कार्यम् अण्व् अपि काले तु कृतम् एत्य् उपकारताम् । महद् अप्य् उपकारेण रिक्तताम् एत्य् अकालतः
इत्य् एवम् उक्त्वा धर्मात्मा धर्मार्थसहितं वचः । विरराम महातेजा विश्वामित्रो मुनीश्वरः
श्रुत्वा वचो मुनिवरस्य महाप्रभावस् तूष्णीम् अतिष्ठद् उपपन्नम् इदं स वक्तुम् । नो युक्तियुक्तकथनेन विनैति तोषं धीमान् अपूरितमनोऽभिमतश् च लोकः
तच् छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तम् आसीन् निश्चेष्टस् सदैन्यं चेदम् अब्रवीत्
ऊनषोडशवर्षो ऽयं रामो राजीवलोचनः । न युद्धयोग्यताम् अस्य पश्यामि सह राक्षसैः
इयम् अक्षौहिणी पूर्णा यस्याः पतिर् अहं प्रभो । तया परिवृतो युद्धं दास्यामि पिशिताशिनाम्
इमे हि शूरा विक्रान्ता भृत्या अस्त्रविशारदाः । अहं चैषां धनुष्पाणिर् गोप्ता समरमूर्धनि
एभिस् सह तवारीणां महेन्द्रमहताम् अपि । ददामि युद्धं मत्तानां करिणाम् इव केसरी
बालो रामस् त्व् अनीकेषु न जानाति बलाबलम् । अन्तःपुराद् ऋते दृष्टा नानेनान्या रणावनिः
न चास्त्रैः परमैर् युक्तो न च युद्धविशारदः । न भटभ्रूकुटीनां च तज्ज्ञस् समरमूर्धसु
केवलं पुष्पषण्डेषु नगरोपवनेषु च । उद्यानवनकुञ्जेषु सदैव परिशीलितः
विहर्तुम् एष जानाति सह राजकुमारकैः । कीर्णपुष्पोपकारासु स्वकास्व् अजिरभूमिषु
अद्य त्व् अतितरां ब्रह्मन् मम भाग्यविपर्ययात् । हिमेनेवाहतः पद्मस् सम्पन्नो हरितः कृशः
नात्तुम् अन्नानि शक्नोति न विहर्तुं गृहावनौ । अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम्
सदारस् सहभृत्यो ऽहं तत्कृते मुनिनायक । शरदीव पयोवाहो नूनं निस्सहतां गतः
ईदृशो ऽसौ सुतो बाल आधिना विवशीकृतः । कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः
अपि बालाङ्गनासङ्गाद् अपि साधो सुधारसात् । राज्याद् अपि सुखायैष पुत्रस्नेहो महामते
ये दुरन्ता महारम्भास् त्रिषु लोकेषु खेददाः । पुत्रस्नेहेन सन्तो ऽपि कुर्वते ते न संश्रयम्
असवो ऽथ धनं दारास् त्यज्यन्ते मानवैस् सुखम् । न पुत्रा मुनिशार्दूल स्वभावो ह्य् एष जन्तुषु
राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः । रामस् तान् योधयत्व् इत्थम् उक्तिर् एवातिदुस्सहा
विप्रयुक्तो हि रामेण मुहूर्तम् अपि नोत्सहे । जीवितुं जीविताकाङ्क्षी न रामं नेतुम् अर्हसि
नववर्षसहस्राणि मम यातानि कौशिक । दुःखेनोत्पादितास् त्व् एते चत्वारः पुत्रका मया
प्रधानभूतस् तेष्व् एषु रामः कमललोचनः । तं विना ते त्रयो ऽप्य् अन्ये धारयन्ति न जीवितम्
स एव रामो भवता नीयते राक्षसान् प्रति । यदि तत् पुत्रहीनं त्वं मृतम् एवाशु विद्धि माम्
चतुर्णाम् आत्मजानां हि प्रीतिर् अत्र हि मे परा । ज्येष्ठं धर्ममयं तस्मान् न रामं नेतुम् अर्हसि
निशाचरबलं हन्तुं मुने यदि तवेप्सितम् । चतुरङ्गसमायुक्तं मया सह बलं नय
किंवीर्या राक्षसास् ते तु कस्य पुत्राः कथं च ते । कियत्प्रमाणाः के चैते इति वर्णय मे स्फुटम्
कथं तेन प्रहर्तव्यं तेषां रामेण रक्षसाम् । मामकैर् वा बलैर् ब्रह्मन् मया वा कूटयोधिनाम्
सर्वं मे शंस भगवन् यथा तेषां मया रणे । स्थातव्यं दुष्टसत्त्वानां वीर्योत्सिक्ता हि राक्षसाः
श्रूयते हि महावीरो रावणो नाम राक्षसः । साक्षाद् वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः