अस्मिञ् श्रुते मते ज्ञाते तपोध्यानजपादिकम् । मोक्षप्राप्तौ तु तस्येह न किञ्चिद् उपयुज्यते
एतच्छास्त्रघनाभ्यासात् पौनःपुन्येन वीक्षितात् । जन्तोः पाण्डित्यपूर्वं हि चित्तसंस्कारपूर्वकम्
अहं जगद् इति प्रौढो द्रष्टृदृश्यपिशाचकः । पिशाचो ऽर्कोदयेनेव स्वयं शाम्यत्य् अविघ्नतः
भ्रमो जगद् अहं चेति स्थित एवोपशाम्यति । स्वप्नमोहः परिज्ञात इव नो रमयत्य् अलम्
यथा सङ्कल्पनगरे पुंसो हर्षविषादिता । न बाधते तथैवान्तः परिज्ञाते जगद्भ्रमे
चित्रसर्पः परिज्ञातो न सर्पभयदो यथा । दृश्यसर्पः परिज्ञातस् तथा न सुखदुःखदः
परिज्ञानेन सर्पत्वं चित्रसर्पस्य नश्यति । यथा तथैव संसारस् स्थित एवोपशाम्यति
सुमनःपल्लवामर्षे किञ्चिद् व्यतिकरो भवेत् । परमार्थपदप्राप्तौ न तु व्यतिकरो ऽस्ति नः
गच्छत्य् अवयवस्पन्दस् सुमनःपत्रमर्दने । इह धीमात्रबोधस् तु नाङ्गावयवबोधनम्
सुखासनोपविष्टेन यथासम्भवम् अश्नता । भोगजालं सदाचारविरुद्धेषु न तिष्ठता
यथाक्षणं यथादेशं प्रविचारयता सुखम् । यथासम्भवसत्सङ्गम् इदं शास्त्रम् अथेतरत्
आसाद्यते महाज्ञानबोधस् संसारशान्तिदः । स भूयो येन नायाति योनियन्त्रप्रपीडनम्
एतावत्य् एव ये भूता भोगान् प्राप्य रसे स्थिताः । स्वमातृविष्ठाक्रिमयः कीर्तनीया न ते ऽधमाः
शृणु तावद् इदानीं त्वं कथ्यमानम् इमं मया । राघव ज्ञानविस्तारं बुद्धिसारतरान्तरम्
ययेदं श्रूयते शास्त्रं तां तु विस्तरतश् शृणु । विचार्यते यथार्थो ऽयं यया च परिभाषया
येनेहाननुभूते ऽर्थे दृष्टेनार्थावबोधनम् । बोधोपकारफलदं तं दृष्टान्तं विदुर् बुधाः
दृष्टान्तेन विना राम नापूर्वो ऽर्थो ऽवबुध्यते । यथा दीपं विना रात्रौ भाण्डोपस्करणं गृहे
यैर् यैः काकुत्स्थ दृष्टान्तैस् त्वं मयेहावबोध्यसे । सर्वे सकारणास् ते हि प्राप्यं तु सद् अकारणम्
उपमानोपमेयानां कार्यकारणतोदिता । वर्जयित्वा परं ब्रह्म सर्वेषाम् एव विद्यते
ब्रह्मोपदेशदृष्टान्तो यस्य वेह हि कथ्यते । एकदेशसधर्मत्वं तत्रातः परिगृह्यते
यो यो नामेह दृष्टान्तो ब्रह्मतत्त्वावबोधने । दीयते स स बोद्धव्यस् स्वप्नदृष्टजगद्गतः
एवं सति निराकारे ब्रह्मण्य् आकारवान् कथम् । दृष्टान्त इति नोद्यन्ति मूर्खवैकल्पिकोक्तयः
अन्या सिद्धविरुद्धादिदृग् दृष्टान्तप्रदूषणे । स्वप्नोपमत्वाज् जगतस् समुदेति न काचन
अवस्तु पूर्वापरयोर् वर्तमानविचारितम् । यथा जाग्रत् तथा स्वप्नस् सिद्ध आबालम् अक्षतम्
स्वप्नसङ्कल्पनध्यानवरशापौषधादिभिः । ये ऽर्थास् त इह दृष्टान्तास् तद्रूपत्वाज् जगत्स्थितेः
मोक्षोपायकृता ग्रन्थकारेणान्ये ऽपि ये कृताः । ग्रन्थास् तेष्व् इयम् एवैका व्यवस्था बोध्यबोधने
स्वप्नाभत्वं च जगतश् श्रुते शास्त्रे ऽवभोत्स्यते । शीघ्रं न पार्यते वक्तुं वाक् किल क्रमवर्तिनी
स्वप्नसङ्कल्पसुध्याननगराद्युपमं जगत् । यतस् त एव दृष्टान्तास् तस्माद् भान्तीह नेतरे
अकारणं कारणिना यद् बोधायोपमीयते । न तत्र सर्वसाधर्म्यं सम्भवत्य् उपमाभ्रमैः
उपमेयस्योपमानाद् एकांशेन सधर्मता । अङ्गीकार्यावबोधाय धीमता निर्विवादिना