ते शून्यवादिनस् त्व् अन्ये शून्यत्वदृढभावनाः । व्योम्नश् शून्यतरं सर्वं जगद् इत्य् आस्थयोज्झिताः
एकम् आकाशम् एवोच्चैर् आकाशविशदाशयाः । पश्यन्ति राम नात्मानं जगदादि च वा पृथक्
शिलाकुड्येन निर्यान्ति नभसेवानिरोधितम् । शस्त्रानिलैर् न भिद्यन्ते नभोभागा इवाचलाः
सुमेरुविपुलाकारा अप्य् आदित्यांशुरेणुषु । बिसतन्तुषु मेघेषु तिष्ठन्ति परमाणुवत्
शून्यत्वम् इव संयाताश् शून्यताबद्धभावनाः । शून्या इव नभोभागाश् शून्ये तिष्ठन्ति विज्वरम्
शून्ये च विदितात्मानो भावयन्ति यथैव यत् । तत् तथैवाशु पश्यन्ति दृढभावनया स्वया
दृढभावानुसन्धानाद् विमूढा अपि राघव । विषं नयन्त्य् अमृतताम् अमृतं विषताम् अपि
एवं यथा यथैवेह भाव्यते दृढभावनम् । भूयते हि तथैवाशु तद् एत्य् आलोकितं पुनः
सत्यभावेन दृष्टो ऽयं देहो देहो भवत्य् अलम् । दृष्टस् त्व् असत्यभावेन व्योमतां याति देहकः
अणिमादिपदप्राप्तौ ज्ञानयुक्तिर् इति श्रुता । भवतैषाधुना राम युक्तिम् अन्याम् इमां शृणु
रेचकाभ्यासयोगेन जीवः कुण्डलिनीगृहात् । उद्धृत्य योज्यते वायाव् आमोदः कुसुमाद् इव
त्यज्यते विगतस्पन्दो देहो ऽयं काष्ठलोष्टवत् । देहे विजीवे विमणौ वंशे च क इवादरः
स्थावरे जङ्गमे वापि यथाभिमतयेच्छया । भोक्तुं तत्सम्पदं सम्यग् जीवो ऽन्तर् विनिवेश्यते
इति सिद्धिश्रियं भुक्त्वा स्थितं चेत् तद् वपुः पुनः । प्रविश्यते स्वम् अन्यद् वा यद् यथात्राभिरोचते
देहाद् अयातया विष्वग् व्याप्तवत्या च खानिलम् । संविदा जगद् आपूर्य सम्पूर्णं स्थीयते ऽथ वा
ज्ञात्वा सदाभ्युदितम् उज्झितदोषम् ईशं यद् यद् यथा समभिवाञ्छति चित्प्रकाशः । प्राप्नोति तत् तद् अचिरेण तथैव राम सम्पत्पदं विदुर् अनावरणत्वम् एव
अणिमादिगुणैश्वर्ययुक्ता सा नृपमानिनी । एवं बभूव चूडाला घनाभ्यासवती सती
जगामाकाशमार्गेण विवेशाम्बुधिकोटरम् । चचार वसुधापीठे गङ्गेवामलशीतला
क्षणम् अप्य् अगता भर्तुर् वक्षसश् चेतसस् तथा । सर्वेषूवास राज्येषु लक्ष्मीर् इव जगत्सु च
आकाशगामिनी श्यामा विद्युदालोलभूषणा । बभ्राम मेघलेखेव गिरिमाला महीतले
काष्ठं तृणोपलं भूमिं खं वातम् अनलं जलम् । निर्विघ्नम् अविशत् सर्वं तन्तुर् मुक्ताफलं यथा
मेरोर् उपरि शृङ्गाणि लोकपालपुराणि च । दिग्व्योमोदररन्ध्राणि विजहार यथासुखम्
तिर्यग्भूतपिशाचाद्यैस् सह नागामरासुरैः । विद्याधराप्सरस्सिद्धैर् व्यवहारं चकार सा
यत्नेन तं च भर्तारम् आत्मज्ञानामृतं प्रति । बहुशो बोधयाम् आस माता बालम् इवात्मजम्
न चासाव् आप तद्भर्ता राजा विश्रान्तिम् आत्मनि । मुक्ताफलम् असंश्लिष्टं मुक्ताफल इवातले
एतावतापि कालेन ताम् एवंगुणशालिनीम् । बालो विद्याम् इव नृपश् चूडालां न विवेद सः
कलाविदग्धा मुग्धा च बालेयं गृहिणी मम । इत्य् एव केवलं राजा स चूडालां विवेद ताम्
साप्य् अलब्धात्मविश्रान्तेस् तां सिद्धिश्रियम् आत्मनः । दर्शयाम् आस नो राज्ञश् शूद्रस्येव मखक्रियाम्
महत्यास् सिद्धयोगिन्यास् तस्या अपि शिखिध्वजः । यत्नेन प्राप नो बोधं बुध्यते ऽन्यः कथं प्रभो
उपदेशक्रमो नाम व्यवस्थामात्रपालनम् । ज्ञप्तेस् तु कारणं शुद्धा शिष्यप्रज्ञैव राघव