अथ यातेषु बहुषु वर्षेषु जरसा वृते । शिखिध्वजे महाशैलतटकोटरवासिनि
भर्तुः कषायपाकं तद् आलक्ष्य फलितं चिरात् । तदा तस्यात्मकार्यस्य भवितव्यतया तया
भर्तुस् समीपगमने मम कालो ऽयम् इत्य् अपि । सञ्चिन्त्य मन्दरोपान्तं गन्तुं बुद्धिं चकार सा
चचालान्तःपुराद् रात्रौ ततार च नभःपथम् । जगाम वातस्कन्धेन गच्छन्ती खे ददर्श च
कल्पवृक्षांशुकच्छन्ना रत्नस्तबकभूषिताः । नन्दनोद्याननिलया रक्तास् सिद्धाभिसारिकाः
परामृष्टेन्दुशकलान् प्रालेयकणकर्षिणः । सिद्धोत्तंसात्तसौगन्ध्यान् स्पर्शयाम् आस मारुतान्
चन्द्रबिम्बामृताम्भोधिमहावीचिपरम्पराम् । अपश्यन् निर्मलां ज्योत्स्नाम् अम्बराम्बरतां गताम्
मेघान्तरेण गच्छन्ती मेघलग्नाश् च विद्युतः । अभियुक्ता स्वभर्त्रा सा भूयो भूयो व्यलोकयत्
उवाच चात्मनैवाहो यावज्जीवं शरीरिणाम् । न स्वभावश् शमं याति ममाप्य् उत्कण्ठते मनः
कदा मृगेन्द्रस्कन्धं तं प्रणयप्रवणं पुरः । पश्यामि कान्तम् इत्य् अन्तर् ममाप्य् उत्कण्ठितं मनः
मञ्जरीत्वं लतात्वं वा वरम् एतास् तरुं पतिम् । न मुञ्चन्ति क्षणम् अपि ममाप्य् उत्कण्ठितं मनः
यथेयम् अग्रगं कान्तम् एति सिद्धाभिसारिका । तथा कदाहम् एष्यामि ममापीति मनस् स्थितम्
इमे मन्दारमरुत एते च शशिनः कराः । वनराजय एताश् च माम् अप्य् उत्कण्ठयन्त्य् अहो
हे चित्ताज्ञवद् एवान्तः किं त्वं ताण्डवितं स्थितम् । सा व्योमनिर्मला साधो क्व ते याता विवेकिता
अथ वा चित्त भर्तारं स्वं प्रत्य् उत्कण्ठसे सखे । तिष्ठोत्कण्ठाविवलितं किम् अनुत्कण्ठितेन ते
किं किलोत्कण्ठसे वापि भर्ता यातो जरां भवेत् । तपस्वी कृशगात्रश् च भवेन् निर्वासनस् तथा
मत्तो राज्याच् च भोगेभ्यो मन्ये ऽस्यामूलतां गता । वासना लतिका प्रावृण्नदीतटगता यथा
एकान्तमतिर् एकात्मा नीरसश् शान्तवासनः । मन्ये भवति मे भर्ता शुष्कवृक्षसमस्थितिः
तथापि चित्त कोत्कण्ठा भव वोत्कण्ठयान्वितम् । पतिम् उद्बोध्य योगेन श्लेषयिष्याम्य् अहं गले
प्रमृष्टवासनं भर्तुस् समीकृत्य मनो मुनेः । राज्य एव नियोक्ष्यामि निवत्स्यावस् सुखं चिरम्
अहो नु चिरकालेन मनोरथम् इमं शुभम् । अहम् आसादयिष्यामि यद् भर्त्रा समचित्तता
समग्रानन्दवृन्दानाम् एतद् एवोपरि स्थितम् । यत् समानमनोवृत्तिसङ्गम् आस्वादने सुखम्
इति चिन्तावती व्योम्ना चूडालोल्लङ्घ्य पर्वतान् । देशान् अब्दान् दिगन्तांश् च प्राप मन्दरकन्दरम्
अदृश्यैव नभस्स्थैव प्रविवेश वनान्तरम् । वात्येव पादपलतास्पन्दचिह्नगमागमा
वनैकदेशे कस्मिंश्चित् कृतपर्णोटजे पतिम् । दृष्ट्वा योगेन बुबुधे देहान्तरम् इवास्थितम्
हारकेयूरकटककुण्डलादिविभूषितः । अभवन् मेरुकान्तिर् यस् तम् एवात्र ददर्श सा
कृशाङ्गं कृष्णवर्णं च जीर्णपर्णम् इव स्थितम् । कज्जलाम्बुभरस्नातं भृङ्गीशम् इव निस्सहम्
चीराम्बरधरं शान्तम् एकाकिनम् अवस्थितम् । स्थले निषण्णं पुष्पाणि ग्रथयन्तं जरां गतम्
तम् आलोक्यानवद्याङ्गी चूडाला पीवरस्तनी । किञ्चिज्जातविषादेदम् उवाचात्मनि चेतसा
अहो नु विषमं मौर्ख्यं यद् अनात्मज्ञतात्मकम् । एवंविधास् समायान्ति दशा मौर्ख्यप्रसादतः