स्वनाशे नास्ति कर्तृत्वम् इत्याद्या युक्तिवादिनः । अवज्ञाय बहिः कार्यास् स्वानुभूत्यपलापिनः
प्रत्यक्षवद् अभावो ऽपि प्रमैव रघुनन्दन । अग्न्यभावो हि शीतस्य प्रमाणं सर्वजन्तुषु
अग्नेर् धूमतया भागो यः प्रयाति पयोदताम् । सद्रूपपरिणामेन तद् अग्निस् सोमकारणम्
अग्निर् नाशात्मकतया शैत्याद् अप्तां प्रयाति यत् । विनाशपरिणामेन तद् अग्निस् सोमकारणम्
सप्ताम्बुधिपयः पीत्वा धूमोद्गारेण वाडवः । पयोदतां प्रयातेन तद् एव जनयत्य् अलम्
अर्कः पीत्वा निशानाथम् अमावस्यां पुनः पुनः । उद्गिरत्य् अमले पक्षे मृणालम् इव सारसः
पीत्वामृतोपमं शीतं प्राणस् सोमं मुखाग्रगं । अब्भागम् आपूरयति शरीरे ऽपानतां गतः
जलाद् अणुतया भागो यः प्रयात्य् अर्करश्मिताम् । सद्रूपपरिणामेन तज् जलं वह्निकारणम्
नाशात्मकतया तोयम् औष्ण्याद् याति यद् अग्निताम् । विनाशपरिणामेन तत् तोयं वह्निकारणम्
अग्नेर् विनाशे सद्रूपः परिणामो निशाकरः । इन्दोर् नाशे निघर्षोत्थपरिणामो हुताशनः
हुताशो नाशम् आगत्य सोमो भवति वै तथा । दिवसो नाशम् आगत्य रात्रिर् भवति वै यथा
तमःप्रकाशयोश् छायातपयोर् दिनरात्रयोः । मध्ये विलक्षणं रूपं प्राज्ञैर् अपि न लभ्यते
सन्धिर् अप्य् आबिलो यस् स्याद् एतयोर् एव तद् वपुः । भावाभावौ यथैकस्य श्लिष्टाव् एतौ तथैव हि
द्वाभ्यां चैतन्यजाड्याभ्यां भूतानि प्रस्फुरन्ति हि । यथा तमःप्रकाशाभ्याम् अहोरात्रा महीतले
चिद्रूपजडरूपाभ्याम् आरब्धेयं जगत्स्थितिः । जलामृताभ्यां मिश्राभ्यां द्वाभ्यां तनुर् इवैन्दवी
प्रकाशम् अनलं सूर्यं चिद्रूपं विद्धि राघव । जडात्मकं तमोरूपं विद्धि सोमशरीरकम्
चित्सूर्ये निर्मले दृष्टे तमो नश्येद् भवामयः । व्योमसूर्ये बहिर् दृष्टे यथा कृष्णनिशातमः
सोमदेहे जडे दृष्टे चित्तेजो ऽसत्यवद् भवेत् । निशीथे विलसच्चन्द्रे यथा सौरः प्रभाभरः
सोमं प्रकटयत्य् अग्निश् चिद् देहं सुचिरप्रभा । अग्निं भासयतीन्दुश् च देहं स्वं रूपम् अर्पयन्
चिन् निष्क्रिया त्व् अनाभासा केवला नोपलभ्यते । आलोक इव दीपेन देहेनैवावगम्यते
चितश् चेत्योन्मुखत्वेन लाभस् सैव च संसृतिः । निश्चेत्यायास् तु नो लाभो निर्वाणं च तद् एव हि
अन्योऽन्यलब्धसत्ताकाव् एवं कुड्यप्रकाशवत् । अग्नीषोमाव् इमौ विद्धि सम्पृक्तौ देहदेहिनौ
अतिशायिनि निर्वाणे जाड्ये चैवातिशायिनि । अग्नेस् सोमस्य चैवाङ्ग स्थितिर् भवति केवला
प्राणो ऽग्निर् उष्णप्रकृतिर् अपानश् शीतलश् शशी । छायातपवद् इत्य् एतौ संस्थितौ मुखमार्गगौ
अपाने शीतले सत्ताम् एत्य् उष्णः प्राणपावकः । प्रतिबिम्बम् इवादर्शे स च तस्मिंस् तथैव हि
चिदग्निः पद्मयन्त्रस्थं सोमं वार्यात्मकं त्विषा । जनयत्य् अनुभूत्येह कुड्यालोकं यथा बहिः
संसृत्यादौ हि या काचित् संविच् छीतोष्णरूपिणी । अग्नीषोमाभिधां प्राप्ता सैव सर्गो नृणाम् इह
यत्र सोमकला ग्रस्ता क्षणं सूर्येण षोडशी । मुखाद् वितस्तिमात्राग्रे तत्र बद्धपदो भव
नूनं सूर्यपदं प्राप्तस् सोमो यत्र हृदम्बरे । नूनं केवलया स्थित्या तत्र बद्धपदो भव
औष्ण्यम् अग्निश् चिद् आदित्यश् शैत्यं सोम उदाहृतः । यत्रैतौ प्रतिबिम्बस्थौ तत्र बद्धपदो भव