सवृक्षादिवनश्वभ्राद् विपिनाद् अपि वासना । परित्यक्ता मया नूनं सर्वत्यागस् स्थितो मम
अद्रेस् तटवनं श्वभ्रं सलिलं पादपास् स्थलम् । इत्यादि तव नो सर्वं सर्वत्यागः कथं तव
तवास्त्य् एवापरित्यक्तस् सर्वस्माद् भाग उत्तमः । तं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम्
एतच् चेन् मम नो सर्वं तत् सर्वं स्वाश्रमो मुने । वापीस्थलोटजयुतस् तम् एवाशु त्यजाम्य् अहम्
इति राम वदन्न् एव कुम्भवाक्यप्रचोदितः । निमेषध्यानमात्रेण वशी वीरश् शिखिध्वजः
प्रममार्जाश्रमास्थां तां संविदा शुद्धया हृदि । स्फुरन्तीं स्फुरणेनैव रजोरेखाम् इवानिलः
सवृक्षोटजवीरुत्काद् वासना स्वाश्रमाद् अपि । परित्यक्ता मया नूनं सर्वत्यागस् स्थितो मम
वृक्षो वापी स्थलं गुल्म उटजं व्रततीवृतिः । इति किञ्चिन् न ते सर्वं सर्वत्यागः कुतस् तव
तवास्त्य् अन्यो ऽपरित्यक्तस् सर्वस्माद् भाग उत्तमः । तं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम्
एतच् चेन् मम नो सर्वं तत् सर्वं भाजनादि मे । चर्मकुट्यक्षसूत्रादि तत् तावत् सन्त्यजाम्य् अहम्
इत्य् उक्त्वा स समुत्तस्थाव् अविक्षुब्धमनाश् शमी । विष्टराद् अवदातात्मा शृङ्गाद् इव शरद्घनः
कुम्भस् त्व् आलोकयन्न् एव तत्क्रियां संस्थितस् समाम् । आसने लोककार्येषु स्वे स्यन्दन इवांशुमान्
यत् करोति करोत्व् एतद् अस्यैतत् पावनं परम् । इति तूष्णीं स्थितः कुम्भश् शिखिध्वजम् अवैक्षत
शिखिध्वजस् तु तत् सर्वं भाण्डोपस्करम् आश्रमात् । एकत्रैवानयाम् आस भुवो वार्य् अब्धिभूर् इव
तत् संस्थाप्येन्धनैश् शुष्कैर् ज्वलयाम् आस पावकम् । करसञ्चारवान् अर्कस् सूर्यकान्ततटं यथा
भाण्डोपस्करजातं तद् अग्नौ त्यक्तुं विवेश सः । बृसिकायां जगद् दग्धुं मेरुशृङ्गे यथा रविः
एतावन्तं मया कालं वृतो यत् त्वं व्रतिप्रिय । अजातबुद्धिभेदेन तेनैवानृण्यम् अस्तु ते
भ्रान्तौ तु विनिवर्तिन्यां नाधुनोपकरोषि मे । देवपुत्रप्रसादेन दण्डकाष्ठ नमो ऽस्तु ते
इत्य् उक्त्वा वैणवं दण्डं चिक्षेपाग्नौ शिखिध्वजः । गाङ्गं प्रवाहम् आदीर्घं वडवाग्नाव् इवार्णवः
प्रसङ्ख्यातान्य् असङ्ख्यानि जन्मानीव त्वया मया । सखि मन्त्रपदान्य् अद्य याहि नोपकरोषि मे
मन्त्राटव्यां चिरं भ्रान्तं विहृतं कार्यवर्त्मसु । दृष्टानि धर्मस्थानानि विश्राम्याम्य् अधुना सखि
इत्य् अक्षमालां ज्वलने चिक्षेपोक्त्वा शिखिध्वजः । कल्पान्ताग्नाव् इव व्योमतारालीं पवनो ऽमलाम्
मया नरमृगेण त्वं चिरं वनमृगच्युतम् । अबोधेन धृतं वृत्त्या दययेव मृगाजिन
इदानीं गच्छ सच्छाय पन्थानस् सन्तु ते शिवाः । वह्निना व्योमतां गच्छ सतारं व्योम ते समम्
उन्मोच्याङ्गात् कराभ्यां च धृत्वा चर्म जहाव् इति । नृपो ऽग्नाव् अम्बुदं वातो दववह्नाव् इवाचलात्
मया धृतेन भवता त्वया वारि धृतं मम । साधो कमण्डलो सम्यक्कृते प्रतिकृतं कृतम्
सौहृदस्य मनोज्ञस्य सौजन्यस्य स्थिरस्य च । साधुत्वस्य च सर्वस्य त्वम् एकः परमास्पदम्
येनैव वह्निना देहं संशोध्याभ्यागतो ऽसि माम् । तेनैव गच्छ हे मित्र पन्थानस् सन्तु ते शिवाः
इत्य् उक्त्वा श्रोत्रियायैष कमण्डलुम् अदात् तदा । अग्नये महते वापि दातव्यं साधु यद् भवेत्
मूर्खस्येव मतिर् गुप्ते नित्यम् एव वसस्य् अधः । उचिता ते गतिः केव बृसिके भस्मतां व्रज