मञ्जरीत्वं लतात्वं वा वरम् एतास् तरुं पतिम् । न मुञ्चन्ति क्षणम् अपि ममाप्य् उत्कण्ठितं मनः
यथेयम् अग्रगं कान्तम् एति सिद्धाभिसारिका । तथा कदाहम् एष्यामि ममापीति मनस् स्थितम्
इमे मन्दारमरुत एते च शशिनः कराः । वनराजय एताश् च माम् अप्य् उत्कण्ठयन्त्य् अहो
हे चित्ताज्ञवद् एवान्तः किं त्वं ताण्डवितं स्थितम् । सा व्योमनिर्मला साधो क्व ते याता विवेकिता
अथ वा चित्त भर्तारं स्वं प्रत्य् उत्कण्ठसे सखे । तिष्ठोत्कण्ठाविवलितं किम् अनुत्कण्ठितेन ते
किं किलोत्कण्ठसे वापि भर्ता यातो जरां भवेत् । तपस्वी कृशगात्रश् च भवेन् निर्वासनस् तथा
मत्तो राज्याच् च भोगेभ्यो मन्ये ऽस्यामूलतां गता । वासना लतिका प्रावृण्नदीतटगता यथा
एकान्तमतिर् एकात्मा नीरसश् शान्तवासनः । मन्ये भवति मे भर्ता शुष्कवृक्षसमस्थितिः
तथापि चित्त कोत्कण्ठा भव वोत्कण्ठयान्वितम् । पतिम् उद्बोध्य योगेन श्लेषयिष्याम्य् अहं गले
प्रमृष्टवासनं भर्तुस् समीकृत्य मनो मुनेः । राज्य एव नियोक्ष्यामि निवत्स्यावस् सुखं चिरम्
अहो नु चिरकालेन मनोरथम् इमं शुभम् । अहम् आसादयिष्यामि यद् भर्त्रा समचित्तता
समग्रानन्दवृन्दानाम् एतद् एवोपरि स्थितम् । यत् समानमनोवृत्तिसङ्गम् आस्वादने सुखम्
इति चिन्तावती व्योम्ना चूडालोल्लङ्घ्य पर्वतान् । देशान् अब्दान् दिगन्तांश् च प्राप मन्दरकन्दरम्
अदृश्यैव नभस्स्थैव प्रविवेश वनान्तरम् । वात्येव पादपलतास्पन्दचिह्नगमागमा
वनैकदेशे कस्मिंश्चित् कृतपर्णोटजे पतिम् । दृष्ट्वा योगेन बुबुधे देहान्तरम् इवास्थितम्
हारकेयूरकटककुण्डलादिविभूषितः । अभवन् मेरुकान्तिर् यस् तम् एवात्र ददर्श सा
कृशाङ्गं कृष्णवर्णं च जीर्णपर्णम् इव स्थितम् । कज्जलाम्बुभरस्नातं भृङ्गीशम् इव निस्सहम्
चीराम्बरधरं शान्तम् एकाकिनम् अवस्थितम् । स्थले निषण्णं पुष्पाणि ग्रथयन्तं जरां गतम्
तम् आलोक्यानवद्याङ्गी चूडाला पीवरस्तनी । किञ्चिज्जातविषादेदम् उवाचात्मनि चेतसा
अहो नु विषमं मौर्ख्यं यद् अनात्मज्ञतात्मकम् । एवंविधास् समायान्ति दशा मौर्ख्यप्रसादतः
अयं स राजा लक्ष्मीवान् यो ममापि प्रियः पतिः । हृदि मोहघुणक्षुण्णाम् इमाम् अद्यागतो दशाम्
तद् अवश्यम् इहैवाद्य नाथं विदितवेद्यताम् । नयाम्य् एनं न सन्देहो भोगमोक्षश्रियं तथा
इदं रूपं परित्यज्य रूपेणान्येन केनचित् । सकाशम् अस्य गच्छामि बोधं दातुम् अनुत्तमम्
बालेयं मम कान्तेति मदुक्तं न करोत्य् अयम् । तस्मात् तापसरूपेण बोधयामि पतिं क्षणात्
भर्ता कषायपाकेन परिपक्वमतिस् स्थितः । चेतस्य् अस्याद्य विमले स्वं तत्त्वं प्रतिबिम्बति
इति सञ्चिन्त्य चूडाला बभूव द्विजदारकः । ईषद्ध्यानाद् गतान्यत्वं क्षणाद् अम्बुतरङ्गवत्
पपात विपिने तस्मिन् द्विजपुत्रकरूपिणी । भर्तुर् अभ्याजगामाग्रं मन्दस्मितलसन्मुखी
ददर्श द्विजपुत्रं तं पुरो यातं शिखिध्वजः । वनान्तराद् उपगतं तपोमूर्तिम् इवास्थितम्
द्रवत्कनकगौराङ्गं मुक्ताहारविभूषितम् । शुक्लयज्ञोपवीताङ्गं शुक्लाम्बरयुगावृतम्
कमण्डलुधरं कान्तं शान्तं दान्तम् अनामयम् । व्याप्तप्रकोष्ठं द्विगुणेनाक्षसूत्रेण चारुणा