न श्रुतेन न पुण्येन ज्ञायते ज्ञेयम् आत्मनः । जानात्य् आत्मानम् आत्मैव सर्पस् सर्पपदानि व
एवं स्थिते वरमुने कथम् एतज् जनश्रुतौ । श्रुतं गुरूपदेशश् च स्वात्मज्ञानस्य कारणम्
अत्यन्तं कृपणः कश्चित् किराटो धनधान्यवान् । आस्ते विन्ध्याटवीकच्छे कुटुम्बी व्रणकीटवत्
तस्यैकदा निपतिता गच्छतो विन्ध्यजङ्गले । एका वराटिका राम तृणजालबुसावृते
कार्पण्यात् स प्रयत्नेन सर्वं तृणबुसादिकम् । कपर्दिकार्थम् अभितो दुधाव दिवसत्रयम्
कपर्दकाद् द्वौ भवतश् चत्वारो ऽष्टौ च कालतः । ततश् शतं सहस्रं च सहस्रं चेति चेतसा
कलयञ् जङ्गले दीनो रात्रिन्दिनम् अतन्द्रितः । जनहासं सहंस् त्रीणि दिनानि धुतवान् बुसम्
ततो दिनत्रयस्यान्ते तेन तस्मात् कुजङ्गलात् । पूर्णेन्दुबिम्बप्रतिमो लब्धश् चिन्तामणिर् महान्
तं प्राप्य तुष्टहृदयस् समागत्य गृहं सुखी । प्राप्ताखिलजगद्भूतिश् शान्तसर्वभयस् स्थितः
एवं यथा किराटेन कपर्दान्वेषणेन तत् । रत्नं लब्धं जगन्मूल्यम् अहोरात्रम् अखिद्यता
तथा श्रुतोपदेशेन स्वात्मज्ञानम् अवाप्यते । अन्यद् अन्विष्यते चान्यल् लभ्यते हि गुरुक्रमात्
ब्रह्म सर्वेन्द्रियातीतं श्रुतादीन्द्रियसंविदा । तेनोपदेशाद् अनघ नात्मतत्त्वम् अवाप्यते
गुरूपदेशं च विना नात्मतत्त्वागमो भवेत् । केन चिन्तामणिर् लब्धः कपर्दान्वेषणं विना
तत्त्वस्यास्य महार्घस्य गुरूपकथनं गतम् । अकारणं कारणतां मणेर् इव कपर्दकः
पश्य राघव मायेयं मोहनी महताम् अपि । अन्यद् अन्विष्यते यत्नाद् अन्यद् आसाद्यते फलम्
अन्यत् करोति पुरुषः फलम् अन्यद् एव प्राप्नोति वस्तुनियतिश् च विलोक्यते च । तस्माद् अनन्तविभवस्य जगत्क्रमस्य श्रेयो ऽतिवाहनम् असङ्गम् अवज्ञयैव
ततश् शिखिध्वजो राजा तत्त्वज्ञानपदं विना । आजगाम परं मोहं यामान्ध्यम् इव भूतलम्
दुःखाग्निदीपितमना मनाग् अपि विभूतिषु । तास्व् अपीष्टोपनीतासु न रेमे ऽग्निशिखास्व् इव
एकान्तेषु दिगन्तेषु निर्झरेषु गुहासु च । आजगाम रतिं जन्तुमुक्तेषु व्यसनी यथा
राघव त्वम् इवाशेषास् सान्त्वानुनयचोदनैः । प्रार्थितः कार्यते भृत्यैर् महीपो दिवसक्रियाः
नित्यम् उद्दामवैराग्यः परिव्राड् इव शान्तधीः । निन्दन्न् एव महाभोगान् अभोक्तैव श्रियां स्थितः
ददाव् अतितरां दानं गोभूमिकनकादिकम् । देवेभ्यो ब्राह्मणेभ्यश् च स्वजनेभ्यश् च मानदः
चचार च तपः कर्तुं कृच्छ्रचान्द्रायणादिकम् । परिबभ्राम तीर्थानि वनान्य् आयतनानि च
स तथापि विशोकत्वं मनाग् अपि न लब्धवान् । अनिधानां खनन् भूमिं निधानार्थी निधिं यथा
रात्रिन्दिनम् अनन्तेन शुष्यञ् शोककृशानुना । चिन्तया चिन्तयाम् आस संसारव्याधिभेषजम्
चिन्तापरवशो दीनो राज्यं पश्यन् विषोपमम् । महाविभवम् अप्य् अग्रे नापश्यत् खिन्नया धिया
अथैकदैकान्तगतां चूडालाम् अङ्कम् आगताम् । इदं मधुरया वाचा समुवाच शिखिध्वजः
भुक्तं राज्यं चिरं कालं भुक्ता विभवभूमयः । अधुनास्मि विरागेण युक्तो गच्छामि काननम्
न सुखानि न दुःखानि नापदो न च सम्पदः । क्रोडीकुर्वन्ति भूतानि मुनिं वननिवासिनम्
न देशभङ्गसम्मोहो न सङ्ग्रामजनक्षयः । राज्याद् अप्य् अधिकं मन्ये सुखं वननिवासिनः