इदं विवर्तते सर्वं चित्तम् एव जगत्तया । देहाद्याकारजालेन बीजं वृक्षतया यथा
पादपः पवनेनेव भूकम्पेनेव पर्वतः । भस्त्रा भस्त्राहिनेवायं देहश् चित्तेन चाल्यते
सर्वभूतोपभोग्यानां जरामरणजन्मनाम् । महामणीनां सुदृढं चित्तं विद्धि समुद्गकम्
चित्तं जीवो मनो माया प्राणश् चेत्यादिभिर् मुने । क्रियानुरूपैर् अभिधाव्यापारैश् चित्तम् उच्यते
चित्तं सर्वम् इति प्राहुस् तस्मिंस् त्यक्ते महीपते । सर्वाधिव्याधिसीमान्ते सर्वत्यागः कृतो भवेत्
चित्तत्यागं विदुस् सर्वत्यागं त्यागविदां वर । तस्मिन् सिद्धे महाबाहो सत्यं केनापि भूयते
चित्ते त्यक्ते लयं याति द्वैतम् ऐक्यं च सर्वतः । केनचिद् भूयते शान्तं स्वच्छम् एकम् अनामयम्
अस्याः क्षेत्रं विदुश् चित्तं संसृतेस् सस्यसन्ततेः । क्षेत्रे त्व् अक्षेत्रतां याते शालेः क इव सम्भवः
चित्तम् एव विचित्रेहं भावाभावविलासिना । विवर्तते ऽर्थभावेन जलम् ऊर्मितया यथा
चित्तोत्सादनरूपेण सर्वत्यागेन भूपते । सर्वम् आसाद्यते सम्यक् साम्राज्येनेव सर्वदा
सर्वत्यागस्य विषयो यथैवान्यो ऽस्ति ते तथा । त्वम् अप्य् अन्यस्य भवसि त्यागिन् गृह्णासि चेन् नृप
सूत्रं मुक्ताफलेनेव जगज्जालं त्रिकालगम् । सर्वम् अन्तःकृतं तेन येन सर्वं समुज्झितम्
येन सर्वं परित्यक्तं तस्मिञ् शून्ये ऽपि संस्थितं । जगत् सर्वं त्रिकालस्थं तन्तुर् मुक्ताफले यथा
सस्नेहेनेव दीपेन तेन सर्वं प्रकाशितम् । स्थितस् सर्वं परित्यज्य यश् शान्तो ऽस्नेहदीपवत्
अस्नेहेनेव दीपेन येन सर्वं तिरोहितम् । स राजते प्रकाशात्मा समस् सस्नेहदीपवत्
समस्तवस्तुनिष्कासे यथा खम् अवशिष्यते । सर्वत्यागे कृते तादृग् विज्ञानम् अवशिष्यते
समस्तवस्तूदासो हि यथा खं नेतरन् नृप । सर्वसन्त्याग एवाङ्ग तथा निर्वाणम् उच्यते
सर्वत्यागो हि शून्यात्माप्य् आश्रयस् सर्वसम्पदाम् । अनन्तानाम् उदाराणां खम् इवेदं दिवौकसाम्
सर्वत्यागरसापानाज् जरामरणभीतयः । न काश्चन प्रबाधन्ते खस्येव मललेखिकाः
सर्वत्यागो महत्त्वस्य कारणं निर्मलद्युतेः । सर्वं त्यजति खं यस्मात् तस्माच् छुद्धं स्थिरं बृहत्
सर्वत्यागः परानन्दो दुःखम् अन्यत् सुदारुणम् । इत्य् ॐ इत्य् उररीकृत्य यद् इच्छसि तद् आचर
सर्वं त्यजति यस् तस्य सर्वम् एवोपतिष्ठते । यथैवाम्बु विशत्य् अग्नौ तथैवायाति वारिधौ
सर्वत्यागान्तर् एवास्ति ज्ञानम् आत्मप्रसादकम् । यच् छून्यं किल भाण्डस्य तत्र रत्नादि तिष्ठति
सर्वत्यागवशाद् एव हतकाले कलाव् अपि । शाक्येन विगताशङ्कं मुनिना मेरुवत् स्थितम्
सर्वत्यागो महाराज सर्वसम्पत्समाश्रयः । न गृह्णाति हि यः कश्चित् सर्वं तस्मै प्रदीयते
कृत्वा सर्वपरित्यागं शान्तस् स्वच्छो वियत्समः । सोम्यो भवसि यद्रूपस् तद्रूपो भव भूपते
सर्वं परित्यज्य महानुभाव त्यजस्य् अलं येन च तद् विहाय । त्यागं च सादानम् अलं विमुच्य विमुक्तरूपो भव भूमिपाल
एवं वदति वै कुम्भे चित्तत्यागं मुहुर् मुहुः । अन्तर् विचारयन् सोम्यो राजा वचनम् अब्रवीत्
हृदयाकाशविहगो हृदयद्रुममर्कटः । भूयो भूयो निरस्तं हि समायात्य् एव मां मनः
जानामि नैतद् आदातुं मत्स्यं बाल इवाकुलम् । त्यागम् अस्य न जानामि चित्रम् अन्ध इवोत्तमम्