चितश् चेत्योन्मुखत्वेन लाभस् सैव च संसृतिः । निश्चेत्यायास् तु नो लाभो निर्वाणं च तद् एव हि
अन्योऽन्यलब्धसत्ताकाव् एवं कुड्यप्रकाशवत् । अग्नीषोमाव् इमौ विद्धि सम्पृक्तौ देहदेहिनौ
अतिशायिनि निर्वाणे जाड्ये चैवातिशायिनि । अग्नेस् सोमस्य चैवाङ्ग स्थितिर् भवति केवला
प्राणो ऽग्निर् उष्णप्रकृतिर् अपानश् शीतलश् शशी । छायातपवद् इत्य् एतौ संस्थितौ मुखमार्गगौ
अपाने शीतले सत्ताम् एत्य् उष्णः प्राणपावकः । प्रतिबिम्बम् इवादर्शे स च तस्मिंस् तथैव हि
चिदग्निः पद्मयन्त्रस्थं सोमं वार्यात्मकं त्विषा । जनयत्य् अनुभूत्येह कुड्यालोकं यथा बहिः
संसृत्यादौ हि या काचित् संविच् छीतोष्णरूपिणी । अग्नीषोमाभिधां प्राप्ता सैव सर्गो नृणाम् इह
यत्र सोमकला ग्रस्ता क्षणं सूर्येण षोडशी । मुखाद् वितस्तिमात्राग्रे तत्र बद्धपदो भव
नूनं सूर्यपदं प्राप्तस् सोमो यत्र हृदम्बरे । नूनं केवलया स्थित्या तत्र बद्धपदो भव
औष्ण्यम् अग्निश् चिद् आदित्यश् शैत्यं सोम उदाहृतः । यत्रैतौ प्रतिबिम्बस्थौ तत्र बद्धपदो भव
शारीरसोमसूर्याग्निसङ्क्रान्तिज्ञो भवानघ । अत्र योजनलक्षस्थं वस्तु पश्यसि निश्य् अपि । अत्र सङ्क्रान्तिकाला हि बाह्यास् तृणसमास् स्मृताः
सङ्क्रान्तिम् उत्तरम् अथायनम् अङ्ग सम्यक्कालं तथा विषुवती यदि देहवातैः । अन्तर् बहिस्स्थम् इव वेत्सि यथानुभूतं तच् छोचसीह न पुनः परम् अभ्युपेतः
अणुतां स्थूलतां चायं यथा गच्छति योगिनाम् । देहो राम तथा सम्यग् वक्ष्यमाणम् इदं शृणु
हृद्य् अब्जपत्त्रकोशोत्थः प्रस्फुरत्य् आनलः कणः । हेमभ्रमरवत् सान्ध्ये विद्युत्कण इवाम्बुदे
स प्रवर्धनसंवित्त्या वात्ययेवाशु वर्धते । संविद्रूपतया नूनम् अर्कवद् याति चोदयम्
सन्ध्याभ्रप्रथमार्काभो वृद्धिम् अभ्यागतः क्षणात् । गालयत्य् अखिलं साङ्गं देहं हेम यथानलः
जलस्पर्शासहो युक्त्या गालयत्य् उपलाद्य् अपि । बाह्य एवानलस्पन्द आन्तरस् तु विशेषतः
स शरीरद्रवः पश्चाद् विधूय क्वापि नीयते । चित्क्षोभितेन प्राणेन नीहारो वात्यया यथा
आधारनाडिनिर्हीना व्योमस्थैवावशिष्यते । शक्तिः कुण्डलिनी वह्नेर् धूमलेखेव निर्गता
क्रोडीकृतमनोबुद्धिमयजीवाद्यहङ्कृतिः । अन्तस्स्फुरच्चमत्कारा धूमलेखेव तागरी
बिसवालव्रणे भित्ताव् उपले दिवि भूतले । सा यथा योज्यते यत्र तेन निर्यात्य् अलं तथा
संवित्तिस् सैव यद्य् अङ्ग रसादानाद् यथाक्रमम् । रसेनापूर्णताम् एति तन् नीहार इवाम्बुना
रसपूर्णा यम् आकारं भावयत्य् आशु तत् तथा । धत्ते चित्रकृतो बुद्धौ रेखा राम यथाकृतिम्
दृढभाववशाद् अन्तर् अस्थीन्य् आप्नोति सा ततः । मातृगर्भनिषण्णेव सुषिक्तेवाङ्कुरस्थितिः
यथाभिमतम् आकारं प्रमाणं चेति राघव । जीवशक्तिर् अवाप्नोति सुमेर्वादि तृणादि वा
श्रुतं त्वया योगसाध्यम् अणिमाद्यर्थसाधनम् । ज्ञानसाध्यम् इदानीं त्वं शृणु श्रवणभूषणम्
एकं चिन्मात्रम् अस्तीह शुद्धं सोम्यम् अलक्षितम् । सूक्ष्मात् सूक्ष्मतरं शान्तं नाजगन् न जगत्क्रियाः
तच् चिनोत्य् आत्मनात्मानं सङ्कल्पोन्मुखतां गतम् । यदा तदा जीव इति प्रोक्तम् आबिलतां गतम्
असत्यम् एव सङ्कल्पभ्रमेणेदं शरीरकम् । जीवः पश्यति मूढात्मा बालो यक्षम् इवोद्धतम्
यदा तु ज्ञानदीपेन सम्यगालोक आगते । सङ्कल्पमोहो जीवस्य क्षीयते शरदभ्रवत्