साधो सो ऽयम् अहं पौत्रः कुम्भो ऽहं पद्मजन्मनः । पुत्रो ऽहं नारदमुनेः कुम्भनामास्मि कुम्भजः
निवसाम्य् अब्जजपुरे पित्रा सह यथासुखम् । चत्वारस् सुहृदो वेदा मम लीला विलासिनी
मातृष्वसा मे गायत्री माता मम सरस्वती । ब्रह्मलोके मम गृहं पौत्रस् तत्रास्मि सुस्थितः
यथाकामम् अशेषाणि जगन्ति विहराम्य् अहम् । लीलया परिपूर्णत्वान् न तु कार्येण केनचित्
राजर्षे तेन मे पादौ पततो मे न भूतले । रजस् स्पृशति नाङ्गानि ग्लानिं नायाति मे वपुः
अद्याकाशपथा गच्छन् दृष्टवांस् त्वाम् अहं पुरः । इह तेनागतो ऽस्म्य् अङ्ग सर्वं कथितवान् इति
एषो ऽहम् इत्य् अखिलम् एव यथानुभूतं ते वर्णितं ननु मया वनवासतज्ज्ञ । सन्तो ह्य् असङ्कथनम् आर्यसमागमेषु निन्दन्त्य् अलं सुभग संव्यवहारदक्षाः
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
सर्गे स्फुरद्भिर् मत्पुण्यैर् मन्ये सम्प्रेषितो भवान् । अलक्ष्यैस् सम्भृतैर् अद्रौ प्रावृड्वातैर् इवाम्बुदः
अद्य तिष्ठाम्य् अहं साधो धन्यानां धुरि धर्मतः । अमृतस्यन्दवचसा यत् त्वयास्मि समागतः
न केचन तथा भावाश् चेतश् शीतलयन्ति मे । राज्यलाभादयो ऽप्य् एते यथा साधुसमागमः
निरर्गलतया यत्र साम्यम् एव विजृम्भते । मुक्तरागादिमननं तन् न कस्य सुखावहम्
एवंवादिन एवास्य वाक्यम् आक्षिप्य भूपतेः । भूयः प्रोवाच चूडाला मुनिदारकरूपिणी
आस्ताम् एषा कथा तावत् सर्वं ते वर्णितं मया । त्वं मे कथय हे साधो कस् त्वम् अद्रौ करोषि किम्
कियत्पर्यवसानेयं तव वा वनवासिता । सत्यं कथय नासत्यं वक्तुं जानाति तापसः
देवपुत्रो ऽसि जानासि सर्वम् एव यथास्थितम् । लोकवृत्तान्ततज्ज्ञो ऽसि किम् अन्यत् कथयाम्य् अहम्
संसारभयभीतत्वान् निवसामि वनान्तरे । जानतो ऽपि हि हासाय कथयाम्य् एव ते मनाक्
शिखिध्वजो ऽहं भूपालस् त्यक्त्वा राज्यम् इह स्थितः । भृशं भीतो ऽस्मि तत्त्वज्ञ संसृतौ जन्मनः पुनः
पुनस् सुखं पुनर् दुःखं पुनर् मरणजन्मनी । भवतस् तेन तप्ये ऽहं सर्वज्ञ वनवीथिषु
भ्रमन्न् अपि दिगन्तांश् च चरन्न् अपि परं तपः । नासादयामि विश्रान्तिम् एकां निधिम् इवाधनः
अपत्त्रो ऽप्य् अफलो ऽप्य् एको नीरसो ऽप्य् अस्तसङ्गतिः । शुष्याम्य् एव वने साधो घुणक्षुण्ण इव द्रुमः
इमाम् अखण्डितां सम्यक् क्रियां सम्पादयन्न् अपि । दुःखाद् गच्छामि दुःखौघम् अमृतं मे विषं स्थितम्
पितामहम् अहं पूर्वं कदाचित् पृष्टवान् इदम् । यत् क्रियाज्ञानयोर् एकं श्रेयस् तद् ब्रूहि मे विभो
ज्ञानं हि परमं श्रेयः क इवैतन् न वेत्त्य् अलम् । कालातिवाहनायैव विनोदायोचिता क्रिया
अलब्धज्ञानदृष्टीनां क्रियामुत्र परायणम् । यस्य नास्त्य् अम्बरं पट्टं कम्बलं किं त्यजत्य् असौ
वासनामात्रसारत्वाद् अज्ञस्य सफलाः क्रियाः । सर्वा एवाफला ज्ञस्य वासनामात्रसङ्क्षयात्
सर्वा हि वासनाभावे प्रयान्त्य् अफलतां क्रियाः । सुशुभाः फलवत्यो ऽपि सेकाभावे लता इव
ऋत्वन्तरे यथा याति विलयं पूर्वम् आर्तवम् । तथैव वासनानाशे नाशम् एति क्रियाफलम्
न स्वभावेन फलति यथा शरलता फलम् । क्रिया निर्वासनामुत्र फलं फलति नो तथा
सयक्षवासनो बालो यक्षं पश्यति नान्यथा । सदुःखवासनो मूढो दुःखं पश्यति नान्यथा