तस्मान् न कारणं यस्य कार्यस्येहोपपद्यते । बीजाभावे हि तन् नास्ति तत्संवित्तिस् तु विभ्रमः
अवश्यम् एव यन् नास्ति निर्बीजं तन् मतिभ्रमः । द्वीन्दुत्वमरुभूम्यम्बुवन्ध्यापुत्रदृशा समः
पितामहानां पुत्राणां पितॄणां च जगत्त्रये । आद्यः पितामहः कस्मात् पूर्वोत्पन्नो न कारणम्
आद्यः पितामहो यस् स्यात् सो ऽपि नास्त्य् एव भूपते । कारणाभावतो नित्यं यदा कार्यं न कस्यचित्
कारणस्य स्वबीजस्य नित्याभावात् पितामहः । आद्यस् सन् दृश्यमानो ऽपि भ्रमाद् अन्यो न विद्यते
मृगतृष्णाम्बुवद् भ्रान्तिरूप एवावभासते । पितामहो ऽर्थकारित्वम् अपि त्व् अस्य भ्रमात्मकम्
पितामहादेर् एतस्य मिथ्याप्रत्ययतस् त्व् इति । घनता तु निवृत्तैव मार्जयिष्याम्य् अथेतरत्
तस्माच् चिदात्मकतयात्मनि चिन्नभो यन् नित्यं स्वयं कचति चारु तद् एष देवः । तेनैव पद्मज इति स्वयम् आत्मनात्मा प्रोक्तः खरूप इति शान्तम् इदं समस्तम्
आब्रह्मस्तम्बपर्यन्तं यद्य् अयं भासते भ्रमः । अर्थक्रियासमर्थश् च तत् स्थितं दुःखकारणम्
एवं जगद्भ्रमस्यास्य तानवं तावद् आगतम् । शिलीभूतस्य शीतेन सलिलस्येव सूष्मणा
अज्ञानं शिथिलीभूतम् एव नष्टं विदुर् बुधाः । न नाशेन विनोदेति पूर्वसंस्थानविच्युतिः
तनुत्वं सर्गबोधस्य यत् तद् एव हि कारणम् । सर्गोपशमसम्पत्तेः प्रतिपत्तेः परे पदे
तानवं दृश्यते यस्य तस्यानुक्रमतस् स्वयम् । पूर्वसंस्थानविगमात् प्रशमो ऽप्य् उपपद्यते
अनेनैव क्रमेणैनं त्वम् आदिपुरुषं नृप । भ्रमाकारोदयं विद्धि मृगतृष्णाम्ब्व् इवोदितम्
एषा पितामहाभावे ऽप्य् असती भूतसन्ततिः । न कदाचन तत् सिद्धं यद् असिद्धेन साध्यते
अयं भूतोपलम्भो हि मृगतृष्णाम्ब्व् इवोदितः । विचाराद् विलयं याति शुक्तौ रजतधीर् इव
कारणाभावतः कार्यम् अभूत्वा भवतीति यत् । मिथ्याज्ञानाद् ऋते तस्य न रूपम् उपपद्यते
मिथ्यादृष्टिः प्रेक्षिता च न कदाचन विद्यते । मृगतृष्णाम्भसा केन घटकाः परिपूरिताः
स्रष्टुर् आद्यस्य परमं ब्रह्म कस्मान् न कारणम् । अनन्तम् अजम् अव्यक्तम् ईश्वरं शान्तम् अच्युतम्
हेतुत्वाभावतो ब्रह्म कार्यत्वाभावतस् ततः । अद्वैतैक्याविकारात्म न कार्यं न च कारणम्
अकर्तृकर्मकरणम् अकारणम् अबीजकम् । अप्रतर्क्यम् अविज्ञेयं ब्रह्म कर्तृ कथं भवेत्
अकारणत्वात् कार्यत्वरहितं तद् यदा भवेत् । अद्वैतैक्यम् अनाद्यन्तं तदा तदुपलम्भनम्
अप्रतर्क्यम् अविज्ञेयं यच् छिवं शान्तम् अव्ययम् । तत् कथं कस्य केनेव कर्तृ भोक्तृ कदा भवेत्
अतो नेदं कृतं किञ्चिज् जगदादि न विद्यते । न कर्तास्ति न भोक्तास्ति सर्वं शान्तम् अजं शिवम्
कारणाभावतः कार्यं न कस्यचिद् इदं जगत् । अकार्यत्वाच् च नास्त्य् एतत् सर्ग इत्थं न विद्यते
यदा न कस्यचित् कार्यं कारणस्य जगत् तदा । पदार्थाभावसंसिद्धिस् तत्सिद्धौ कस्य वेदनम्
एवं तु वेदनाभावे नास्त्य् अहन्त्वस्य कारणम् । अतश् शुद्धो ऽसि मुक्तो ऽसि केवोक्तिर् बन्धमोक्षयोः
आं प्रबुद्धो ऽस्मि भगवन् युक्तम् उक्तं त्वयोत्तमम् । कारणाभावतः कर्तृ नेह ब्रह्मेति वेद्म्य् अहम्
कर्त्रभावाज् जगन् नास्ति तेन नास्ति पदार्थदृक् । नातश् चित्तादि तद्बीजं नातो ऽहन्तादि किञ्चन
एवं स्थिते विशुद्धो ऽस्मि विबुद्धो ऽस्मि न चास्मि च । नमो मह्यं परं नौमि नकिञ्चिद् अपि बोधतः