तुच्छादिना पदार्थेन दुःखं केनचिद् एति हि । तमो मेघपटेनेव स्वभावो ह्य् अत्र कारणम्
स्वरूपे निर्मले सत्ये निमेषम् अपि विस्मृते । दृश्यम् उल्लासम् आप्नोति प्रावृषीव पयोधरः
अनारतानुसन्धानाद् अनुन्मेषम् अविस्तृते । स्वरूपे नोल्लसत्य् एष चिति दृश्यपिशाचकः
यथा तमःप्रकाशाभ्याम् अहोरात्रं स्थितिं गतम् । तथैव सुखदुःखाभ्यां शरीरं स्थितिम् आगतम्
एते हि सुखदुःखे द्वे जन्मकारणदर्शनात् । अज्ञस्य लगतश् शुक्लपटकुङ्कुमवद् दृढम्
तज्ज्ञस्य त्व् अङ्ग लगतो मनाग् अपि चितेर् वशात् । यथा शुभाशुभौ रागाव् अनाक्रान्तान्तरौ मणेः
पुरस्स्थवस्त्वभावेन रञ्जनां स्फटिको यथा । तज्ज्ञस् त्यजति हे साधो जीवन्मुक्तमतिर् मुनिः
वस्तु संश्लेषमात्रेण घनं रञ्जितचेतसः । गते ऽपि वस्तुनि दृढं दुर्धियः परितापिनः
गते ऽपि कुङ्कुमे भस्त्रा तदीयम् अनुरञ्जनम् । न जहाति यथा मूढस् तथा विषयरञ्जनम्
अनेनैव क्रमेणैतौ बन्धमोक्षौ व्यवस्थितौ । भावनातानवं मोक्षो बन्धो हि दृढभावनम्
स्वोत्पत्तिकारणप्राप्तौ कथं दुःखं सुखं च वा । अभ्युदेतीति वद मे दूरस्थायाम् अपि प्रभो
अत्युदारम् अतीवाच्छं बह्वर्थं वचनं तव । श्रोतुं तृप्तिं न गच्छामि मयूरो ऽभ्ररवेष्व् इव
स्वोत्पत्तिकारणं हृद्यं वस्त्व् आदायाक्षपाणिभिः । सुखसंविद् इयं बाला नूनम् उल्लसति स्वतः
हृद्गता क्षोभम् आयाता जीवं कुण्डलिनीगतम् । सोम्यम् उद्बोधयत्य् अन्तस् सिंहम् अभ्ररवो यथा
प्राणावपूरिता नाडीर् जीव आक्रमति स्फुरन् । सम्यक्सेकप्रबुद्धात्मा रसो द्रुमलता इव
सुखप्रबोधसञ्चारे दुःखबोधगमे तथा । जीवस्य नियता नाड्यः पृथग् देहे स्थितिं गताः
सुखितः प्रस्फुरत्य् एष यासु तासु न दुःखितः । ये हि मार्गास् सुवेषस्य कुवेषस्य न ते शुभाः
जीवस् सदैव सर्वत्र देहे तिष्ठति वै किल । तस्य दुःखे सुखे वापि नियतं स्फुरितं कुतः
यावत्प्रमाणं जीवो ऽयं संशाम्यत्य् अपरिस्फुरन् । तावत्प्रमाणम् एवैनं मुक्तं मुक्तम् अवैहि वै
यावत्प्रमाणम् अधिकं स्फुरति क्षुब्धमारुतम् । तावत्प्रमाणम् एवैनं बद्धं बद्धम् अवैहि मे
सुखदुःखकलास्पन्दो बन्धो जीवस्य नेतरः । तदभावो हि मोक्षस् स्याद् बोधात् सम्पद्यते च सः
सुखदुःखदशे यावद् आनीते नेन्द्रियैश् शठैः । तावत् सुप्तसमस् सोम्यो जीवस् तिष्ठति शान्तवत्
सुखम् आलोक्य वा दुःखम् अक्षानीतं चलद्वपुः । समुत्फलति जीवो ऽन्तर् दृष्टेन्दुर् इव तोयधिः
जीवः क्षुभ्यति दृष्टेन संविदाङ्ग सुखादिना । आमिषेणेव मार्जारो मौर्ख्यम् एवात्र कारणम्
बोधेन बोध्यते जीव आत्मज्ञानात्मनात्मना । सुखदुःखादि नास्तीति तेनासौ याति सोम्यताम्
न सत् सुखादि नैतन् मे मुधा चायम् अहं स्थितः । इति जीवः प्रबुद्धो ऽन्तर् निर्वाणं याति शाम्यति
सुखादिवस्त्व् असद्रूपम् इत्य् अन्तर्बोधसंविदा । न तदुन्मुखतां याति जीवश् शाम्यति केवलम्
सर्वम् एव चिदाकाशं ब्रह्मेति घननिश्चये । स्थितिं याते शमं याति जीवो निस्स्नेहदीपवत्
दीपवच् छमम् आयाति सुखादिस्नेहसङ्क्षये । सर्वम् एकम् इति ज्ञात्वा जीवो द्वित्वाविभावनात्
सर्वम् आकाशम् एवेति बुद्ध्वा क्सोभं न गच्छति । जीवश् शून्येन शून्यस्य कः किल क्षोभविभ्रमः