जीवेनेदृग्विधेनैवं यद् आ प्रथमसर्गतः । स्वयं संविदितो मार्गस् तेनैवाद्यापि गच्छति
सुखसञ्चारयोग्यासु जीवे सरति नाडिषु । देवपुत्र भवत्य् एतद् वीर्यविच्यवनं कथम्
जीवः क्षुब्धयति क्षुब्धः प्राणादिपवनावलीम् । संविदाज्ञांशमात्रेण सेनाम् इव महीपतिः
वातस्पन्देन मेदोऽन्तर् मज्जासारश् च स्वस्थितिम् । त्यजत्य् अम्ब्वभ्रसौगन्ध्यरजःपत्त्रतृणादि व
चलितं वस्त्व् अधो याति वार्यादि दहनादि खम् । देहान् नाडीप्रणालेन शुक्रं याति बहिस्स्थितिम्
देवपुत्र महाज्ञो ऽसि वेत्सि पूर्वापरं स्थितेः । ज्ञायसे वचनाद् एव स्वभावो हि किम् उच्यते
आदिसर्गे यथा यद् यत् स्फुरितं ब्रह्म ब्रह्मणि । घटावटपटाद्यात्म तथैवाद्यापि च स्थितम्
काकतालीयवद् वारिबुद्बुदोत्पत्तिनाशवत् । घुणाक्षरवद् उच्छूनं तं स्वभावं विदुर् बुधाः
अस्मिन् स्वभाववशतो जगति प्ररूढे देहास् स्फुरन्ति विविधा विविधाविकाराः । प्रक्षीणवासनतया न भवन्ति केचिद् भूयो भवन्ति च पुनस् त्व् इतरे घनास्थाः
आत्मस्वभाववशतो जातं जगद् इदं महत् । स्थितिं वासनयाभ्येत्य धर्माधर्मवशे स्थितम्
वासनांशं समानीय धर्माधर्मैर् न गृह्यते । ततो न जायते मुक्त इति नो दर्शनं मुने
अत्युदारं महार्थं च वक्षि त्वं वदतां वर । अनुभूतिम् उपारूढं गूढं च परमार्थवत्
त्वद्वाक्यविभवेनाद्य श्रुतेनानेन सुन्दर । पीतेनेवेन्दुना राहुर् अन्तर् यातो ऽस्मि शीतताम्
तत् समासेन तां तावद् आत्मोत्पत्तिं वदाशु मे । ततश् श्रोष्यामि यत्नेन ज्ञानगर्भां गिरं तव
तेन पद्मजपुत्रेण मुनिना नारदेन तत् । क्व कृतं वीर्यम् आर्येण कथयार्य यथास्थितम्
ततो निबध्नता तेन मनोमत्तमतङ्गजम् । विवेकविपुलालाने शुद्धबुद्धिवरत्रया
तद् वीर्यं कल्पकालाग्निगलितेन्दुद्रवोपमम् । रसानां पारतादीनां दिव्यानाम् अनुजं नवम्
मुनिना पार्श्वगे कुम्भे स्फाटिके विसरद्रुचौ । अद्रुते विद्रुताकारं चन्द्रे चन्द्रम् इवार्पितम्
रत्नशैलैर् वृतः कान्तैस् तले पार्श्वेषु चाभितः । गम्भीरकुक्षिस् सुदृढश् चाचलाहननक्षमः
सङ्कल्पितेन क्षीरेण स कुम्भस् तेन पूरितः । अमृतापूरभिन्नेन विधिनेवामृतार्णवः
तत्र मासं गतो वृद्धिं मुनिमन्त्राहुतिक्रमैः । अमृतात्मा शुभो गर्भ इन्दोर् इन्दुर् इवानुजः
इन्दुं मास इवापूर्णं मासेन सुषुवे घटः । गर्भं कमलपत्त्राक्षं प्रसूनम् इव माधवः
परिपूर्णसमस्ताङ्गः कुम्भाद् गर्भस् स निर्ययौ । इन्दुस् सूक्ष्माद् इवाम्भोधेर् अपरः क्षयवर्जितः
दिनैः कतिपयैर् एव वृद्धिम् अभ्याजगाम सः । अप्रमेयाङ्गसौन्दर्यश् शुक्लपक्षे शशी यथा
सर्वसंस्कारसम्पन्ने स तस्मिन् नारदो मुनिः । भाण्डाद् भाण्ड इवाशेषं विद्याधनम् अयोजयत्
दिनैः कतिपयैर् एव विज्ञाताशेषवाङ्मयम् । चकारैनं मुनिवरः प्रतिबिम्बम् इवात्मनः
तेनाराजत पुत्रेण मुनिना मुनिनायकः । रत्नाद्रौ प्रतिबिम्बेन सद्योदित इवोडुराट्
अथैनं पुत्रम् आदाय ब्रह्मलोकं स नारदः । जगाम तत्र पितरं ब्रह्माणं चाभ्यवादयत्
कृताभिवादनं ब्रह्मा पौत्रम् आदाय तं तदा । अभिवादितवेदादिं स्वयम् अङ्के न्यवेशयत्
अथाशीर्वादमात्रेण सर्वज्ञं ज्ञानपारगम् । पौत्रं तं कुम्भनामानं चकार कमलोद्भवः