्ता ब्रह्मैव वा नूनम् अवस्थितेति
शाम्यामि निर्वामि परं स्थितो ऽस्मि न यामि नोदेमि न चास्तम् एमि । तिष्ठाम्य् अनिष्ठं च यथास्थितात्मा शिवं शुभं पावनमौनम् अस्मि
इति ब्रह्मणि विश्रान्तिम् अवाप्य स शिखिध्वजः । मुहूर्तम् आसीत् संशान्तमना निर्वाणदीपवत्
निर्विकल्पसमाधानपरिणत्यास्तम् ईयिवान् । स्वलीलयेति कुम्भेन स झगित्य् एव बोधितः
राजन्न् अज्ञाननिद्रातः प्रबुद्धो ऽसि शिवस् स्थितः । कार्यं नास्तमयेनेतो न चानस्तमयेन ते
सकृद् एव विभातात्मा तिष्ठानिष्ठपदात्मकः । कलाकलननिर्मुक्तो जीवन्मुक्तो ऽङ्ग साम्प्रतम्
कुम्भेन बोधितस् त्व् एवं स बभूव प्रबोधवान् । विनिर्गतो रराजोच्चैर् महामोहसमुद्गकात्
विश्रान्तधीः क्षणेनैव पश्यन् दृश्यस्य वस्तुनः । असत्ताम् एव मुक्तात्मा लीलया समुवाच ह
ज्ञातप्रायम् अपीदं तु यत् पृच्छामि तद् उच्यताम् । भूयो निपुणबोधाय मम मानद मोहहन्
शिवे शान्ते निराभासे परे ऽनुल्लङ्घितात्मनि । द्रष्टृदर्शनदृश्याख्यो विश्वात्मा प्रत्ययः कुतः
साधु पृष्टं महाराज राजसे बोधभास्वता । एतद् एव हि ते शिष्टं ज्ञतायास् तद् इदं शृणु
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । सर्वं सर्वप्रकाराढ्यं कल्पान्ते तत् प्रणश्यति
ततस् स्तिमितगम्भीरं न तेजो न तमस् ततम् । महाकल्पविलासान्ते सत् सारम् अवशिष्यते
चिन्मात्रम् अमलं कान्तम् आभातम् अमलं नभः । समस्तकलनोन्मुक्तं युक्तं परमया श्रिया
यद् एकोदितम् अत्यच्छं शान्तम् आततम् उज्ज्वलं । परमात्मात्मकं तेजस् स्तिमितं ज्ञप्तिमात्रकम्
अप्रतर्क्यम् अविज्ञेयं समं शिवम् अनिङ्गनम् । ब्रह्म निर्वाणम् आपूर्णम् आघूर्णद् इव सम्पदा
अणीयसाम् अणीयस् तत् स्थविष्ठं च स्थवीयसाम् । गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसाम् अपि
ईदृशं तत् परं सूक्ष्मं तस्याग्रे यद् इदं नभः । अणोः पार्श्वे महामेरुर् इव स्थूलात्म लक्ष्यते
ईदृशं तत् परं स्थूलं तस्याग्रे यद् इदं जगत् । परमाणुवद् आभाति क्वचिद् एव न भाति वा