स्वदेशस्यातिदूरस्थम् आगतो ऽसीमम् आश्रमम् । भुवो ऽन्तम् इव विश्रान्त्यै वैनतेयस् सकच्छपः
केवलं सर्वसन्त्यागे शेषिताहम्मतिस् त्वया । मृष्टाखिलकलङ्केन स्वसत्तेवानिलेन खे
मनोमात्रे हृदस् त्यक्ते यावत् ते याति पूर्णताम् । त्यागस् तावद् विकल्पस् त्वां खम् अम्बुद इवावृणोत्
नायं स परमानन्दस् सर्वत्यागो महोदयः । को ऽप्य् उच्चैर् अन्य एवासौ चिरसाध्यो महान् इति
चिन्तयेति गते वृद्धिं सङ्कल्पग्रहणे शनैः । वात्ययेव वनस्पन्दे त्यागः प्रोड्डीय ते गतः
त्यागिता स्यात् कुतस् तस्य चिन्ताम् अप्य् आवृणोति यः । पवनस्पन्दयुक्तस्य निस्स्पन्दत्वं कुतस् तरोः
चिन्तैव चित्तम् इत्य् आहुस् सङ्कल्पेतरनामकम् । तस्याम् एव स्फुरन्त्यां तु चित्तं त्यक्तं कथं भवेत्
चित्ते गृहीते त्रिजगज्जालबीजकणे क्षणात् । कथं सम्पद्यते साधो सर्वत्यागो निरञ्जनः
सङ्कल्पग्रहणेनान्तस् त्यागः प्रोड्डीय ते गतः । शब्दसंश्रवणेनाङ्ग यथा ग्रामविहङ्गमः
निश्चिन्तत्वधनं सर्वं त्याग आदाय ते गतः । आमन्त्र्यापूजितो याति यस् स दुःखं करोति हि
सर्वत्यागमणाव् एवं गते कमललोचन । तपःकाचमणिर् दृष्टस् त्वया सङ्कल्पचक्षुषा
त्वया तस्मिंस् तपस्य् एव दुःखे दृष्टिभ्रमोदिते । ग्राह्यैकभावना बद्धा जलेन्दौ शिशुना यथा
अवासनम् अनारभ्य कृतानन्दा सवासना । आद्यन्तमध्यविषमा दुःखायैव तपःक्रिया
अमितानन्दम् उत्सृज्य सुसाधं यः प्रवर्तते । मिते वस्तुनि दुस्साधे स्वात्महा स शठस् स्मृतः
सर्वत्यागस् समारभ्य न विनिष्पादितस् त्वया । तपोदुःखैकतज्ज्ञेन बद्धेन वनसद्मनि
राज्यबन्धाद् विनिष्क्रम्य गजवद् दुःखपूरिते । वनवासाभिधे साधो बद्धो ऽसि दृढबन्धने
द्विगुणा एव ते चिन्ताश् शीतवातातपादयः । बन्धनाद् अधिकं मन्ये वनवासम् अजानतः
चिन्तामणिर् मया प्राप्त इत्य् अलं बुद्धवान् असि । न लब्धवान् भवान् साधो स्फटिकस्यापि खण्डिकाम्
इत्य् एतद् अङ्ग मणियत्नकथासमानं सम्यङ् मया प्रकटितं तव पद्मनेत्र । उद्बोध्य बोधम् अमलं स्वयम् एव बुद्ध्या यद् वच्मि तत् परिणतिं कुरु चित्तकोशे
इदानीं राजशार्दूल वस्तुसम्प्रतिपत्तये । शृणु विन्ध्येभवृत्तान्तविवृतिं स्मयकारिणीम्
यो ऽसौ विन्ध्यवने हस्ती सो ऽस्मिन् भूमितले भवान् । यौ वैराग्यविवेकौ ते तौ तस्य दशनौ शितौ
यश् चासौ वारणाक्रान्तितत्परो हस्तिपस् स्थितः । तद् अज्ञानं त्वदाक्रान्तितत्परं तव दुःखदम्
अतिशक्तो ऽप्य् अशक्तेन दुःखाद् दुःखं भयाद् भयम् । हस्ती हस्तिपकेनेव राजन् मौर्ख्येण नीयसे
यल् लोहरज्जुसारेण वारणः परियन्त्रितः । तद् आशापाशजालेन भवान् आपदम् आगतः
आशा हि लोहरज्जुभ्यो विषमा विपुला दृढा । कालेन क्षीयते लोहं तृष्णा तु परिवर्धते
यद् बद्धं प्रेक्षते वैरी गजम् आराद् अलक्षितः । प्रेक्षते त्वां तद् अज्ञानं क्रीडार्थं बद्धम् एककम्
यद् बभञ्ज गजश् शस्त्रशृङ्खलाजालबन्धनम् । तत् तत्याज भवान् भोगभूमिं राज्यम् अकण्टकम्
कदाचित् सुकरं शस्त्रशृङ्खलाजालभेदनम् । न त्व् अस्य मनसस् साधो भोगाशाविनिवारणम्
यद् इभे पाटयत्य् उच्चैर् बन्धं हस्तिपको ऽपतत् । त्वयि त्यजति तद् राज्यम् अज्ञानं पतितं क्षतम्
यदा विरक्तः पुरुषो भोगाशां त्यक्तुम् इच्छति । तदा प्रकम्पते ऽज्ञानं छेद्यवृक्षपिशाचवत्