अयं स राजा लक्ष्मीवान् यो ममापि प्रियः पतिः । हृदि मोहघुणक्षुण्णाम् इमाम् अद्यागतो दशाम्
तद् अवश्यम् इहैवाद्य नाथं विदितवेद्यताम् । नयाम्य् एनं न सन्देहो भोगमोक्षश्रियं तथा
इदं रूपं परित्यज्य रूपेणान्येन केनचित् । सकाशम् अस्य गच्छामि बोधं दातुम् अनुत्तमम्
बालेयं मम कान्तेति मदुक्तं न करोत्य् अयम् । तस्मात् तापसरूपेण बोधयामि पतिं क्षणात्
भर्ता कषायपाकेन परिपक्वमतिस् स्थितः । चेतस्य् अस्याद्य विमले स्वं तत्त्वं प्रतिबिम्बति
इति सञ्चिन्त्य चूडाला बभूव द्विजदारकः । ईषद्ध्यानाद् गतान्यत्वं क्षणाद् अम्बुतरङ्गवत्
पपात विपिने तस्मिन् द्विजपुत्रकरूपिणी । भर्तुर् अभ्याजगामाग्रं मन्दस्मितलसन्मुखी
ददर्श द्विजपुत्रं तं पुरो यातं शिखिध्वजः । वनान्तराद् उपगतं तपोमूर्तिम् इवास्थितम्
द्रवत्कनकगौराङ्गं मुक्ताहारविभूषितम् । शुक्लयज्ञोपवीताङ्गं शुक्लाम्बरयुगावृतम्
कमण्डलुधरं कान्तं शान्तं दान्तम् अनामयम् । व्याप्तप्रकोष्ठं द्विगुणेनाक्षसूत्रेण चारुणा
भूमाव् अलग्नचरणं किष्कुमात्रोपरि स्थितम् । कुन्तलव्याप्तमूर्धानं सालिमालम् इवाम्बुजम्
भासयन्तं प्रदेशं तं शारीरैर् दीप्तिमण्डलैः । कुण्डलाभूषितमुखं नवम् अर्कम् इवोदितम्
शिखासम्प्रोतमन्दारं शृङ्गस्थेन्दुम् इवाचलम् । कान्तोपशान्तवपुषम् ऊर्जितं विजितेन्द्रियम्
हिमाभभस्मतिलकभूषितालिकसुन्दरम् । मेरुं हेमतटालीनपूर्णेन्दुम् इव चञ्चलम्
तम् आलोक्य द्विजसुतं समुत्तस्थौ शिखिध्वजः । देवपुत्रागमधिया सम्परित्यक्तपादुकः
देवपुत्र नमस्कार इदम् आसनम् आस्यताम् । इत्य् अस्य दर्शयाम् आस पाणिना पत्त्रविष्टरम्
ददौ च द्विजपुत्रस्य पुष्पवृष्टिं करोदरे । चन्द्रः कुमुदषण्डस्य प्रालेयम् इव पल्लवे
हे राजर्षे नमस् तुभ्यम् इति द्विजसुतो वदन् । गृहीत्वा कुसुमान्य् अस्माद् विवेश दलविष्टरे
देवपुत्र महाभाग कुत आगमनं कृतम् । दिवसस् सफलो ऽयं मे यत् त्वाम् अद्यास्मि दृष्टवान्
इदम् अर्घ्यम् इदं पाद्यं पुष्पानीमानि मानद । इमाः प्रग्रथिता माला गृह्यन्तां भद्रम् अस्तु ते
इत्य् उक्त्वा पाद्यम् अर्घ्यं च मालाः पुष्पाणि चानघ । शिखिध्वजस् तदिष्टायै ददौ देव्यै यथाखिलम्
सुबहूनि परिभ्रान्तो भूतलायतनान्य् अहम् । त्वत्तः पूजा यथा प्राप्ता मयेयं न तथान्यतः
पेशलेनानुरूपेण प्रश्रयेणामुनानघ । मन्ये ऽहं नूनम् अत्यन्तचिरजीवी भविष्यसि
शान्तेन मनसोदारम् आराद् उन्मुक्तकल्पनम् । निर्वाणार्हं तपस् साधो कच्चित् सम्भृतवान् असि
असिधारासमं सोम्य शान्तं व्रतम् इदं तव । स्फीतं यद् राज्यम् उत्सृज्य महावननिषेवणम्
जानासि भगवन् सर्वं देवस् त्वं को ऽत्र विस्मयः । श्रियैव लोकोत्तरया ज्ञायसे चिह्नभूतया
एतान्य् अङ्गानि ते चन्द्राद् घटितानीति मे मतिः । अन्यथा किं समालोकाद् अमृतेनेव सिञ्चसि
अस्ति मे दयिता कान्ता पाति मे राज्यम् अद्य तत् । तवेव तस्या दृष्टानि तान्य् अङ्गान्य् अद्य सुन्दर
उपशान्तं च कान्तं च वपुर् आपादमस्तकम् । शृङ्गं शुभ्राम्बुदेनेव पुष्पेणाच्छादयामुना
निष्कलङ्केन्दुसङ्काशम् अङ्गम् आदित्यतेजसा । मन्ये ते म्लानिम् आयाति सुमनःपत्त्रपेलवम्