पुष्पाभया पुष्पसितं जरसा सह काननम् । समं गृहाद् गमिष्यामो हंसा इव तरोस् सरः
अप्राप्तकालं नृपतेः प्रजापालनम् उज्झतः । राजयक्ष्मेव चन्द्रस्य महद् एनो न नश्यति
अप्राप्तकारिणं भूपं रोधयन्ति च वै प्रजाः । रोधयन्ति ह्य् अकार्येभ्यः प्रभुभृत्याः परस्परम्
अलम् उत्पलमालाक्षि विघ्नेनाभिमतस्य मे । विद्धि मां गतम् एवेतो दूरम् एकान्तकाननम्
बाला त्वम् अनवद्याङ्गी नागन्तव्यं वनं त्वया । पुंसाम् अपि हि मृद्वङ्गि दुर्विषह्यो वनाश्रयः
न समर्था वनावासे योषितः कठिना अपि । का नाम पुष्पमञ्जर्यस् सोढुम् अर्कातपं क्षमाः
भवत्या पालयन्त्येह राज्यं स्थातव्यम् उत्तमे । कुटुम्बभारोद्वहनं पत्यौ याते व्रतं स्त्रियः
इत्य् उक्त्वा दयितां राजा ताम् इन्दुवदनां वशी । उत्तस्थौ स्नातुम् अखिलं दिनकार्यं चकार ह
अथोज्झितप्रजाचेष्टो रविर् अस्ताचलं ययौ । शिखिध्वजो वनम् इव समस्तजनदुर्गमम्
संहृत्य विततं रूपं तम् एवानुययौ प्रभा । नाथं भवननिष्क्रान्तं चूडालेवानुरागिणी
आययौ यामिनी श्यामा भुवनं भस्मधूसरम् । धृतव्योमापगं शर्वम् ईर्ष्ययेव यमस्वसा
दिक्षु सन्ध्याभ्रहस्तासु स्थितासु कृतकुण्डलम् । तमोलवालकाङ्कासु ज्योत्स्नाहासोदयाङ्कितम्
गच्छतोर् अपरं पारं दम्पत्योर् मैरवं वनम् । देवोद्यानमयं रन्तुं दिनश्रीदिननाथयोः
आगच्छतोर् इमं पारं हृद्यं तीक्ष्णकरोज्झितम् । निशानिशानाथयोश् च दम्पत्योर् मैरवं पुनः
तारागणो ऽपि ददृशे विशीर्णो व्योमकुट्टिमे । मुक्तो मङ्गललाजानां दिग्वधूभिर् इवाञ्जलिः
चन्द्रानना तमश्श्यामा शीता कुमुदहासिनी । यामिनी यौवनं प्राप सरोजमुकुलस्तनी
कृतसन्ध्यासमाचारस् सह चूडालयेष्टया । सुष्वाप शयने भूपो मैनाक इव सागरे
अथार्धरात्रसमये देशे निश्शब्दतां गते । घननिद्राशिलाकोशनिलीने सकले जने
स तस्यां सम्प्रसुप्तायां शयने कोमलांशुके । भृशं निद्राविमूढायां भ्रमर्याम् इव पङ्कजे
तत्याज दयितां सुप्ताम् अङ्काद् राजा शिखिध्वजः । स्वैरं स्वैरं मुखं राहो रविचन्द्रप्रभाम् इव
उत्तस्थौ शयनाल् लीनवधूकाद् धवलांशुकात् । सलक्ष्मीकाद् विलोलोर्मेर् हरिः क्षीरार्णवाद् इव
निर्जगामाङ्गनं मत्तसुप्तभृत्यजनं गृहात् । वनं सुप्तमृगव्यूहं केसरी कन्दराद् इव
खड्गमात्रसहायो ऽसौ पटद्वयपरावृतः । अर्धसुप्तद्वारपालं द्वारदेशम् अवाप च
वीरक्रमार्थं यामीति तत्रैव द्वारपव्रजम् । योजयित्वा जगामासौ पुरान् निर्गत्य पूर्णधीः
राज्यलक्ष्म्यै नमस् तुभ्यम् इत्य् उक्त्वा मण्डलाद् गतः । विवेशोग्राम् अरण्यानीम् एको नद इवार्णवम्
घनान्धकारगुल्माढ्या क्षुद्रभूतौघकर्कशा । सारण्यानीनिशा सा च समं तेनातिवाहिता
प्रातश् शून्यम् अरण्यानीखं तीर्त्वा विततं दिनम् । समम् अर्केण कस्याञ्चिद् विशश्राम वनावनौ
भानाव् अदृश्यतां याते तत्र स्नानादिपूर्वकम् । किञ्चित् फलादिकं भुक्त्वा तां निनाय तमस्वतीम्
पुनः प्रातः पुराण्य् उच्चैर् मण्डलानि गिरीन् नदीः । बलाद् उल्लङ्घयाम् आस राम द्वादशशर्वरीः
ततो मन्दरशैलस्य तटस्थं जनदुर्गमम् । प्राप काननम् अत्यन्तदूरस्थजनतापुरम्