उत्तस्थौ शयनाल् लीनवधूकाद् धवलांशुकात् । सलक्ष्मीकाद् विलोलोर्मेर् हरिः क्षीरार्णवाद् इव
निर्जगामाङ्गनं मत्तसुप्तभृत्यजनं गृहात् । वनं सुप्तमृगव्यूहं केसरी कन्दराद् इव
खड्गमात्रसहायो ऽसौ पटद्वयपरावृतः । अर्धसुप्तद्वारपालं द्वारदेशम् अवाप च
वीरक्रमार्थं यामीति तत्रैव द्वारपव्रजम् । योजयित्वा जगामासौ पुरान् निर्गत्य पूर्णधीः
राज्यलक्ष्म्यै नमस् तुभ्यम् इत्य् उक्त्वा मण्डलाद् गतः । विवेशोग्राम् अरण्यानीम् एको नद इवार्णवम्
घनान्धकारगुल्माढ्या क्षुद्रभूतौघकर्कशा । सारण्यानीनिशा सा च समं तेनातिवाहिता
प्रातश् शून्यम् अरण्यानीखं तीर्त्वा विततं दिनम् । समम् अर्केण कस्याञ्चिद् विशश्राम वनावनौ
भानाव् अदृश्यतां याते तत्र स्नानादिपूर्वकम् । किञ्चित् फलादिकं भुक्त्वा तां निनाय तमस्वतीम्
पुनः प्रातः पुराण्य् उच्चैर् मण्डलानि गिरीन् नदीः । बलाद् उल्लङ्घयाम् आस राम द्वादशशर्वरीः
ततो मन्दरशैलस्य तटस्थं जनदुर्गमम् । प्राप काननम् अत्यन्तदूरस्थजनतापुरम्
रटत्प्रणालसलिलवापीवलितपादपम् । शीर्णवेद्यादिविज्ञातभूतपूर्वद्विजाश्रमम्
क्षुद्रप्राणिविनिर्मुक्तं सिद्धसेव्यलतालयम् । आपूर्णपादपलतं प्राणवृत्तिकरैः फलैः
तत्रैकस्मिन् स्थले शुद्धे समे सलिलमालिते । शीतले शाद्वलश्यामे स्निग्धे सफलपादपे
समञ्जरीभिर् वल्लीभिस् स चकारोटजालयम् । प्रावृट्कालस् सविद्युद्भिर् नीलाभ्रैर् इव पञ्जरम्
मसृणं वैणवं दण्डं फलभोजनभाजनम् । अर्घपात्रं पुष्पभाण्डम् अक्षमालां कमण्डलुम्
कन्थां शीतापनोदाय बृसीं चैव मृगाजिनम् । आनीयायोजयत् तस्मिन् मठिकामन्दिरे नृपः
यत् किञ्चिद् अन्यद् वा वस्तु योग्यं तापसकर्मणि । तत् तत्र स्थापयाम् आस जगतीव क्रमं विधिः
सन्ध्यापूर्वं जपं प्रातःप्रहरं स तदाकरोत् । पुष्पोच्चयं द्वितीयं तु स्नानं देवार्चनं ततः
पश्चाद् वनफलं किञ्चिद् वनकन्दं बिसादिकम् । भुक्त्वा जप्यपरो भूत्वा निनायैको निशां वशी
इति दिवसम् अखेदं मन्दरोपान्तकच्छे विरचित उटजे ऽन्तर् मालवेशो निनाय । न च नृपतिविलासं तं स सस्मार कं वा स्फुरति हृदि विवेके राज्यलक्ष्म्यो हरन्ति
एवं शिखिध्वजः पर्णमठिकायां वने स्थितः । इदानीं शृणु चूडाला सा किं कृतवती गृहे
तत्रार्धरात्रसमये दूरं याते शिखिध्वजे । हरिणी ग्रामसुप्तेव चूडाला बुबुधे भयात्
अपश्यत् पतिनिर्हीनं शयनं शून्यतां गतम् । अभास्करम् अपूर्णेन्दुं शान्तशोभम् इवाम्बरम्
उत्तस्थौ किञ्चिद् आम्लानवदना खेदशालिनी । कुसिक्तेव महावल्ली निरुत्साहाङ्गपल्लवा
न प्रसन्ना न विमला बभूवाकुलतां गता । दिनश्रीर् इव नीहारधूसरा सा व्यतिष्ठत
क्षणं शय्योपविष्टैव चिन्तयाम् आस चिन्तया । कष्टं राज्यं प्रभुस् त्यक्त्वा वनं यातो गृहाद् इति
तन् मयेहाद्य किं कार्यं तत्समीपं व्रजाम्य् अहम् । भर्तैव गतिर् उद्दिष्टा विधिना प्रकृता स्त्रियः
इति सञ्चिन्त्य भर्तारम् अनुगन्तुं समुत्थिता । चूडाला वातरन्ध्रेण निर्गत्याम्बरम् आययौ
बभ्रामाम्बरमार्गेण वातस्कन्धेन योगिनी । कुर्वती सिद्धसार्थस्य मुखेनान्येन्दुविभ्रमम्
ददर्शाथ पथा यान्तं रात्रौ खड्गकरं पतिम् । भ्रमन्तम् एकम् एकान्ते वेतालेशम् इवोत्थितम्