शान्तिम् आयाति देहो ऽयं सर्वसङ्कल्पसङ्क्षये । तदा राघव निश्शेषं दीपस् तैलक्षये यथा
निद्राव्यपगमे जन्तुर् यथा स्वप्नं न पश्यति । जीवो हि भाविते सत्ये तथा देहं न पश्यति
अतत्त्वे तत्त्वभावेन जीवो देहावृतस् स्थितः । निर्देहो भवति श्रीमान् सुखी तत्त्वैकभावनात्
अनात्मनि शरीरादाव् आत्मभावनम् अङ्ग यत् । सूर्याद्यालोकदुर्भेदं हार्दं तद् दारुणं तमः
आत्मन्य् एवात्मभावेन सर्वव्यापि निरञ्जनम् । चिन्मात्रम् अमलो ऽस्मीति ज्ञानादित्येन पश्यति
प्रतिमन्वन्तरं राम बुद्धताम् अनुतिष्ठति । कलौ हरिर् अमेयात्मा किञ्चिद् आश्रित्य कारणम्
तस्य बुद्धाभिधानस्य मुनिनाथस्य राघव । ये भक्तिमन्तो धीमन्तो मोक्षमार्गाभिकाङ्क्षिणः
शून्यं विज्ञानमात्रं वा मध्यं वा किञ्चिद् एतयोः । अस्तीति हेतूपन्यासैर् ब्रह्म व्यपदिशन्ति ते
तेषां मध्ये हि विज्ञानविदो द्वित्वे क्षयीकृते । जगद् भ्रान्तिपरामर्शमात्रं पश्यन्ति नेतरत्
मध्यं माध्यमिकाः प्राहुः क्षणभङ्गविदः परे । न शून्यं न च विज्ञानम् इदं किञ्चिद् इति स्थिताः
ते शून्यवादिनस् त्व् अन्ये शून्यत्वदृढभावनाः । व्योम्नश् शून्यतरं सर्वं जगद् इत्य् आस्थयोज्झिताः
एकम् आकाशम् एवोच्चैर् आकाशविशदाशयाः । पश्यन्ति राम नात्मानं जगदादि च वा पृथक्
शिलाकुड्येन निर्यान्ति नभसेवानिरोधितम् । शस्त्रानिलैर् न भिद्यन्ते नभोभागा इवाचलाः
सुमेरुविपुलाकारा अप्य् आदित्यांशुरेणुषु । बिसतन्तुषु मेघेषु तिष्ठन्ति परमाणुवत्
शून्यत्वम् इव संयाताश् शून्यताबद्धभावनाः । शून्या इव नभोभागाश् शून्ये तिष्ठन्ति विज्वरम्
शून्ये च विदितात्मानो भावयन्ति यथैव यत् । तत् तथैवाशु पश्यन्ति दृढभावनया स्वया
दृढभावानुसन्धानाद् विमूढा अपि राघव । विषं नयन्त्य् अमृतताम् अमृतं विषताम् अपि
एवं यथा यथैवेह भाव्यते दृढभावनम् । भूयते हि तथैवाशु तद् एत्य् आलोकितं पुनः
सत्यभावेन दृष्टो ऽयं देहो देहो भवत्य् अलम् । दृष्टस् त्व् असत्यभावेन व्योमतां याति देहकः
अणिमादिपदप्राप्तौ ज्ञानयुक्तिर् इति श्रुता । भवतैषाधुना राम युक्तिम् अन्याम् इमां शृणु
रेचकाभ्यासयोगेन जीवः कुण्डलिनीगृहात् । उद्धृत्य योज्यते वायाव् आमोदः कुसुमाद् इव
त्यज्यते विगतस्पन्दो देहो ऽयं काष्ठलोष्टवत् । देहे विजीवे विमणौ वंशे च क इवादरः
स्थावरे जङ्गमे वापि यथाभिमतयेच्छया । भोक्तुं तत्सम्पदं सम्यग् जीवो ऽन्तर् विनिवेश्यते
इति सिद्धिश्रियं भुक्त्वा स्थितं चेत् तद् वपुः पुनः । प्रविश्यते स्वम् अन्यद् वा यद् यथात्राभिरोचते
देहाद् अयातया विष्वग् व्याप्तवत्या च खानिलम् । संविदा जगद् आपूर्य सम्पूर्णं स्थीयते ऽथ वा
ज्ञात्वा सदाभ्युदितम् उज्झितदोषम् ईशं यद् यद् यथा समभिवाञ्छति चित्प्रकाशः । प्राप्नोति तत् तद् अचिरेण तथैव राम सम्पत्पदं विदुर् अनावरणत्वम् एव
अणिमादिगुणैश्वर्ययुक्ता सा नृपमानिनी । एवं बभूव चूडाला घनाभ्यासवती सती
जगामाकाशमार्गेण विवेशाम्बुधिकोटरम् । चचार वसुधापीठे गङ्गेवामलशीतला
क्षणम् अप्य् अगता भर्तुर् वक्षसश् चेतसस् तथा । सर्वेषूवास राज्येषु लक्ष्मीर् इव जगत्सु च
आकाशगामिनी श्यामा विद्युदालोलभूषणा । बभ्राम मेघलेखेव गिरिमाला महीतले