वासना विविधाश् शाखाः फलस्कन्धादिनान्विताः । अभाविता भवन्त्य् अन्तर् लूनास् संविद्बलेन ते
असंसक्तमना मौनी शान्तवादविचारणः । सम्प्राप्तकारी यस् सो ऽन्तर् लूनचित्तलतो भवेत्
चित्तद्रुमलताजालं पौरुषेण विकर्तयन् । यस् तिष्ठति स मूलस्य योग्यो निकषणे भवेत्
गौणं शाखाविलवनं मुख्यं मूलविकर्तनम् । चित्तवृक्षस्य तेन त्वं मूलकाषपरो भव
मुख्यत्वेन महाबुद्धे मूलदाहम् अलं कुरु । चित्तकण्टकषण्डस्य भवत्य् एवम् अचित्तता
अहम्भावात्मनश् चित्तद्रुमबीजस्य हे मुने । को ऽनलो दाह्यदहनसमर्थो ऽर्थकरो भवेत्
राजन् स्वात्मविचारो ऽयं को ऽहं स्याम् इति रूपधृत् । चित्तदुर्द्रुमबीजस्य दहने दहनस् स्मृतः
मुने मया महाबुद्ध्या बहुशः प्रविचारितम् । यावन् नाहं जगन् नोर्वी न च मण्डलमण्डलम्
नाद्रेस् तटं न विपिनं न पर्णसदनादि वा । जडत्वान् न च देहादि न मांसास्थ्यसृगादि च
कर्मेन्द्रियाण्य् अपि न च न च बुद्धीन्द्रियाणि च । न मनो नापि च मतिर् नाहम्भावश् च जाड्यतः
कटकत्वं यथा हेम्नि तथाहन्त्वं चिदात्मनि । जडं त्व् असद्रूपतया तेन तन् नास्मि हे मुने
सन्निवेशविशेषात्मशब्दार्थादि परे पदे । विद्यते नात्यनन्तत्वान् नभसीव महाद्रुमः
जानन्न् अपीति भगवन्न् अहन्त्वमलमार्जनम् । अन्तर् यदा न जानामि तेन तप्ये महामुने
एतावन्मात्रकं वृन्दं यदि न त्वं महीपते । जडत्वात् तन् महाबुद्धे यो ऽसि तं वद मे नवम्
चिन्मात्रम् अहम् अच्छात्मवेदनं विदुषां वर । यत्र भावास् स्वदन्त्य् एते निर्मीयन्ते च येन वा
एवंरूपस्य मे लग्नं नूनं मलम् अकारणम् । सकारणं चाहम् इति यत् तत् त्यक्तुं न वेद्म्य् अहम्
असद् एतद् अनात्मीयं प्रमार्ष्टुं मलम् आत्मनः । मुने यदा न शक्तो ऽस्मि तेन तप्ये सुदारुणम्
ब्रूहि किं तन् महाबाहो लग्नं तव मलं महत् । स्थितो ऽसि येन संसारी सता वाप्य् असताथ वा
चित्तद्रुमस्य यद् बीजम् अहम्भावस् स मे मलम् । तच् च त्यक्तुं न जानामि त्यक्तं त्यक्तम् उपैति माम्
कारणाज् जायते कार्यं यत् तत् सर्वत्र सद् भवेत् । अन्यत् त्व् असद् द्विचन्द्राभं दृष्टम् एव न विद्यते
कारणाज् जायते कार्यम् अहम्भावात्मकं ततः । इतिकारणम् अन्विष्य कथयाशु ममात्मना
मुने ऽहम् इति दोषस्य वेदनं वेद्मि कारणम् । तद् यथोपशमं याति तन् मे वद मुनीश्वर
चितश् चेत्योन्मुखत्वेन दुःखायाहम् इति स्थितः । चेत्योपशमनं ब्रूहि मुने तदुपशान्तये
कारणं कारणज्ञो ऽसि वेदनस्य वदाशु मे । ततस् त्वां बोधयिष्यामि कारणाकारणक्रमम्
वेद्यवेदनरूपस्य चेत्यसञ्चेतनस्य च । अकारणं कारणतां यद् गतं तव तद् वद
चेत्यचेतनरूपस्य वेद्यसंवेदनाकृतेः । इयं पदार्थसत्तेह देहाद्या कारणं मुने
शरीरादितयोदेति वेदनं वस्तुसत्तया । असत्याभासया स्पन्दो यथा पवनलेखया
असत्तां वस्तुसत्ताया नावगच्छाम्य् अहं यया । अहन्त्ववेदनं चित्तबीजं समुपशाम्यति
विद्यते यदि देहादिवस्तुसत्ता तद् अस्ति ते । अभावाद् देहसत्तादेः किंनिष्ठं तव वेदनम्
यस्योपलभ्यते किञ्चित् स्वरूपं कलनात्मकम् । असद्रूपं कथं तत् स्यात् प्रकाशस् स्यात् कथं तमः