अर्थावलोकने दीपाद् आभामात्राद् ऋते किल । न स्थालतैलवर्त्यादि किञ्चिद् एवोपयुज्यते
एकदेशसधर्मत्वाद् उपमेयावबोधनम् । उपमानं करोत्य् अङ्ग दीपो ऽर्थं प्रभया यथा
दृष्टान्तस्यांशमात्रेण बोध्यबोधोदये सति । उपादेयतया ग्राह्यो महावाक्यार्थनिश्चयः
न कुतार्किकताम् एत्य नाशनीया प्रबुद्धता । अनुभूत्यपलापात्तैर् अपवित्रैर् विकल्पितैः
विचारणाद् अनुभवकारि वाङ्मयप्रसङ्गताम् उपगतम् अस्मदादिषु । स्त्रियोक्तम् अप्य् अपरम् अथापि वैदिकं वचो वचःप्रलपनम् एव नागमः
अस्माकम् अस्ति मतिर् अङ्ग तयेति सर्वशास्त्रैकवाक्यकरणं फलितं यतो ऽतः । प्रातीतिकार्थमयशास्त्रनिजाङ्गपुष्टात् संवेदनाद् इतरद् अस्ति न नः प्रमाणम्
विशिष्टांशसधर्मत्वम् उपमानेषु गृह्यते । को भेदस् सर्वसादृश्ये तूपमानोपमेययोः
दृष्टान्तबुद्धाद् एकात्मज्ञानशास्त्रार्थवेदनात् । महावाक्यार्थसंवित्त्या शान्तिर् निर्वाणम् उच्यते
तस्माद् दृष्टान्तदार्ष्टान्तविकल्पोल्लसितैर् अलम् । यया कयाचिद् युक्त्याशु महावाक्यार्थम् आश्रयेत्
शान्तिश् श्रेयः परं विद्धि तत्प्राप्तौ यत्नवान् भवेत् । भोक्तव्य ओदनः प्राप्तः किं तत्सिद्धिविकल्पितैः
अकारणं कारणिभिर् बोधार्थम् उपमीयते । उपमानैस् तूपमेयसदृशैर् एकदेशतः
स्थातव्यं नेह भोगेषु विवेकविकलात्मना । उपलोदरसञ्जातपरिपीनान्धभेकवत्
दृष्टान्तैर् युक्तिभिर् यत्नाद् वाञ्छितं त्यजतेतरत् । विचारणवता भाव्यं शान्तिशास्त्रार्थशालिना
शास्त्रोपशमसौजन्यप्रज्ञातज्ज्ञसमागमैः । अन्तरान्तरसम्पन्नधर्म्यार्थोपार्जनक्रियः
तावद् विचारयेत् प्राज्ञो यावद् विश्रान्तिम् आत्मनि । सम्प्रयात्य् अपुनर्नाशां शान्तिं तुर्यपदाभिधाम्
तुर्यविश्रान्तियुक्तस्य प्रतीर्णस्य भवार्णवात् । जीवतो ऽजीवतश् चैव गृहस्थस्याथ वा यतेः
न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः । निर्मन्दर इवाम्भोधिस् स तिष्ठति यथास्थितम्
एकांशेनोपमानानाम् उपमेयसधर्मता । बोद्धव्या बोध्यबोधाय न स्थेयं चोद्यचञ्चुना
यया कयाचिद् युक्त्याशु बोद्धव्यं बोध्यम् एव ते । मुक्तये तन् न पश्यन्ति व्याकुलाश् चोद्यचञ्चवः
हृदये संविदाकाशे विश्रान्ते ऽनुभवात्मनि । वस्तुन्य् अनर्थं यः प्रष्टा चोद्यचञ्चुस् स उच्यते
अभिमानविकल्पांशैर् अज्ञो ज्ञप्तिं विकल्पयन् । बोधं मलिनयत्य् अन्तर् मुखं सर्प इवामलम्
सर्वप्रमाणसत्तानां पदम् अब्धिर् अपाम् इव । प्रमाणम् एकम् एवेह प्रत्यक्षं राम तच् छृणु
सर्वार्थसारम् अध्यक्षं वेदनं विदुर् उत्तमाः । नूनं तत् प्रति यत् सिद्धं प्रत्यक्षं तद् उदाहृतम्
अनुभूतेर् वेदनस्य प्रतिपत्तेर् यथास्थितम् । प्रत्यक्षम् इति नामेह कृतं जीवस् स एव च
स एव संवित् स पुनर् अहन्ताप्रत्ययात्मकः । स ययोदेति संवित्त्या सा पदार्थ इति स्मृता
स सङ्कल्पविकल्पाद्यैः कृतनानाक्रमो भ्रमैः । जगत्तया स्फुरत्य् अम्बु तरङ्गादितया यथा
प्राग् अकारणम् एवाशु सर्गादौ सर्गलीलया । स्फुरित्वा कारणीभूतं प्रत्यक्षं स्वयम् आत्मनि
कारणत्वं विचारो ऽस्य जीवस्यासद् अपि स्थितम् । सद् इवास्यां जगद्रूपसम्पत्तौ व्यक्तिम् आगतम्
स्वयम् एव विचारस् तु सनञर्थं स्वकं वपुः । नाशयित्वा करोत्य् आशु प्रत्यक्षं परमं पदम्
विचारयन् विचारो ऽपि नात्मानम् अधिगच्छति । यदा तदा निरुल्लेखं परम् एवावशिष्यते