न पतत्य् अवटे जन्तुर् विषयासङ्गरूपिणि । कः किल ज्ञातसरणिश् श्वभ्रे समनुधावति
सच्छास्त्रसाधुवृत्तानाम् अविरोधिनि कर्मणि । रमते धीर् यथाप्राप्ते साध्वीवान्तःपुराजिरे
जगतां कोटिलक्ष्येषु यावन्तः परमाणवः । तेषाम् एकैकशो ऽन्तस्स्थान् सर्गान् पश्यत्य् असर्गधीः
मोक्षोपायावबोधेन शुद्धान्तःकरणं जनम् । न खेदयति भोगौघो न चानन्दयति क्वचित्
परमाणौ परमाणौ सर्गवर्गा निरर्गलम् । ये पतन्त्य् उत्पतन्त्य् अम्बुवीचिवत् तान् स पश्यति
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति । कार्याण्य् एष प्रबुद्धो ऽपि निष्प्रबुद्ध इव द्रुमः
दृश्यते लोकसामान्यो यथाप्राप्तानुवृत्तिमान् । इष्टानिष्टफलप्राप्तौ हृदयेनापराजितः
बुद्ध्वेदम् अखिलं शास्त्रं वाचयित्वा विवेच्य वा । अनुभूयत एवैतन् न तूक्तं वरशापवत्
शास्त्रं सुबोधम् एवेदं नानालङ्कारभूषितम् । काव्यं रसघनं चारु दृष्टान्तैः प्रतिपादकम्
बुध्यते स्वयम् एवेदं किञ्चित्पदपदार्थवित् । स्वयं यस् तु न वेत्तीदं श्रोतव्यं तेन पण्डितात्
अस्मिञ् श्रुते मते ज्ञाते तपोध्यानजपादिकम् । मोक्षप्राप्तौ तु तस्येह न किञ्चिद् उपयुज्यते
एतच्छास्त्रघनाभ्यासात् पौनःपुन्येन वीक्षितात् । जन्तोः पाण्डित्यपूर्वं हि चित्तसंस्कारपूर्वकम्
अहं जगद् इति प्रौढो द्रष्टृदृश्यपिशाचकः । पिशाचो ऽर्कोदयेनेव स्वयं शाम्यत्य् अविघ्नतः
भ्रमो जगद् अहं चेति स्थित एवोपशाम्यति । स्वप्नमोहः परिज्ञात इव नो रमयत्य् अलम्
यथा सङ्कल्पनगरे पुंसो हर्षविषादिता । न बाधते तथैवान्तः परिज्ञाते जगद्भ्रमे
चित्रसर्पः परिज्ञातो न सर्पभयदो यथा । दृश्यसर्पः परिज्ञातस् तथा न सुखदुःखदः
परिज्ञानेन सर्पत्वं चित्रसर्पस्य नश्यति । यथा तथैव संसारस् स्थित एवोपशाम्यति
सुमनःपल्लवामर्षे किञ्चिद् व्यतिकरो भवेत् । परमार्थपदप्राप्तौ न तु व्यतिकरो ऽस्ति नः
गच्छत्य् अवयवस्पन्दस् सुमनःपत्रमर्दने । इह धीमात्रबोधस् तु नाङ्गावयवबोधनम्
सुखासनोपविष्टेन यथासम्भवम् अश्नता । भोगजालं सदाचारविरुद्धेषु न तिष्ठता
यथाक्षणं यथादेशं प्रविचारयता सुखम् । यथासम्भवसत्सङ्गम् इदं शास्त्रम् अथेतरत्
आसाद्यते महाज्ञानबोधस् संसारशान्तिदः । स भूयो येन नायाति योनियन्त्रप्रपीडनम्
एतावत्य् एव ये भूता भोगान् प्राप्य रसे स्थिताः । स्वमातृविष्ठाक्रिमयः कीर्तनीया न ते ऽधमाः
शृणु तावद् इदानीं त्वं कथ्यमानम् इमं मया । राघव ज्ञानविस्तारं बुद्धिसारतरान्तरम्
ययेदं श्रूयते शास्त्रं तां तु विस्तरतश् शृणु । विचार्यते यथार्थो ऽयं यया च परिभाषया
येनेहाननुभूते ऽर्थे दृष्टेनार्थावबोधनम् । बोधोपकारफलदं तं दृष्टान्तं विदुर् बुधाः
दृष्टान्तेन विना राम नापूर्वो ऽर्थो ऽवबुध्यते । यथा दीपं विना रात्रौ भाण्डोपस्करणं गृहे
यैर् यैः काकुत्स्थ दृष्टान्तैस् त्वं मयेहावबोध्यसे । सर्वे सकारणास् ते हि प्राप्यं तु सद् अकारणम्
उपमानोपमेयानां कार्यकारणतोदिता । वर्जयित्वा परं ब्रह्म सर्वेषाम् एव विद्यते
ब्रह्मोपदेशदृष्टान्तो यस्य वेह हि कथ्यते । एकदेशसधर्मत्वं तत्रातः परिगृह्यते