भाण्डजातं दहत्य् अग्नौ सह शुष्केन्धनेन तत् । केवलाकृतिर् अस्नेहस् तुष्टिमान् आह भूपतिः
अहो नु चिरकालेन देवपुत्र प्रबोधितः । सम्पन्नः केवलश् शुद्धस् सुखितो बोधवान् अहम्
किं नाम किल वस्त्व् एतद् भवेत् साङ्कल्पिकक्रमम् । यद् भाण्डोपस्करस्थानसदनाद्यवलम्बनम्
यावद् यावत् प्रहीयन्ते विबन्धा बन्धहेतवः । तावत् तावत् समायाति परमां निर्वृतिं मनः
शाम्यामि परिनिर्वामि सुखितो ऽस्मि जयाम्य् अहम् । विबन्धाः प्रक्षयं यातास् सर्वत्यागो मया कृतः
दिगम्बरो दिक्सदनो दिक्सखो ऽयम् अहं स्थितः । देवपुत्र महात्यागात् किम् अन्यद् अवशिष्यते
सर्वम् एव न सन्त्यक्तं त्वया राजञ् शिखिध्वज । सर्वत्यागपरानन्दं मा मुधाभिनयीकुरु
तवास्त्य् एवापरित्यक्तस् सर्वस्माद् भाग उत्तमः । यं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम्
इति श्रुतवता तेन किञ्चित् सञ्चिन्त्य भूभृता । इदम् उक्तं महाबाहो राम राजीवलोचन
इन्द्रियव्यालसङ्घातो रक्तमांसमयाकृतिः । शिष्यते सर्वसन्त्यागे देहो मे देवतात्मज
तद् उत्थाय पुरस्संस्थभृगुपाताद् अविघ्नजात् । विनाशात्मकतां नीत्वा सर्वत्यागी भवाम्य् अहम्
इत्य् उक्त्वा देहम् अग्रस्थे श्वभ्रे त्यक्तुम् असौ जवात् । करोति यावद् उत्थानं तावत् कुम्भो ऽभ्युवाच ह
राजन् किम् इति देहं त्वं निरागस्कं महावटे । त्यजस्य् अज्ञो हि वृषभः कुपितो हन्ति तर्णकम्
जडो वराको मूकात्मा तपस्वी देहको ह्य् अयम् । न कश्चन तवैतस्मै मा मुधैव रुषं कुरु
आत्मन्य् एवैष मूढात्मा ध्यानवान् इव तिष्ठति । सञ्चाल्यते परेणैव तरङ्गेणेव काष्ठकम्
क्षोभयत्य् अन्य एवैनं निग्रहार्हो मुहुर् बलात् । तपस्विनं यथैकान्तसंस्थितं मत्ततस्करः
सुखदुःखानुभूत्या हि नापराधि शरीरकम् । नात्मनः फलपातात् स स्पन्दैर् वृक्षो ऽपराधवान्
वातः फलशिखापुष्पपातनं कुरुते स्फुरन् । तरुणा साधुना साधोर् अपराद्धं किम् आत्मनः
त्यक्तेनापि शरीरेण किल तामरसेक्षण । सर्वत्यागो न ते याति निष्पत्तिं विषमो हि सः
भृगोः केवलम् एतत् त्वं निरागस्कं शरीरकम् । मुधा क्षिपसि नो देहत्यागेन त्यागिता भवेत्
येनायं क्षोभ्यते देहो मत्तेभेनेव पादपः । तत् सन्त्यजसि चेत् पापं तन् महात्यागवान् भवान्
तस्मिंस् त्यक्ते भवेत् त्यक्तं सर्वं देहादि भूपते । नो चेन् निर्दग्धम् अप्य् एतद् भूयो भूयः प्ररोहति
केनायं चाल्यते देहः किं बीजं जन्मकर्मणाम् । कस्मिंस् त्यक्ते परित्यक्तं सर्वं भवति सुन्दर
साधो न देहत्यागेन न राज्यत्यजनेन च । न चोटजादिप्लोषेण सर्वत्यागो भवेन् नृणाम्
यत् सर्वं सर्वतो यच् च तस्मिन् सर्वैककारणे । सर्वस्मिन् सम्परित्यक्ते सर्वत्यागः कृतो भवेत्
सर्वं सर्वगतं सार्वं हेयं त्याज्यं च सर्वथा । सर्वं किम् उच्यते ब्रूहि सर्वतत्त्वविदां वर
साधो सर्वकलाधारं जीवप्राणादिनामकम् । न जडं नाजडं भ्रान्तं चित्तं सर्वम् इति स्मृतम्
राज्यादेर् अथ देहादेर् आश्रमादेर् महीपते । सर्वस्यैव मनो बीजं तरुबीजं तरोर् इव
सर्वस्य बीजे सन्त्यक्ते सर्वं त्यक्तं भवत्य् अलम् । सम्भवासम्भवाद् भूयस् सर्वत्यागो भवेद् इति
सर्वं धर्माद्य् अधर्मादि राज्यादि विपिनादि च । सचित्तस्य परं दुःखं निश्चित्तस्य परं सुखम्