तस्यावच्छिन्नपाशस्य मूर्ध्नि तालतरो रिपुः । पपाताक्रमतस् स्वर्गं हरिर् मेरोर् बडेर् इव
स पतन् पादपान् मोहाद् अप्राप्य करिणश् शिरः । पपातोर्ध्व्यां फलं पक्वं वाताहतम् इवाकुलः
तं पुरः पतितं दृष्ट्वा महेभः करुणां ययौ । स्फुरत्स्फारगुणास् सन्तस् सन्ति तिर्यग्गताव् अपि
पतितं दलयामीति किं नाम मम पौरुषम् । वारणो ऽपीति कलयन् न जघान च तं रिपुम्
केवलं निगडव्यूहं विदार्याशु जगाम ह । विततं सेतुम् उत्सार्य विपुलौघ इवाम्भसः
तम् अनादृत्य मातङ्गो भङ्क्त्वा जालं जवाद् ययौ । विदार्य मेघसङ्घातं नभसीव दिवाकरः
गते गजे समुत्तस्थौ हस्तिपस् स्वस्थदेहधीः । गजेनैव समं तस्य व्यथा दूरतरं गता
प्रोत्तालतालविटपात् स तथा पतितो ऽपि सन् । न भेदम् आप दुर्भेदा मन्ये देहा दुरात्मनाम्
वर्धते प्रावृषीवाब्दः कुकार्येष्व् असतां बलम् । अतीवासीत् समुत्साही स गजाक्रमणे तदा
वारणारिर् असिंहो ऽसौ गतेभो दुःखम् आययौ । आगत्योपगते ऽन्तर्धिं निधान इव निर्धनः
सो ऽन्वियेष गजं यत्नाद् गुल्मकान्तरितं वने । पयोदपिहितं भोक्तुं राहुर् इन्दुम् इवाम्बरे
चिरेणालभतेभेन्द्रं कस्मिंश्चित् कानने स्थितम् । विश्राम्यन्तं तरुतले समराद् इव निर्गतम्
अथ यत्र स्थितो नागस् तत्र तद्बन्धनक्षमम् । परया राजसामग्र्या गजलम्पटरूपया
स खातवलयं चक्रे हस्तिपः कानने नवम् । सर्वदिक्कं विधिर् भूमौ समुद्रवलयं यथा
उपर्य् अस्थगयज् जीर्णलतौघेन स तं शठः । शून्यं तन्वभ्रजालेन शरत्काल इवाम्बरम्
दिनैः कतिपयैर् एव वारणो विहरन् वने । तस्मिन् निपतितः खाते शुष्काब्धाव् इव पर्वतः
व्रजन् सर्पाकृतौ कूपे पातालतलभीषणे । खाते शुष्काब्धिखाताभे गजरत्नसमुद्गके
इति भूयो दृढं बद्धस् तेन हस्तिपकेन सः । तिष्ठत्य् अद्यापि दुःखेन भूसद्मनि यथा बडिः
अहनिष्यत् पुरैवासौ यद्य् अग्रोपगतं रिपुम् । तन् नालप्स्यत तद् दुःखं गजः खातनिबन्धनम्
मौर्ख्याद् आगामिनं कालं वर्तमानक्रियाक्रमैः । अशोधयन् नरो दुःखं याति विन्ध्यगजो यथा
मुक्तो ऽस्मि शस्त्रनिगडाद् इति तुष्टो ऽपि वारणः । दूरस्थो ऽपि पुनर् बद्धो मौर्ख्यं क्वेव न बाधते
मौर्ख्यं निबन्धनम् अवैहि परं महात्मन् बन्धो न बन्ध इह चेतसि तद्वियुक्ते । आत्मोदये त्रिजगद् आत्ममयं समस्तम् अश्वे स्थितस्य सहया ननु सर्वभूमिः
मणिसाधनवन्येभबन्धनाद्य् अमरात्मज । सूचितं सत्कथाजालं पुनर् मे प्रकटीकुरु
वाक्यार्थदृष्टेर् निष्पत्त्या हृद्गृहे चित्तभित्तिषु । शृणुष्व सत्कथाचित्रं चित्रम् उन्मीलयामि ते
यो ऽसौ शास्त्रार्थकुशलस् तत्त्वज्ञाने त्व् अपण्डितः । रत्नसंसाधने प्रोक्तस् स त्वम् एव महीपते
तज्ज्ञो भवसि शास्त्रेषु रविर् मेरुतटेष्व् इव । तत्त्वज्ञाने तु विश्रान्तो न त्वं दृषद् इवाम्बरे
विद्धि चिन्तामणिं साधो सर्वत्यागम् अकृत्रिमम् । तम् अन्तं सर्वदुःखानां संसाधयसि शुद्धधीः
सर्वत्यागेन शुद्धेन सर्वम् आसाद्यते ऽनघ । सर्वत्यागो हि साम्राज्यं किं चिन्तामणिना भवेत्
सिद्धस् स सर्वसन्त्यागस् साधो संसाधितस् तव । खर्वीकुर्वञ् जगद्भूतिं विन्ध्यस्यात्मोदयो यथा
सन्त्यक्तं भवता राज्यं सदारधनबान्धवम् । ब्रह्मणेव जगत्सर्गव्यापारस् स्वनिशागमे