कारणाज् जायते कार्यम् अहम्भावात्मकं ततः । इतिकारणम् अन्विष्य कथयाशु ममात्मना
मुने ऽहम् इति दोषस्य वेदनं वेद्मि कारणम् । तद् यथोपशमं याति तन् मे वद मुनीश्वर
चितश् चेत्योन्मुखत्वेन दुःखायाहम् इति स्थितः । चेत्योपशमनं ब्रूहि मुने तदुपशान्तये
कारणं कारणज्ञो ऽसि वेदनस्य वदाशु मे । ततस् त्वां बोधयिष्यामि कारणाकारणक्रमम्
वेद्यवेदनरूपस्य चेत्यसञ्चेतनस्य च । अकारणं कारणतां यद् गतं तव तद् वद
चेत्यचेतनरूपस्य वेद्यसंवेदनाकृतेः । इयं पदार्थसत्तेह देहाद्या कारणं मुने
शरीरादितयोदेति वेदनं वस्तुसत्तया । असत्याभासया स्पन्दो यथा पवनलेखया
असत्तां वस्तुसत्ताया नावगच्छाम्य् अहं यया । अहन्त्ववेदनं चित्तबीजं समुपशाम्यति
विद्यते यदि देहादिवस्तुसत्ता तद् अस्ति ते । अभावाद् देहसत्तादेः किंनिष्ठं तव वेदनम्
यस्योपलभ्यते किञ्चित् स्वरूपं कलनात्मकम् । असद्रूपं कथं तत् स्यात् प्रकाशस् स्यात् कथं तमः
हस्तपादादिसंयुक्तः क्रियाफलविलासवान् । सदानुभूयमानो ऽपि देहो नास्ति कथं मुने
कारणं यस्य कार्यस्य भूमिपाल न विद्यते । विद्यते नेह तत् कार्यं तत्संवित्तिस् तु विभ्रमः
कारणेन विना कार्यं विद्यते न कदाचन । विद्यते यस्य नो बीजं तद् द्रव्यं क्वेव जायते
अकारनं तु यत् कार्यं सद् इवाग्रे ऽनुभूयते । तद् द्रष्टुर् विभ्रमं विद्धि मृगतृष्णाजलोपमम्
अविद्यमानम् एव त्वं विद्धि मिथ्याभ्रमोदितम् । नातियत्नवताप्य् एतन् मृगतृष्णाम्बु लभ्यते
असतो द्वीन्दुबिम्बादेर् न युक्तं कारणेक्षणम् । वन्ध्यातनयसर्वाङ्गमण्डनं कस्य राजते
कारणेन विना कार्यं शरीराद्य् अस्थिपञ्जरम् । अविद्यमानम् एवेदं विद्ध्य् असम्भवतो नृप
हस्तपादादियुक्तस्य शरीरस्य मुनीश्वर । नित्यम् आलक्ष्यमाणस्य पिता कस्मान् न कारणम्
कारणाभावतो राजन् पिता नाम न विद्यते । असतो यत् तु सञ्जातम् असद् एव तद् उच्यते
पदार्थानां च कार्याणां कारणं बीजम् उच्यते । सम्भवत्य् अङ्ग जगति न बीजेन विनाङ्कुरः
तस्मान् न कारणं यस्य कार्यस्येहोपपद्यते । बीजाभावे हि तन् नास्ति तत्संवित्तिस् तु विभ्रमः
अवश्यम् एव यन् नास्ति निर्बीजं तन् मतिभ्रमः । द्वीन्दुत्वमरुभूम्यम्बुवन्ध्यापुत्रदृशा समः
पितामहानां पुत्राणां पितॄणां च जगत्त्रये । आद्यः पितामहः कस्मात् पूर्वोत्पन्नो न कारणम्
आद्यः पितामहो यस् स्यात् सो ऽपि नास्त्य् एव भूपते । कारणाभावतो नित्यं यदा कार्यं न कस्यचित्
कारणस्य स्वबीजस्य नित्याभावात् पितामहः । आद्यस् सन् दृश्यमानो ऽपि भ्रमाद् अन्यो न विद्यते
मृगतृष्णाम्बुवद् भ्रान्तिरूप एवावभासते । पितामहो ऽर्थकारित्वम् अपि त्व् अस्य भ्रमात्मकम्
पितामहादेर् एतस्य मिथ्याप्रत्ययतस् त्व् इति । घनता तु निवृत्तैव मार्जयिष्याम्य् अथेतरत्
तस्माच् चिदात्मकतयात्मनि चिन्नभो यन् नित्यं स्वयं कचति चारु तद् एष देवः । तेनैव पद्मज इति स्वयम् आत्मनात्मा प्रोक्तः खरूप इति शान्तम् इदं समस्तम्
आब्रह्मस्तम्बपर्यन्तं यद्य् अयं भासते भ्रमः । अर्थक्रियासमर्थश् च तत् स्थितं दुःखकारणम्
एवं जगद्भ्रमस्यास्य तानवं तावद् आगतम् । शिलीभूतस्य शीतेन सलिलस्येव सूष्मणा