यथोषसि प्रवृत्तायाम् आलोको ऽवश्यम् एष्यति । अस्यां वा चितिमात्रायां स्वविवेकस् तथैष्यति
श्रुतायां प्राज्ञवदनाद् बुद्धायां स्वयम् एव वा । शनैश् शनैर् विचारेण बुद्धौ संस्कार आगते
पूर्वं तावद् उदेत्य् अन्तर् भृशं संस्कृतवाक्यता । शुद्धा मुक्तालतेवोच्चैर् या सभास्थानभूषणम्
परा विरागतोदेति महत्त्वगुणशालिनी । सा यया स्नेहम् आयान्ति राजानो ऽजगरा अपि
पूर्वापरज्ञस् सर्वत्र नरो भवति बुद्धिमान् । पदार्थानां यथा दीपहस्तो निशि सुलोचनः
लोभमोहादयो दोषास् तानवं यान्त्य् अलं शनैः । धियो दिशस् समासन्नशरदो मिहिका यथा
केवलं समपेक्षन्ते विवेकाभ्यसनं धियः । न काचन फलं धत्ते स्वभ्यासेन विना क्रिया
मनः प्रसादम् आयाति शरदीव महत् सरः । परं साम्यम् उपादत्ते निर्मन्दर इवार्णवः
निरन्तःकालिमा वज्रशिखेवास्ततमःपटा । परिज्वलत्य् अलं प्रज्ञा पदार्थप्रविभागिनी
दैन्यदारिद्र्यदुःखाद्या दृष्टयो दर्शितान्तराः । न निकृन्तन्ति मर्माणि ससन्नाहम् इवेषवः
हृदयं नावलुम्पन्ति भीमास् संसृतिभीतयः । पुरस्स्थितम् अपि प्राज्ञं महोपलम् इवाखवः
कथं स्याद् आदिता जन्मकर्मणोर् दैवपुंस्त्वयोः । इत्यादिसंशयगणश् शाम्यत्य् अह्नि यथा तमः
सर्वथा सर्वभावेषु सङ्गतिर् ह्य् उपशाम्यति । यामिन्याम् इव यातायां प्रज्ञालोक उपागते
समुद्रस्येव गाम्भीर्यं स्थैर्यं मेरोर् इव स्थिरम् । अन्तश्शीतलता चेन्दोर् इवोदेति विचारिणः
सा जीवन्मुक्तता तस्य शनैः परिणतिं गता । शान्ताशेषविकल्पस्य भवत्य् आविश्य योगिनः
सर्वार्थशीतला शुद्धा परमालोकदा सुधीः । परं प्रकाशम् आयाति ज्योत्स्नेव सकलैन्दवी
हृद्याकाशे विवेकार्के शमालोकिनि निर्मले । अनर्थसार्थकर्तारो नोद्यन्ति कलिकेतवः
शाम्यन्ति शुद्धिम् आयान्ति सौम्यास् तिष्ठन्ति सून्नते । अचञ्चले जडास् तृष्णाश् शरदीवाभ्रमालिकाः
यत्किञ्चनकरी क्रूरा ग्राम्यता विनिवर्तते । दीनानना पिशाचानां लीलेव दिवसागमे
धर्मभित्तौ भृशं लग्नां धियं धैर्यधुरं गताम् । आधयो न विलुम्पन्ति वाताश् चित्रलताम् इव
न पतत्य् अवटे जन्तुर् विषयासङ्गरूपिणि । कः किल ज्ञातसरणिश् श्वभ्रे समनुधावति
सच्छास्त्रसाधुवृत्तानाम् अविरोधिनि कर्मणि । रमते धीर् यथाप्राप्ते साध्वीवान्तःपुराजिरे
जगतां कोटिलक्ष्येषु यावन्तः परमाणवः । तेषाम् एकैकशो ऽन्तस्स्थान् सर्गान् पश्यत्य् असर्गधीः
मोक्षोपायावबोधेन शुद्धान्तःकरणं जनम् । न खेदयति भोगौघो न चानन्दयति क्वचित्
परमाणौ परमाणौ सर्गवर्गा निरर्गलम् । ये पतन्त्य् उत्पतन्त्य् अम्बुवीचिवत् तान् स पश्यति
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति । कार्याण्य् एष प्रबुद्धो ऽपि निष्प्रबुद्ध इव द्रुमः
दृश्यते लोकसामान्यो यथाप्राप्तानुवृत्तिमान् । इष्टानिष्टफलप्राप्तौ हृदयेनापराजितः
बुद्ध्वेदम् अखिलं शास्त्रं वाचयित्वा विवेच्य वा । अनुभूयत एवैतन् न तूक्तं वरशापवत्
शास्त्रं सुबोधम् एवेदं नानालङ्कारभूषितम् । काव्यं रसघनं चारु दृष्टान्तैः प्रतिपादकम्
बुध्यते स्वयम् एवेदं किञ्चित्पदपदार्थवित् । स्वयं यस् तु न वेत्तीदं श्रोतव्यं तेन पण्डितात्