हस्तपादादिसंयुक्तः क्रियाफलविलासवान् । सदानुभूयमानो ऽपि देहो नास्ति कथं मुने
कारणं यस्य कार्यस्य भूमिपाल न विद्यते । विद्यते नेह तत् कार्यं तत्संवित्तिस् तु विभ्रमः
कारणेन विना कार्यं विद्यते न कदाचन । विद्यते यस्य नो बीजं तद् द्रव्यं क्वेव जायते
अकारनं तु यत् कार्यं सद् इवाग्रे ऽनुभूयते । तद् द्रष्टुर् विभ्रमं विद्धि मृगतृष्णाजलोपमम्
अविद्यमानम् एव त्वं विद्धि मिथ्याभ्रमोदितम् । नातियत्नवताप्य् एतन् मृगतृष्णाम्बु लभ्यते
असतो द्वीन्दुबिम्बादेर् न युक्तं कारणेक्षणम् । वन्ध्यातनयसर्वाङ्गमण्डनं कस्य राजते
कारणेन विना कार्यं शरीराद्य् अस्थिपञ्जरम् । अविद्यमानम् एवेदं विद्ध्य् असम्भवतो नृप
हस्तपादादियुक्तस्य शरीरस्य मुनीश्वर । नित्यम् आलक्ष्यमाणस्य पिता कस्मान् न कारणम्
कारणाभावतो राजन् पिता नाम न विद्यते । असतो यत् तु सञ्जातम् असद् एव तद् उच्यते
पदार्थानां च कार्याणां कारणं बीजम् उच्यते । सम्भवत्य् अङ्ग जगति न बीजेन विनाङ्कुरः
तस्मान् न कारणं यस्य कार्यस्येहोपपद्यते । बीजाभावे हि तन् नास्ति तत्संवित्तिस् तु विभ्रमः
अवश्यम् एव यन् नास्ति निर्बीजं तन् मतिभ्रमः । द्वीन्दुत्वमरुभूम्यम्बुवन्ध्यापुत्रदृशा समः
पितामहानां पुत्राणां पितॄणां च जगत्त्रये । आद्यः पितामहः कस्मात् पूर्वोत्पन्नो न कारणम्
आद्यः पितामहो यस् स्यात् सो ऽपि नास्त्य् एव भूपते । कारणाभावतो नित्यं यदा कार्यं न कस्यचित्
कारणस्य स्वबीजस्य नित्याभावात् पितामहः । आद्यस् सन् दृश्यमानो ऽपि भ्रमाद् अन्यो न विद्यते
मृगतृष्णाम्बुवद् भ्रान्तिरूप एवावभासते । पितामहो ऽर्थकारित्वम् अपि त्व् अस्य भ्रमात्मकम्
पितामहादेर् एतस्य मिथ्याप्रत्ययतस् त्व् इति । घनता तु निवृत्तैव मार्जयिष्याम्य् अथेतरत्
तस्माच् चिदात्मकतयात्मनि चिन्नभो यन् नित्यं स्वयं कचति चारु तद् एष देवः । तेनैव पद्मज इति स्वयम् आत्मनात्मा प्रोक्तः खरूप इति शान्तम् इदं समस्तम्
आब्रह्मस्तम्बपर्यन्तं यद्य् अयं भासते भ्रमः । अर्थक्रियासमर्थश् च तत् स्थितं दुःखकारणम्
एवं जगद्भ्रमस्यास्य तानवं तावद् आगतम् । शिलीभूतस्य शीतेन सलिलस्येव सूष्मणा
अज्ञानं शिथिलीभूतम् एव नष्टं विदुर् बुधाः । न नाशेन विनोदेति पूर्वसंस्थानविच्युतिः
तनुत्वं सर्गबोधस्य यत् तद् एव हि कारणम् । सर्गोपशमसम्पत्तेः प्रतिपत्तेः परे पदे
तानवं दृश्यते यस्य तस्यानुक्रमतस् स्वयम् । पूर्वसंस्थानविगमात् प्रशमो ऽप्य् उपपद्यते
अनेनैव क्रमेणैनं त्वम् आदिपुरुषं नृप । भ्रमाकारोदयं विद्धि मृगतृष्णाम्ब्व् इवोदितम्
एषा पितामहाभावे ऽप्य् असती भूतसन्ततिः । न कदाचन तत् सिद्धं यद् असिद्धेन साध्यते
अयं भूतोपलम्भो हि मृगतृष्णाम्ब्व् इवोदितः । विचाराद् विलयं याति शुक्तौ रजतधीर् इव
कारणाभावतः कार्यम् अभूत्वा भवतीति यत् । मिथ्याज्ञानाद् ऋते तस्य न रूपम् उपपद्यते
मिथ्यादृष्टिः प्रेक्षिता च न कदाचन विद्यते । मृगतृष्णाम्भसा केन घटकाः परिपूरिताः
स्रष्टुर् आद्यस्य परमं ब्रह्म कस्मान् न कारणम् । अनन्तम् अजम् अव्यक्तम् ईश्वरं शान्तम् अच्युतम्
हेतुत्वाभावतो ब्रह्म कार्यत्वाभावतस् ततः । अद्वैतैक्याविकारात्म न कार्यं न च कारणम्