आकारभासुराप्य् उच्चैर् न ददाति फलं क्रिया । शुभाशुभा च तज्ज्ञस्य फुल्ला शरलता यथा
वासना चेह नास्त्य् एव स्वाहङ्कारादिरुपिणी । असत्यैवोदिता मौर्ख्यान् मरुभूमाव् इवाम्बुधीः
यस्य मौर्ख्यं क्षयं यातं सर्वं ब्रह्मेति भावनात् । नोदेति वासना तस्य प्राज्ञस्येवाम्बुधीर् मरौ
वासनामात्रसन्त्यागाज् जरामरणवर्जितम् । पदं प्राप्नोति जीवो ऽन्तर् भूयोजन्मविवर्जितम्
सवासनं मनो ज्ञानं ज्ञेयं निर्वासनं मनः । ज्ञानेन ज्ञेयताम् एत्य पुनर् जीवो न जायते
ज्ञानम् एव परं श्रेय इति ब्रह्मादयो ऽपि ते । प्राहुर् महान्तो राजर्षे त्वं किम् अज्ञानवान् स्थितः
इतः कमण्डलुर् इतो दण्डकाष्ठम् इतो बृसी । इत्य् अनर्थविलासे ऽस्मिन् रमसे किं महीपते
को ऽहं कथम् इदं जातं कथं शाम्यति चेति भोः । राजन् नावेक्षसे कस्मात् किम् अज्ञ इव तिष्ठसि
कथं बन्धः कथं मोक्ष इति प्रश्नान् उदाहरन् । परावरविदां पादान् कस्माद् अङ्ग न सेवसे
दुस्स्पन्दसंविदा शैलकोटरे क्रिययानया । जीवितं क्षपयन् किं त्वं शिलाकीटवद् आस्थितः
साधूनां समदृष्टीनां परिप्रश्नेन सेवया । सङ्गमेन च सा युक्तिर् लभ्यते मुच्यते यया
मा नराधमवद् ग्रासं भुञ्जानो वनकोटरे । तिष्ठावष्टब्धदुश्चेष्टो धराविवरकीटवत्
कान्तया देवरूपिण्या तयैवं प्रतिबोधितः । अस्रुपूर्णमुखो वाक्यं शिखिध्वज उवाच ह
अहो ऽवबोधितो ऽस्म्य् अद्य चिरात् सुरसुत त्वया । मौर्ख्याद् आर्यसमासङ्गमुक्तो ऽहम् अवसं वने
अहो नु मे क्षयं यातं मोहध्वान्तम् अशेषतः । यत् त्वम् एवं समागत्य सम्प्रबोधयसीह माम्
गुरुस् त्वं मे पिता त्वं मे मित्रं त्वं मे वरानन । शिष्यो नमस्करोम्य् अग्रे पादौ तव कृपां कुरु
यद् उदारतमं वेत्सि यस्मिञ् ज्ञाते न शोच्यते । भवामि निर्वृतो येन तद् ब्रह्मोपदिशाशु मे
घटज्ञानादयो ज्ञानविभवास् सन्त्य् अनेकशः । ज्ञानानां परमं ज्ञानं कतरत् तारकं भवेत्
यद्य् उपादेयवाक्यो ऽहं राजर्षे तद् वदामि ते । यथाज्ञानम् इदं किञ्चिन् न वक्ष्ये स्थाणुकाकवत्
अनुपादेयवाक्यस्य वक्तुः पृष्टस्य लीलया । फलन्त्य् अफलतां वाचस् तमसीवाक्षिसंविदः
यद् वक्षि तद् अनुष्ठेयं मया विधिर् इव श्रुतेः । अविकारितम् एवाशु सत्यम् एतद् व्रतं मम
यथा बालः पितुर् वाक्यं मुक्तहेतूपपादनम् । आदत्ते हि तथैवेदं गृहाण त्वं वचो मम
श्रवणानन्तरं बुद्ध्या शुभम् इत्य् एव भावयन् । शृणु गीतम् इव त्यक्त्वा हेत्वर्थित्वं वचो मम
स्वचरितसदृशं तवोदयन्त्याश् चिरसमयेन विबोधनं च बुद्धेः । भवभयभिदुरं महाकवीनां शृणु कथयामि यथाक्रमं मनोज्ञम्
अस्ति कश्चित् पुमाञ् श्रीमान् स्थानं नित्यविरुद्धयोः । गुणलक्ष्म्योर् अशेषेण यथाब्धिर् वडवाम्बुनोः
कलावाञ् शास्त्रकुशलो व्यवहारे विचक्षणः । सर्वसङ्कल्पसीमान्तं न तु जानात्य् अजं पदम्
अनन्तयत्नसंसाध्ये स चिन्तामणिसाधने । प्रवृत्तो वाडवो वह्निर् अब्धिसंशोषणे यथा
तस्य यत्नेन महता कालेनाध्यवसायिनः । सिद्धश् चिन्तामणिः किं वा न सिध्यत्य् उन्नतात्मनाम्
प्रवृत्तिम् उद्यमं प्रज्ञां प्रयुङ्क्ते चेद् अखेदवान् । अकिञ्चनो ऽपि शक्रत्वं तद् अवाप्नोत्य् अविघ्नतः
मणिम् अग्रे स्थितं प्राप्तं हस्तप्राप्यं ददर्श सः । मेरोर् उदयशृङ्गस्थो मुनिर् इन्दुम् इवोदितम्