बभूव मणिराजेन्द्रे न तु निश्चयवान् असौ । राज्ये झगिति सम्प्राप्ते सुदीन इव पामरः
इदं सञ्चिन्तयाम् आस मनसा स्मयशालिना । सम्प्राप्तोपेक्षया दीर्घदुःखसम्भ्रमभाविना
अयं मणिर् मणिर् नायं मणिश् चेत् तद् भवेन् न सः । स्पृशामि न स्पृशाम्य् एनं कदाचित् स्पर्शतो व्रजेत्
नैतावतैव कालेन मणीन्द्रः किल सिध्यति । यत्नेनाजीवितान्तेन सिध्यतीत्य् आगमक्रमः
क्रियानिकूणितेनाक्ष्णा लोलालाततलोपमम् । रत्नालोकं प्रपश्यामि द्विचन्द्रत्वम् इव भ्रमात्
कुत एतावती स्फीता भाग्यसम्पन् ममातता । अधुनैव यद् आप्नोमि मणीन्द्रं सर्वसिद्धिदम्
केचिद् एव महान्तस् ते महाभाग्या भवन्ति हि । येषाम् अल्पेन कालेन प्रयान्त्य् अभिमुखं श्रियः
अहम् अल्पतपास् साधुर् वराको मानुषः किल । सिद्धयः कथम् आयान्ति माम् अभाग्यैकभाजनम्
एवं विकल्पसङ्कल्पैश् चिरम् अज्ञः परामृशन् । न मणिग्रहणे यत्नम् अकरोन् मौर्ख्यमोहितः
न यदा येन लब्धव्यं न तत् प्राप्नोत्य् असौ तदा । चिन्तामणिर् अवाप्तो ऽपि दुर्धिया हेलयोज्झितः
इति तस्मिन् स्थिते यातो मणिर् उड्डीय सिद्धयः । त्यजन्ति ह्य् अवमन्तारं शरा गुणम् इवोज्झिताः
हृत्वा प्राक्सम्पदः पुंसस् स यातस् सिद्धयः किल । आगतास् सम्प्रयच्छन्ति सर्वं याता हरन्त्य् अलम्
पुमान् भूयः क्रियायत्नं चक्रे रत्नेन्द्रसाधने । नोद्विजन्ते हि कार्येषु जना अध्यवसायिनः
ददर्शाथ कचद्रूपं काचखण्डम् अपण्डितः । हसद्भिर् वञ्चकैस् सिद्धैः पुरस् त्यक्तम् अलक्षितैः
अयं चिन्तामणिर् इति मूढस् तस्मिन् स वस्तुताम् । बुबुधे मोहितो ह्य् अज्ञो मृदं हेमेति पश्यति
अष्टौ षष्टिं द्विषन् मित्रं रज्जुं सर्पं स्थलं जलम् । चन्द्रौ द्वौ कुरुते चित्ते शिशोर् मोहो ऽमृतं विषम्
तं दग्धमणिम् आदाय प्राक्तनीं स श्रियं जहौ । सर्वं चिन्तामणेर् अस्मात् प्राप्यते किं धनैर् इति
देशो ऽयम् असुखो रूक्षो जनैः पापिभिर् आवृतः । किं तद् गेहं हतप्रायं के नाम मम बन्धवः
दूरं गत्वा यथाकामं सुखं तिष्ठामि सम्पदा । इत्य् आदाय मणिं मूढश् शून्यं काननम् आययौ
तत्र काचदलेनासौ तेन ताम् आपदं ययौ । कज्जलाद्रेर् इव निशा मौर्ख्यस्यैवाङ्ग या समा
दुःखानि मौर्ख्यविभवेन भवन्ति यानि नैवापदा न च जरामरणेन तानि । सर्वापदां शिरसि तिष्ठति मौर्ख्यम् एकं कृष्णं जनस्य वपुषाम् इव केशजालम्
अथेमम् अपरं रम्यं वृत्तान्तं शृणु भूपते । परं प्रबोधनं बुद्धेस् साधो सदृशम् आत्मनः
अस्ति विन्ध्यवने हस्ती महायूथपयूथपः । अगस्त्यरुद्धया वृद्ध्या विन्ध्येनेवैधितस् स्वतः
वज्राश्रिविषमौ दीर्घौ स्तस् तस्य दशनौ शितौ । कल्पानलशिखातुल्यौ सुमेरून्मूलनक्षमौ
स बद्धो लोहजालेन हस्तिपेन च्छलादितः । मुनीन्द्रेणेव विन्ध्याद्रिर् उपेन्द्रेणेव वा बडिः
निबद्धो यन्त्रणापाशशस्त्रकुम्भार्पितो गजः । तां जगाम व्यथां वीरो न वाग्गोचरम् एति या
रिपौ हस्तिपके दूराद् गुप्तं पश्यति वारणः । अयस्समुद्गके तस्मिन् निनाय दिवसत्रयम्
खेदान् निगडनिर्भेदयत्नवान् स झणज्झणम् । चकार किङ्किणीक्वाणम् उपोद्घातै रथो यथा
दन्ताभ्यां यत्नतस् ताभ्यां मुहूर्तद्वितयेन सः । बभञ्ज शृङ्खलाजालं स्वर्गार्गडम् इवासुरः
तं तस्य निगडच्छेदम् अपश्यद् दूरतो रिपुः । बडेस् स्वर्गावदलनं हरिर् मेरुतटाद् इव