सर्वत्यागः परानन्दो दुःखम् अन्यत् सुदारुणम् । इत्य् ॐ इत्य् उररीकृत्य यद् इच्छसि तद् आचर
सर्वं त्यजति यस् तस्य सर्वम् एवोपतिष्ठते । यथैवाम्बु विशत्य् अग्नौ तथैवायाति वारिधौ
सर्वत्यागान्तर् एवास्ति ज्ञानम् आत्मप्रसादकम् । यच् छून्यं किल भाण्डस्य तत्र रत्नादि तिष्ठति
सर्वत्यागवशाद् एव हतकाले कलाव् अपि । शाक्येन विगताशङ्कं मुनिना मेरुवत् स्थितम्
सर्वत्यागो महाराज सर्वसम्पत्समाश्रयः । न गृह्णाति हि यः कश्चित् सर्वं तस्मै प्रदीयते
कृत्वा सर्वपरित्यागं शान्तस् स्वच्छो वियत्समः । सोम्यो भवसि यद्रूपस् तद्रूपो भव भूपते
सर्वं परित्यज्य महानुभाव त्यजस्य् अलं येन च तद् विहाय । त्यागं च सादानम् अलं विमुच्य विमुक्तरूपो भव भूमिपाल
एवं वदति वै कुम्भे चित्तत्यागं मुहुर् मुहुः । अन्तर् विचारयन् सोम्यो राजा वचनम् अब्रवीत्
हृदयाकाशविहगो हृदयद्रुममर्कटः । भूयो भूयो निरस्तं हि समायात्य् एव मां मनः
जानामि नैतद् आदातुं मत्स्यं बाल इवाकुलम् । त्यागम् अस्य न जानामि चित्रम् अन्ध इवोत्तमम्
चित्तस्यादौ स्वरूपं मे यथावद् भगवन् वद । ततश् चित्तपरित्यागं यथावद् भगवन् वद
वासनैव महाराज स्वरूपं विद्धि चेतसः । चित्तशब्दस् तु पर्यायो वासनाया उदाहृतः
त्यागस् त्व् अस्यातिसुकरस् सुसाधस् स्पन्दनाद् अपि । रताद् अप्य् अधिकानन्दः कुसुमाद् अपि सुन्दरः
मूर्खस्य तु मनस्त्यागो नूनं दुस्साधतां गतः । पुक्कसस्येव साम्राज्यं तृणस्येव सुमेरुता
स्वरूपं वेद्मि चित्तस्य वासनामयम् आकुलम् । त्यागो ऽस्य मन्ये दुस्साधो वज्रनिर्दलनाद् अपि
संसृत्यामोदपुष्पस्य दुःखतैलतिलस्य च । जगद्वालमृणालस्य मोहमारुतखस्य च
शरीरयन्त्रवाहस्य हृत्पद्मभ्रमरस्य च । अयत्नाच् चेतसस् त्यागो यथा भवति तद् वद
सर्वनाशो ऽस्य यस् साधो चेतसस् संसृतिक्षयः । स एव चित्तसन्त्याग इत्य् उक्तं दीर्घदर्शिभिः
चित्तत्यागाद् अहं मन्ये चित्तनाशस् स्वसिद्धये । अभावश् चेतसो व्याधेः कथम् अस्यानुभूयते
अहम्बीजद्रुमं चित्तं सशाखाफलपल्लवम् । उन्मूलय समूलं त्वम् आकाशविशदो भवन्
चेतसः किं मुने मूलं को ऽङ्कुरः कश् च सम्भवः । काश् शाखाः के च वा स्कन्धाः कथम् उन्मूल्यते च तत्
अहमर्थोदयो यो ऽयं चिदात्मा वेदनात्मकः । एतच् चित्तद्रुमस्यास्य विद्धि बीजं जगद्गतम्
अहम्भावात्मकं वित्त्वं चित्तबीजम् उदाहृतम् । परमात्मपदक्षेत्रं नेत्रं मायामयस्य तत्
एतस्मात् प्रथमोद्भिन्नाद् यो ऽङ्कुरो ऽनुभवाकृतिः । निश्चयात्मा निराकारो बुद्धिर् इत्य् एव सोच्यते
अस्य बुद्ध्यभिधानस्य याङ्कुरस्य प्रपीनता । सङ्कल्परूपिणी तस्याश् चित्तं नाम मनो ऽभिधा
जीवो मिथ्योपलम्भात्मा शून्यात्माप्य् उपलोपमः । स्तम्भः कायो ऽयम् एतस्य स्नाय्वस्थिरसरञ्जितः
देशाद् देशान्तरे दूरे देशकालविदो ऽस्य याः । शाखास् ताश् चित्तवृक्षस्य दीर्घा दूरतरास् तताः
इन्द्रियाण्य् अथ भोगाश् च भावाभावमयोर्मयः । विटपौघा महान्तो ऽस्य शुभाशुभफलाकुलाः
ईदृशस्यास्य चित्तस्य दुर्वृक्षस्य प्रतिक्षणम् । शाखाविलवनं कुर्वन् मूलकाषे भरं कुरु
चित्तद्रुमस्य शाखादेः कुर्वाणो ऽहं विकर्तनम् । कथं करोमि मूलस्य निश्शेषं कषणं मुने