यो ऽसौ विन्ध्यवने हस्ती सो ऽस्मिन् भूमितले भवान् । यौ वैराग्यविवेकौ ते तौ तस्य दशनौ शितौ
यश् चासौ वारणाक्रान्तितत्परो हस्तिपस् स्थितः । तद् अज्ञानं त्वदाक्रान्तितत्परं तव दुःखदम्
अतिशक्तो ऽप्य् अशक्तेन दुःखाद् दुःखं भयाद् भयम् । हस्ती हस्तिपकेनेव राजन् मौर्ख्येण नीयसे
यल् लोहरज्जुसारेण वारणः परियन्त्रितः । तद् आशापाशजालेन भवान् आपदम् आगतः
आशा हि लोहरज्जुभ्यो विषमा विपुला दृढा । कालेन क्षीयते लोहं तृष्णा तु परिवर्धते
यद् बद्धं प्रेक्षते वैरी गजम् आराद् अलक्षितः । प्रेक्षते त्वां तद् अज्ञानं क्रीडार्थं बद्धम् एककम्
यद् बभञ्ज गजश् शस्त्रशृङ्खलाजालबन्धनम् । तत् तत्याज भवान् भोगभूमिं राज्यम् अकण्टकम्
कदाचित् सुकरं शस्त्रशृङ्खलाजालभेदनम् । न त्व् अस्य मनसस् साधो भोगाशाविनिवारणम्
यद् इभे पाटयत्य् उच्चैर् बन्धं हस्तिपको ऽपतत् । त्वयि त्यजति तद् राज्यम् अज्ञानं पतितं क्षतम्
यदा विरक्तः पुरुषो भोगाशां त्यक्तुम् इच्छति । तदा प्रकम्पते ऽज्ञानं छेद्यवृक्षपिशाचवत्
यदा विवेकी पुरुषो भोगान् सन्त्यज्य तिष्ठति । तदा पलायते ऽज्ञानं छिन्नवृक्षपिशाचवत्
भोगौघे नूनम् उन्मुक्ते पतत्य् अज्ञानम् अस्थिति । पादपे क्रकचच्छिन्ने कुलायस् तद्गतो यथा
यदा वनं प्रयातस् त्वं तदाज्ञानं क्षतं त्वया । पतितं सन् न विहतं मनस्त्यागमहासिना
तेन भूयस् समुत्थाय स्मृत्वा परिभवः कृतः । तपःप्रपञ्चखाते ऽस्मिन् गहने त्वं नियोजितः
तदैवाघातयिष्यस् त्वं यद्य् अज्ञानं यदा पतत् । राज्यत्यागविधौ तत् त्वां नाहनिष्यत् क्षयं गतम्
यत् खातवलयस् तेन वैरिणा हस्तिनः कृतः । तत् तपोदुःखम् अतुलम् अज्ञानेन तवार्पितम्
यां तस्य राजसामग्रीं गजारेर् आहरन् नृपः । सा त्वदज्ञाननृपतेश् चित्तभूतिर् विसारिणी
त्वं गजेन्द्रस् तपःखाते दीर्घे वनगतो ऽपि सन् । अज्ञानवैरिणा तेन निक्षिप्तस् तरसाचिति
यत् खातवलयो बाललताभिर् अवगुण्ठितः । आवृतं तत् तपोदुःखम् ईषत्सज्जनवृत्तिभिः
इत्य् अद्यापि तपःखाते दुःखे ह्य् अस्मिन् सुदारुणे । स्थितो ऽसि पातालतले नृप बद्धो यथा बडिः
गजस् त्वम् आशा निगडानि वैरी मोहो निखातः पुनर् उग्रबन्धः । महीतलं विन्ध्य उदन्त इत्थं त्वदीय उक्तः कुरु यत् करोषि
यद् उक्तं नयशालिन्या तया विदितवेद्यया । तदा चूडालया ज्ञानं तत् कस्मान् नोररीकृतम्
सा हि तत्त्वविदां मुख्या यद् यद् वक्ति करोति च । तत् सर्वं सत्यम् एवाङ्ग तद् अनुष्ठेयम् आदरात्
अथ चेद् वचनं तस्यास् त्वया नानुष्ठितं नृप । तत् स सर्वपरित्यागः कस्मान् न निपुणीकृतः
राज्यं त्यक्तं गृहं त्यक्तं देशस् त्यक्तस् तथाविधः । दारास् त्यक्तास् तथाप्य् अङ्ग सर्वत्यागो न किं कृतः
धनं दारा गृहं राज्यं भूमिश् छत्त्रं च बान्धवाः । इति सर्वं न ते राजन् सर्वत्यागो ऽत्र कस् तव
तवास्त्य् एवापरित्यक्तस् सर्वस्माद् भाग उत्तमः । तं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम्
राज्यं चेन् मम नो सर्वं तत् सर्वं वनम् एव मे । सालवृक्षादिगुल्माढ्यं तद् अप्य् एतत् त्यजाम्य् अहम्
इति राम वदन्न् एव कुम्भवाक्यप्रचोदितः । निमेषान्तरमात्रेण वशी वीरश् शिखिध्वजः
प्रममार्ज वनास्थां तां हृदस् सुदृढनिश्चयः । प्रावृड्वातस् तटगतां रजोरेखाम् इवात्मनः