नित्यम् उद्दामवैराग्यः परिव्राड् इव शान्तधीः । निन्दन्न् एव महाभोगान् अभोक्तैव श्रियां स्थितः
ददाव् अतितरां दानं गोभूमिकनकादिकम् । देवेभ्यो ब्राह्मणेभ्यश् च स्वजनेभ्यश् च मानदः
चचार च तपः कर्तुं कृच्छ्रचान्द्रायणादिकम् । परिबभ्राम तीर्थानि वनान्य् आयतनानि च
स तथापि विशोकत्वं मनाग् अपि न लब्धवान् । अनिधानां खनन् भूमिं निधानार्थी निधिं यथा
रात्रिन्दिनम् अनन्तेन शुष्यञ् शोककृशानुना । चिन्तया चिन्तयाम् आस संसारव्याधिभेषजम्
चिन्तापरवशो दीनो राज्यं पश्यन् विषोपमम् । महाविभवम् अप्य् अग्रे नापश्यत् खिन्नया धिया
अथैकदैकान्तगतां चूडालाम् अङ्कम् आगताम् । इदं मधुरया वाचा समुवाच शिखिध्वजः
भुक्तं राज्यं चिरं कालं भुक्ता विभवभूमयः । अधुनास्मि विरागेण युक्तो गच्छामि काननम्
न सुखानि न दुःखानि नापदो न च सम्पदः । क्रोडीकुर्वन्ति भूतानि मुनिं वननिवासिनम्
न देशभङ्गसम्मोहो न सङ्ग्रामजनक्षयः । राज्याद् अप्य् अधिकं मन्ये सुखं वननिवासिनः
स्तबकस्तनधारिण्यो रक्तपल्लवपाणयः । मञ्जरीजालहासिन्यो लोलशुभ्राम्बुदांशुकाः
स्वपरागाङ्गहारिण्यः कृतकौसुममण्डनाः । सुसेव्यकाञ्चनशिलानितम्बतटशोभनाः
तरङ्गमौक्तिकप्रोतसरिन्मुक्तालतावृताः । लतावयस्यावलिता मुग्धमुग्धमृगात्मजाः
स्वभावोद्दामसौगन्ध्या वितीर्णफलभोजनाः । षट्पदश्रेणिनयनाः पुष्पापूरनताङ्गिकाः
आश्वासास्पदतां याताश् शीतलामलगात्रिकाः । रमयन्ति त्वम् इव मां वनवीथ्यो वरानने
यथा विविक्तम् एकान्ते मनो भवति निर्वृतम् । न तथा शशिबिम्बेषु न च ब्रह्मेन्द्रसद्मसु
अस्मिन् मत्प्रणये तन्वि न विघ्नं कर्तुम् अर्हसि । भर्तुर् विघटयन्तीच्छां न स्वप्ने ऽपि कुलस्त्रियः
प्राप्तकालं कृतं कार्यं राजते नाथ नेतरत् । वसन्ते राजते पुष्पं फलं शरदि राजते
जराजरढदेहानां युक्तं वनसमाश्रयः । न यूनां त्वादृशाम् एव तेनैतन् मे न रोचते
यौवनेन महाराज न यावद् वयम् उज्झिताः । पुष्पौघेनेव तरवस् तावच् छोभामहे गृहे
पुष्पाभया पुष्पसितं जरसा सह काननम् । समं गृहाद् गमिष्यामो हंसा इव तरोस् सरः
अप्राप्तकालं नृपतेः प्रजापालनम् उज्झतः । राजयक्ष्मेव चन्द्रस्य महद् एनो न नश्यति
अप्राप्तकारिणं भूपं रोधयन्ति च वै प्रजाः । रोधयन्ति ह्य् अकार्येभ्यः प्रभुभृत्याः परस्परम्
अलम् उत्पलमालाक्षि विघ्नेनाभिमतस्य मे । विद्धि मां गतम् एवेतो दूरम् एकान्तकाननम्
बाला त्वम् अनवद्याङ्गी नागन्तव्यं वनं त्वया । पुंसाम् अपि हि मृद्वङ्गि दुर्विषह्यो वनाश्रयः
न समर्था वनावासे योषितः कठिना अपि । का नाम पुष्पमञ्जर्यस् सोढुम् अर्कातपं क्षमाः
भवत्या पालयन्त्येह राज्यं स्थातव्यम् उत्तमे । कुटुम्बभारोद्वहनं पत्यौ याते व्रतं स्त्रियः
इत्य् उक्त्वा दयितां राजा ताम् इन्दुवदनां वशी । उत्तस्थौ स्नातुम् अखिलं दिनकार्यं चकार ह
अथोज्झितप्रजाचेष्टो रविर् अस्ताचलं ययौ । शिखिध्वजो वनम् इव समस्तजनदुर्गमम्
संहृत्य विततं रूपं तम् एवानुययौ प्रभा । नाथं भवननिष्क्रान्तं चूडालेवानुरागिणी