यदा विवेकी पुरुषो भोगान् सन्त्यज्य तिष्ठति । तदा पलायते ऽज्ञानं छिन्नवृक्षपिशाचवत्
भोगौघे नूनम् उन्मुक्ते पतत्य् अज्ञानम् अस्थिति । पादपे क्रकचच्छिन्ने कुलायस् तद्गतो यथा
यदा वनं प्रयातस् त्वं तदाज्ञानं क्षतं त्वया । पतितं सन् न विहतं मनस्त्यागमहासिना
तेन भूयस् समुत्थाय स्मृत्वा परिभवः कृतः । तपःप्रपञ्चखाते ऽस्मिन् गहने त्वं नियोजितः
तदैवाघातयिष्यस् त्वं यद्य् अज्ञानं यदा पतत् । राज्यत्यागविधौ तत् त्वां नाहनिष्यत् क्षयं गतम्
यत् खातवलयस् तेन वैरिणा हस्तिनः कृतः । तत् तपोदुःखम् अतुलम् अज्ञानेन तवार्पितम्
यां तस्य राजसामग्रीं गजारेर् आहरन् नृपः । सा त्वदज्ञाननृपतेश् चित्तभूतिर् विसारिणी
त्वं गजेन्द्रस् तपःखाते दीर्घे वनगतो ऽपि सन् । अज्ञानवैरिणा तेन निक्षिप्तस् तरसाचिति
यत् खातवलयो बाललताभिर् अवगुण्ठितः । आवृतं तत् तपोदुःखम् ईषत्सज्जनवृत्तिभिः
इत्य् अद्यापि तपःखाते दुःखे ह्य् अस्मिन् सुदारुणे । स्थितो ऽसि पातालतले नृप बद्धो यथा बडिः
गजस् त्वम् आशा निगडानि वैरी मोहो निखातः पुनर् उग्रबन्धः । महीतलं विन्ध्य उदन्त इत्थं त्वदीय उक्तः कुरु यत् करोषि
यद् उक्तं नयशालिन्या तया विदितवेद्यया । तदा चूडालया ज्ञानं तत् कस्मान् नोररीकृतम्
सा हि तत्त्वविदां मुख्या यद् यद् वक्ति करोति च । तत् सर्वं सत्यम् एवाङ्ग तद् अनुष्ठेयम् आदरात्
अथ चेद् वचनं तस्यास् त्वया नानुष्ठितं नृप । तत् स सर्वपरित्यागः कस्मान् न निपुणीकृतः
राज्यं त्यक्तं गृहं त्यक्तं देशस् त्यक्तस् तथाविधः । दारास् त्यक्तास् तथाप्य् अङ्ग सर्वत्यागो न किं कृतः
धनं दारा गृहं राज्यं भूमिश् छत्त्रं च बान्धवाः । इति सर्वं न ते राजन् सर्वत्यागो ऽत्र कस् तव
तवास्त्य् एवापरित्यक्तस् सर्वस्माद् भाग उत्तमः । तं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम्
राज्यं चेन् मम नो सर्वं तत् सर्वं वनम् एव मे । सालवृक्षादिगुल्माढ्यं तद् अप्य् एतत् त्यजाम्य् अहम्
इति राम वदन्न् एव कुम्भवाक्यप्रचोदितः । निमेषान्तरमात्रेण वशी वीरश् शिखिध्वजः
प्रममार्ज वनास्थां तां हृदस् सुदृढनिश्चयः । प्रावृड्वातस् तटगतां रजोरेखाम् इवात्मनः
सवृक्षादिवनश्वभ्राद् विपिनाद् अपि वासना । परित्यक्ता मया नूनं सर्वत्यागस् स्थितो मम
अद्रेस् तटवनं श्वभ्रं सलिलं पादपास् स्थलम् । इत्यादि तव नो सर्वं सर्वत्यागः कथं तव
तवास्त्य् एवापरित्यक्तस् सर्वस्माद् भाग उत्तमः । तं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम्
एतच् चेन् मम नो सर्वं तत् सर्वं स्वाश्रमो मुने । वापीस्थलोटजयुतस् तम् एवाशु त्यजाम्य् अहम्
इति राम वदन्न् एव कुम्भवाक्यप्रचोदितः । निमेषध्यानमात्रेण वशी वीरश् शिखिध्वजः
प्रममार्जाश्रमास्थां तां संविदा शुद्धया हृदि । स्फुरन्तीं स्फुरणेनैव रजोरेखाम् इवानिलः
सवृक्षोटजवीरुत्काद् वासना स्वाश्रमाद् अपि । परित्यक्ता मया नूनं सर्वत्यागस् स्थितो मम
वृक्षो वापी स्थलं गुल्म उटजं व्रततीवृतिः । इति किञ्चिन् न ते सर्वं सर्वत्यागः कुतस् तव
तवास्त्य् अन्यो ऽपरित्यक्तस् सर्वस्माद् भाग उत्तमः । तं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम्
एतच् चेन् मम नो सर्वं तत् सर्वं भाजनादि मे । चर्मकुट्यक्षसूत्रादि तत् तावत् सन्त्यजाम्य् अहम्