सच् चित् प्रकाशं विद्यादि सूर्यम् अग्निं विदुर् बुधाः । असज् जाड्यं तमो ऽविद्याद्य् आहुस् सोमं मणीषिणः
वह्निर् वार्यात्मनस् सोमाद् उदेतीति मुने श्रुतम् । सोमस्योत्पत्तिम् अधुना वद मे वदतां वर
अग्नीषोमौ मिथः कार्ये कारणे च स्वसंस्थितेः । पर्यायेण समौ चैतौ प्रजायेते परस्परम्
जन्माङ्ग बीजाङ्कुरवत् तथा दिवसरात्रिवत् । स्थितिश् छायातपसमा केवला चैतयोर् भवेत्
तुल्यकालोपलम्भा हि मिथश् छायातपस्थितिः । केवलैकोपलम्भा स्यात् स्थितिर् दिवसरात्रिवत्
कार्यकारणभावश् च द्विविधः कथितो ऽनयोः । सद्रूपपरिणामोत्थो विनाशपरिणामजः
एकस्माद् यद् द्वितीयस्य सम्भवो ऽङ्कुरबीजवत् । कार्यकारणभावो ऽसौ सद्रूपपरिणामजः
एकनाशे द्वितीयस्य यद् भावो दिनरात्रिवत् । कार्यकारणभावो ऽसौ विनाशपरिणामजः
सद्रूपपरिणामस्य मृद्घटक्रमसंस्थितेः । अक्षोपलम्भाद् इतरत् प्रमाणं नोपयुज्यते
विनाशपरिणामस्य दिनरात्रिक्रमस्थितेः । अभावो ऽप्य् एकवस्तूत्थो गतो मुख्यप्रमाणताम्
स्वनाशे नास्ति कर्तृत्वम् इत्याद्या युक्तिवादिनः । अवज्ञाय बहिः कार्यास् स्वानुभूत्यपलापिनः
प्रत्यक्षवद् अभावो ऽपि प्रमैव रघुनन्दन । अग्न्यभावो हि शीतस्य प्रमाणं सर्वजन्तुषु
अग्नेर् धूमतया भागो यः प्रयाति पयोदताम् । सद्रूपपरिणामेन तद् अग्निस् सोमकारणम्
अग्निर् नाशात्मकतया शैत्याद् अप्तां प्रयाति यत् । विनाशपरिणामेन तद् अग्निस् सोमकारणम्
सप्ताम्बुधिपयः पीत्वा धूमोद्गारेण वाडवः । पयोदतां प्रयातेन तद् एव जनयत्य् अलम्
अर्कः पीत्वा निशानाथम् अमावस्यां पुनः पुनः । उद्गिरत्य् अमले पक्षे मृणालम् इव सारसः
पीत्वामृतोपमं शीतं प्राणस् सोमं मुखाग्रगं । अब्भागम् आपूरयति शरीरे ऽपानतां गतः
जलाद् अणुतया भागो यः प्रयात्य् अर्करश्मिताम् । सद्रूपपरिणामेन तज् जलं वह्निकारणम्
नाशात्मकतया तोयम् औष्ण्याद् याति यद् अग्निताम् । विनाशपरिणामेन तत् तोयं वह्निकारणम्
अग्नेर् विनाशे सद्रूपः परिणामो निशाकरः । इन्दोर् नाशे निघर्षोत्थपरिणामो हुताशनः
हुताशो नाशम् आगत्य सोमो भवति वै तथा । दिवसो नाशम् आगत्य रात्रिर् भवति वै यथा
तमःप्रकाशयोश् छायातपयोर् दिनरात्रयोः । मध्ये विलक्षणं रूपं प्राज्ञैर् अपि न लभ्यते
सन्धिर् अप्य् आबिलो यस् स्याद् एतयोर् एव तद् वपुः । भावाभावौ यथैकस्य श्लिष्टाव् एतौ तथैव हि
द्वाभ्यां चैतन्यजाड्याभ्यां भूतानि प्रस्फुरन्ति हि । यथा तमःप्रकाशाभ्याम् अहोरात्रा महीतले
चिद्रूपजडरूपाभ्याम् आरब्धेयं जगत्स्थितिः । जलामृताभ्यां मिश्राभ्यां द्वाभ्यां तनुर् इवैन्दवी
प्रकाशम् अनलं सूर्यं चिद्रूपं विद्धि राघव । जडात्मकं तमोरूपं विद्धि सोमशरीरकम्
चित्सूर्ये निर्मले दृष्टे तमो नश्येद् भवामयः । व्योमसूर्ये बहिर् दृष्टे यथा कृष्णनिशातमः
सोमदेहे जडे दृष्टे चित्तेजो ऽसत्यवद् भवेत् । निशीथे विलसच्चन्द्रे यथा सौरः प्रभाभरः
सोमं प्रकटयत्य् अग्निश् चिद् देहं सुचिरप्रभा । अग्निं भासयतीन्दुश् च देहं स्वं रूपम् अर्पयन्
चिन् निष्क्रिया त्व् अनाभासा केवला नोपलभ्यते । आलोक इव दीपेन देहेनैवावगम्यते