एवं शिखिध्वजः पर्णमठिकायां वने स्थितः । इदानीं शृणु चूडाला सा किं कृतवती गृहे
तत्रार्धरात्रसमये दूरं याते शिखिध्वजे । हरिणी ग्रामसुप्तेव चूडाला बुबुधे भयात्
अपश्यत् पतिनिर्हीनं शयनं शून्यतां गतम् । अभास्करम् अपूर्णेन्दुं शान्तशोभम् इवाम्बरम्
उत्तस्थौ किञ्चिद् आम्लानवदना खेदशालिनी । कुसिक्तेव महावल्ली निरुत्साहाङ्गपल्लवा
न प्रसन्ना न विमला बभूवाकुलतां गता । दिनश्रीर् इव नीहारधूसरा सा व्यतिष्ठत
क्षणं शय्योपविष्टैव चिन्तयाम् आस चिन्तया । कष्टं राज्यं प्रभुस् त्यक्त्वा वनं यातो गृहाद् इति
तन् मयेहाद्य किं कार्यं तत्समीपं व्रजाम्य् अहम् । भर्तैव गतिर् उद्दिष्टा विधिना प्रकृता स्त्रियः
इति सञ्चिन्त्य भर्तारम् अनुगन्तुं समुत्थिता । चूडाला वातरन्ध्रेण निर्गत्याम्बरम् आययौ
बभ्रामाम्बरमार्गेण वातस्कन्धेन योगिनी । कुर्वती सिद्धसार्थस्य मुखेनान्येन्दुविभ्रमम्
ददर्शाथ पथा यान्तं रात्रौ खड्गकरं पतिम् । भ्रमन्तम् एकम् एकान्ते वेतालेशम् इवोत्थितम्
तादृशं पतिम् आलोक्य रुद्धा गगनकोटरे । भविष्यच् चिन्तयाम् आस सर्वं भर्तुर् अखण्डितम्
यथा तेन यदा यत्र यावत् कार्यं यथोदयम् । यथा च निर्वृतिस् स्फारा गन्तव्या तेन राघव
अवश्यभवितव्यं तद् भर्तुर् दृष्ट्वा पुरस्स्थितम् । तद् एव सम्पादयितुं गमनात् सा न्यवर्तत
आस्तां ममाद्य गमनं कालेनातिचिरेण हि । मयास्य पार्श्वं गन्तव्यं नियतेर् एष निश्चयः
इति सञ्चिन्त्य चूडाला प्रविश्यान्तःपुरं पुनः । सुष्वाप शयने शम्भोश् शिरसीवैन्दवी कला
केनचित् कारणेनासौ गतस् सम्प्रति भूपतिः । इति पौरजनं सर्वम् आश्वास्यातिष्ठद् अङ्गना
राज्यं ररक्ष भर्तुस् तत् क्रमेण समदर्शना । यथा कलमकेदारं पक्वं कलमगोपिका
तयोस् तदावहत् कालो दम्पत्योस् स्थितयोस् तथा । अदृष्टान्योऽन्यमुखयो राज्यकाननपालयोः
जगामाथ दिनं पक्षो मासो ऽथर्तुश् च वत्सरः । शिखिध्वजस्य विपिने चूडालायास् स्वमन्दिरे
बहुनात्र किम् उक्तेन वर्षाण्य् अष्टादशाङ्गना । चूडालोवास सदने वनकच्छे शिखिध्वजः
अथ यातेषु बहुषु वर्षेषु जरसा वृते । शिखिध्वजे महाशैलतटकोटरवासिनि
भर्तुः कषायपाकं तद् आलक्ष्य फलितं चिरात् । तदा तस्यात्मकार्यस्य भवितव्यतया तया
भर्तुस् समीपगमने मम कालो ऽयम् इत्य् अपि । सञ्चिन्त्य मन्दरोपान्तं गन्तुं बुद्धिं चकार सा
चचालान्तःपुराद् रात्रौ ततार च नभःपथम् । जगाम वातस्कन्धेन गच्छन्ती खे ददर्श च
कल्पवृक्षांशुकच्छन्ना रत्नस्तबकभूषिताः । नन्दनोद्याननिलया रक्तास् सिद्धाभिसारिकाः
परामृष्टेन्दुशकलान् प्रालेयकणकर्षिणः । सिद्धोत्तंसात्तसौगन्ध्यान् स्पर्शयाम् आस मारुतान्
चन्द्रबिम्बामृताम्भोधिमहावीचिपरम्पराम् । अपश्यन् निर्मलां ज्योत्स्नाम् अम्बराम्बरतां गताम्
मेघान्तरेण गच्छन्ती मेघलग्नाश् च विद्युतः । अभियुक्ता स्वभर्त्रा सा भूयो भूयो व्यलोकयत्
उवाच चात्मनैवाहो यावज्जीवं शरीरिणाम् । न स्वभावश् शमं याति ममाप्य् उत्कण्ठते मनः
कदा मृगेन्द्रस्कन्धं तं प्रणयप्रवणं पुरः । पश्यामि कान्तम् इत्य् अन्तर् ममाप्य् उत्कण्ठितं मनः