मन्त्राटव्यां चिरं भ्रान्तं विहृतं कार्यवर्त्मसु । दृष्टानि धर्मस्थानानि विश्राम्याम्य् अधुना सखि
इत्य् अक्षमालां ज्वलने चिक्षेपोक्त्वा शिखिध्वजः । कल्पान्ताग्नाव् इव व्योमतारालीं पवनो ऽमलाम्
मया नरमृगेण त्वं चिरं वनमृगच्युतम् । अबोधेन धृतं वृत्त्या दययेव मृगाजिन
इदानीं गच्छ सच्छाय पन्थानस् सन्तु ते शिवाः । वह्निना व्योमतां गच्छ सतारं व्योम ते समम्
उन्मोच्याङ्गात् कराभ्यां च धृत्वा चर्म जहाव् इति । नृपो ऽग्नाव् अम्बुदं वातो दववह्नाव् इवाचलात्
मया धृतेन भवता त्वया वारि धृतं मम । साधो कमण्डलो सम्यक्कृते प्रतिकृतं कृतम्
सौहृदस्य मनोज्ञस्य सौजन्यस्य स्थिरस्य च । साधुत्वस्य च सर्वस्य त्वम् एकः परमास्पदम्
येनैव वह्निना देहं संशोध्याभ्यागतो ऽसि माम् । तेनैव गच्छ हे मित्र पन्थानस् सन्तु ते शिवाः
इत्य् उक्त्वा श्रोत्रियायैष कमण्डलुम् अदात् तदा । अग्नये महते वापि दातव्यं साधु यद् भवेत्
मूर्खस्येव मतिर् गुप्ते नित्यम् एव वसस्य् अधः । उचिता ते गतिः केव बृसिके भस्मतां व्रज
इत्य् उक्त्वादाय बृसिकाम् अग्नाव् इन्धनवृद्धिदाम् । शुद्ध्यर्थम् आसनार्थं चेत्य् अग्नौ तत्याज भासुरे
यत् त्याज्यम् अचिरेणैव त्यक्तव्यं किल तत् सता । उपायः क्रियते सद्भिर् उपादेये मते सति
शीघ्रम् अग्नाव् इदं सर्वं भाण्डजालं त्यजाम्य् अहम् । एकवारं दहन्न् अग्निर् दाह्यं भवति तुष्टये
साधो क्रियोपकरण निष्क्रियस् त्वां त्यजाम्य् अहम् । न खेदस् त्व् अत्र कर्तव्यो ऽनुपयोग्यं बिभर्ति कः
इत्य् उक्तवाञ् झगिति भोजनभाजनाद्यं सर्वं जुहाव वनवासविलासयोग्यम् । तद् भाण्डजालम् अनले समम् एव राजा कल्पान्ततेजसि जगज् ज्वलतीव कालः
अथोत्थाय ददाहासौ शुष्कं तत् पर्णमन्दिरम् । अज्ञेन स्वेन मनसा वृथा सङ्कल्प्यकल्पितम्
शिष्टं यत् किञ्चिद् अभवत् तत्र तत् स शिखिध्वजः । असंरब्धमना मौनी क्रमेण समया धिया
ददाह दूरे चिक्षेप तत्याज च बभञ्ज च । भाण्डजातं स्ववसनभोजनाद्य् अपि रुष्टवत्
स बभूवाश्रमस् तस्य दग्धनष्टनिजस्थितिः । वीरभद्रबलध्वस्तदक्षयज्ञाश्रमोपमः
आश्रमात् ते मृगखगास् त्यक्तरोमन्थम् उद्ययुः । साग्निदाहात् पुरवराद् भीतभीता जना इव
भाण्डजातं दहत्य् अग्नौ सह शुष्केन्धनेन तत् । केवलाकृतिर् अस्नेहस् तुष्टिमान् आह भूपतिः
अहो नु चिरकालेन देवपुत्र प्रबोधितः । सम्पन्नः केवलश् शुद्धस् सुखितो बोधवान् अहम्
किं नाम किल वस्त्व् एतद् भवेत् साङ्कल्पिकक्रमम् । यद् भाण्डोपस्करस्थानसदनाद्यवलम्बनम्
यावद् यावत् प्रहीयन्ते विबन्धा बन्धहेतवः । तावत् तावत् समायाति परमां निर्वृतिं मनः
शाम्यामि परिनिर्वामि सुखितो ऽस्मि जयाम्य् अहम् । विबन्धाः प्रक्षयं यातास् सर्वत्यागो मया कृतः
दिगम्बरो दिक्सदनो दिक्सखो ऽयम् अहं स्थितः । देवपुत्र महात्यागात् किम् अन्यद् अवशिष्यते
सर्वम् एव न सन्त्यक्तं त्वया राजञ् शिखिध्वज । सर्वत्यागपरानन्दं मा मुधाभिनयीकुरु
तवास्त्य् एवापरित्यक्तस् सर्वस्माद् भाग उत्तमः । यं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम्
इति श्रुतवता तेन किञ्चित् सञ्चिन्त्य भूभृता । इदम् उक्तं महाबाहो राम राजीवलोचन
इन्द्रियव्यालसङ्घातो रक्तमांसमयाकृतिः । शिष्यते सर्वसन्त्यागे देहो मे देवतात्मज