देवार्चनायावचितम् इदं यत् कुसुमं मया । अङ्ग त्वदङ्गसङ्गेन तत् प्रयातु कृतार्थताम्
जीवितं याति साफल्यं ममाभ्यागतपूजया । देवाद् अप्य् अधिकं पूज्यस् सताम् अभ्यागतो जनः
तत् कस् त्वं कस्य पुत्रस् त्वं किम् आयातो ऽस्य् अनुग्रहात् । एतं मे संशयं छिन्द्धि विमलेन्दुसमानन
राजर्षे शृणु वक्ष्यामि यथापृष्टम् अखण्डितम् । अवर्णनं हि जिह्मत्वं तत् सताम् अतिनिन्दितम्
अस्त्य् अस्मिञ् जगतः कोशे शुद्धात्मा नारदो मुनिः । पुण्यलक्ष्म्या मुखे कान्ते कर्पूरतिलकोपमः
स कदाचिन् मुनिर् मेरोर् गुहायां ध्यानम् आस्थितः । अधित्यकायां भूतानाम् अदृश्यश् शान्तमानसः
तत्र हेमतटे गङ्गा वहत्य् उरुतरङ्गिणी । मेरुलक्ष्म्यास् स्फुरद्रूपा भाति हारलतेव या
एकदा नारदमुनिर् ध्यानान्ते सरितस् तटे । ध्वनद्वलयम् अश्रौषील् लीलाकलकलारवम्
किम् एतद् इत्य् असौ किञ्चिज्जातप्रायकुतूहलः । हेलयालोकयन् नद्याम् अपश्यल् ललनागणम्
रम्भातिलोत्तमाप्रायं निर्यातं जललीलया । क्रीडन्तं त्यक्तवसनं देशे पुरुषवर्जिते
काञ्चनाम्भोजमुकुलसुन्दरैस् स्तनमण्डलैः । परिवेल्लितम् अन्योऽन्यं फलैः कान्तद्रुमं यथा
द्रुतहेमरसापूरनिर्झराभोगभासुरैः । कुर्वन्तम् ऊरुभिः काममन्दिरस्तम्भविभ्रमम्
निर्मलीकृतचन्द्रेण व्याप्तव्योम्ना विलासिना । लावण्यरसपूरेण तर्जयन्तम् इवापगाम्
प्राकारैर् अमरोद्याने रथचक्रैर् मनोभुवः । उत्पथार्पितगङ्गाम्बुनितम्बतटसेतुभिः
सर्वत्र दृष्टसर्वाङ्गं विश्वरूपम् इवास्थितम् । प्रतिबिम्बितसर्वार्थम् अन्योऽन्यादर्शतां गतम्
कालकल्पतरोर् वर्षविटपात् पक्षपल्लवात् । विविधर्तुलताजालाद् दिनश्रीकलिकाकुलात्
आलोकपुष्परजसो जाताद् गगनकानने । स्फुरज्जगत्खगव्रातात् सप्ताब्ध्येकालवालकात्
मासस्तबकवृन्तेषु वृद्धिं यान्तं रसान्वितम् । उद्धृत्योद्धृत्य सम्पूर्णं चालिताम्भोदपल्लवम्
आलोलालककेशाक्षितारकादिमधुव्रतम् । अमृतापद्विघाताय कोशसञ्चयकारिभिः
दुष्प्रापे भूतसङ्घानां विकसत्कनकाम्बुजे । पद्मपल्लवसञ्छन्नं गुप्तं मेरोर् गुहान्तरे
शीतले स्वर्धुनीतीरे यत्नोत्सृष्टमलं पुरः । चन्द्रबिम्बफलापूरम् एकत्रैवोपसम्भृतम्
स्त्रैणम् आलोक्य तत् कान्तं सहसैव मनो मुनेः । अनाश्रितविवेकांशं बभूवानन्दितं स्फुरत्
आनन्दवलिते चित्ते क्षुब्धे प्राणानिले स्थिते । बभूव तस्य तुष्टस्य मदनस्खलितं तदा
फलं रसापूर्णम् इव ग्रीष्मान्त इव तोयदः । प्रत्यग्रः पादपश् छिन्नलतावृन्त इवोत्तमः
अवश्यायकणस्यन्दी शशाङ्क इव वा मुनिः । बिसं द्विधा यातम् इव गलत्साररसो ऽभवत्
तादृशो ऽपि बहुज्ञो ऽपि जीवन्मुक्तो ऽप्य् असौ मुनिः । निरिच्छो ऽपि निरास्थो ऽपि नकिञ्चिदुपमो ऽप्य् अलम्
सबाह्याभ्यन्तरं नित्यम् आकाशविशदो ऽपि च । नारदो ऽपि कथं ब्रह्मन् मदनस्खलितो ऽभवत्
सर्वस्या एव राजेन्द्र भूतजातेर् जगत्त्रये । देवादेर् अपि देहो ऽयं द्वयात्मैवं स्वभावतः
अज्ञम् अस्त्व् अथ वा तज्ज्ञं यावन् मत्तं शरीरकम् । सर्वम् एव जगत्य् अङ्ग सुखदुःखमयं स्मृतम्
हृद्यादिना पदार्थेन केनचिद् वर्धते सुखम् । आलोक इव दीपेन महाम्बुधिर् इवेन्दुना