तथा श्रुतोपदेशेन स्वात्मज्ञानम् अवाप्यते । अन्यद् अन्विष्यते चान्यल् लभ्यते हि गुरुक्रमात्
ब्रह्म सर्वेन्द्रियातीतं श्रुतादीन्द्रियसंविदा । तेनोपदेशाद् अनघ नात्मतत्त्वम् अवाप्यते
गुरूपदेशं च विना नात्मतत्त्वागमो भवेत् । केन चिन्तामणिर् लब्धः कपर्दान्वेषणं विना
तत्त्वस्यास्य महार्घस्य गुरूपकथनं गतम् । अकारणं कारणतां मणेर् इव कपर्दकः
पश्य राघव मायेयं मोहनी महताम् अपि । अन्यद् अन्विष्यते यत्नाद् अन्यद् आसाद्यते फलम्
अन्यत् करोति पुरुषः फलम् अन्यद् एव प्राप्नोति वस्तुनियतिश् च विलोक्यते च । तस्माद् अनन्तविभवस्य जगत्क्रमस्य श्रेयो ऽतिवाहनम् असङ्गम् अवज्ञयैव
ततश् शिखिध्वजो राजा तत्त्वज्ञानपदं विना । आजगाम परं मोहं यामान्ध्यम् इव भूतलम्
दुःखाग्निदीपितमना मनाग् अपि विभूतिषु । तास्व् अपीष्टोपनीतासु न रेमे ऽग्निशिखास्व् इव
एकान्तेषु दिगन्तेषु निर्झरेषु गुहासु च । आजगाम रतिं जन्तुमुक्तेषु व्यसनी यथा
राघव त्वम् इवाशेषास् सान्त्वानुनयचोदनैः । प्रार्थितः कार्यते भृत्यैर् महीपो दिवसक्रियाः
नित्यम् उद्दामवैराग्यः परिव्राड् इव शान्तधीः । निन्दन्न् एव महाभोगान् अभोक्तैव श्रियां स्थितः
ददाव् अतितरां दानं गोभूमिकनकादिकम् । देवेभ्यो ब्राह्मणेभ्यश् च स्वजनेभ्यश् च मानदः
चचार च तपः कर्तुं कृच्छ्रचान्द्रायणादिकम् । परिबभ्राम तीर्थानि वनान्य् आयतनानि च
स तथापि विशोकत्वं मनाग् अपि न लब्धवान् । अनिधानां खनन् भूमिं निधानार्थी निधिं यथा
रात्रिन्दिनम् अनन्तेन शुष्यञ् शोककृशानुना । चिन्तया चिन्तयाम् आस संसारव्याधिभेषजम्
चिन्तापरवशो दीनो राज्यं पश्यन् विषोपमम् । महाविभवम् अप्य् अग्रे नापश्यत् खिन्नया धिया
अथैकदैकान्तगतां चूडालाम् अङ्कम् आगताम् । इदं मधुरया वाचा समुवाच शिखिध्वजः
भुक्तं राज्यं चिरं कालं भुक्ता विभवभूमयः । अधुनास्मि विरागेण युक्तो गच्छामि काननम्
न सुखानि न दुःखानि नापदो न च सम्पदः । क्रोडीकुर्वन्ति भूतानि मुनिं वननिवासिनम्
न देशभङ्गसम्मोहो न सङ्ग्रामजनक्षयः । राज्याद् अप्य् अधिकं मन्ये सुखं वननिवासिनः
स्तबकस्तनधारिण्यो रक्तपल्लवपाणयः । मञ्जरीजालहासिन्यो लोलशुभ्राम्बुदांशुकाः
स्वपरागाङ्गहारिण्यः कृतकौसुममण्डनाः । सुसेव्यकाञ्चनशिलानितम्बतटशोभनाः
तरङ्गमौक्तिकप्रोतसरिन्मुक्तालतावृताः । लतावयस्यावलिता मुग्धमुग्धमृगात्मजाः
स्वभावोद्दामसौगन्ध्या वितीर्णफलभोजनाः । षट्पदश्रेणिनयनाः पुष्पापूरनताङ्गिकाः
आश्वासास्पदतां याताश् शीतलामलगात्रिकाः । रमयन्ति त्वम् इव मां वनवीथ्यो वरानने
यथा विविक्तम् एकान्ते मनो भवति निर्वृतम् । न तथा शशिबिम्बेषु न च ब्रह्मेन्द्रसद्मसु
अस्मिन् मत्प्रणये तन्वि न विघ्नं कर्तुम् अर्हसि । भर्तुर् विघटयन्तीच्छां न स्वप्ने ऽपि कुलस्त्रियः
प्राप्तकालं कृतं कार्यं राजते नाथ नेतरत् । वसन्ते राजते पुष्पं फलं शरदि राजते
जराजरढदेहानां युक्तं वनसमाश्रयः । न यूनां त्वादृशाम् एव तेनैतन् मे न रोचते
यौवनेन महाराज न यावद् वयम् उज्झिताः । पुष्पौघेनेव तरवस् तावच् छोभामहे गृहे