शक्तिर् वस्तुस्वभावाख्या यथा स्फुरति यात्मनः । सर्गादिना तथैवासौ स्थितिं यातीति निश्चयः
अवस्तुत्वाद् अविद्याया वस्तुशक्तिर् अपि क्वचित् । भिद्यते दृश्यते ह्य् अङ्ग वसन्ते शारदं फलम्
सर्वम् एवंविधं ब्रह्म नानानानातयानया । दृश्यते व्यवहारार्थं केवलं कल्प्यते स्थितिः
सूक्ष्मच्छिद्रादिगत्यर्थं पूरणार्थं च खस्य वा । अणुतां स्थूलतां वापि कायो ऽयं नीयते कथम्
काष्ठक्रकचयोश् श्लेषाद् यथा च्छेदः प्रवर्तते । तयोस् सङ्घर्षणाद् अग्निस् स्वभावाज् जायते तथा
मांसाब्जयन्त्रं जठरे स्थितं श्लिष्टमुखं मिथः । ऊर्ध्वाधस्सम्मिलन्मूलं द्युभूम्योर् इव वै तलम्
तस्य कुण्डलिनी लक्ष्मीर् निलीनान्तर् निजास्पदे । पद्मरागसमुद्गस्य कोशे मुक्तावली यथा
आवर्तफेनमालेव नित्यं शलशलायते । दण्डाहतेव भुजगी सुसन्नतविवर्तना
द्यावापृथिव्योर् मध्यस्था क्रियेव स्पन्दरूपिणी । संविन्मधुविबोधोत्था हृत्पद्मपुटषट्पदी
तत् सर्वं शक्तिपद्मादि बाह्यैर् आभ्यन्तरैस् सदा । हृदि व्याधूयते वातैर् अभ्रवृन्दम् इवाभितः
यद् यद् व्योम स्फुरत्य् अङ्ग स्वभावात् तत्र वायवः । पेलवं मृदु यत् किञ्चित् तत् तत् प्रचलयन्त्य् अलम्
वातैर् आहन्यमानं तत् पद्मादि तरलायते । हृद्य् अन्योऽन्यनिकाषेण पल्लवादि यथा तरौ
देहोष्मकारणं सर्वरसादिपचनोद्यतम् । जनयत्य् अग्निम् अन्योऽन्यसङ्घर्षाद् घनवेणुवत्
स्वभावशीतशीतात्मा देहस् तेनौष्ण्यम् एत्य् अलम् । उदितेन स सर्वाङ्गं भुवनं भानुना यथा
सर्वतो विसरद्रश्मि तत् तेजस् तारकाकृति । हृत्पद्महेमभ्रमरो योगिनां चिन्त्यतां गतम्
तत् प्रकाशमयं ज्ञानं चिन्तितं सत् प्रयच्छति । येन योजनलक्षस्थं वस्तु निश्य् अपि दृश्यते
तस्याग्नेर् वाडवस्येव जलं संशुष्कम् इन्धनम् । मांसपङ्कजषण्डाढ्यहृत्सरः कोशवासिनः
यद् अब्जशीतलत्वं तद् अपानात्मेन्दुर् उच्यते । इतीन्दोर् उत्थितस् सो ऽग्निर् अग्नीषोमौ हि देहकः
सर्वम् ऊष्मात्मकं किञ्चित् तेजोऽर्काग्न्यभिधं विदुः । शीतात्मकं च सोमाख्यम् आभ्याम् एव कृतं जगत्
विद्याविद्यास्वरूपेण सर्वं सदसदात्मना । जगद् द्वयेन निर्वृत्तं तद् एवैवं विभज्यते
सच् चित् प्रकाशं विद्यादि सूर्यम् अग्निं विदुर् बुधाः । असज् जाड्यं तमो ऽविद्याद्य् आहुस् सोमं मणीषिणः
वह्निर् वार्यात्मनस् सोमाद् उदेतीति मुने श्रुतम् । सोमस्योत्पत्तिम् अधुना वद मे वदतां वर
अग्नीषोमौ मिथः कार्ये कारणे च स्वसंस्थितेः । पर्यायेण समौ चैतौ प्रजायेते परस्परम्
जन्माङ्ग बीजाङ्कुरवत् तथा दिवसरात्रिवत् । स्थितिश् छायातपसमा केवला चैतयोर् भवेत्
तुल्यकालोपलम्भा हि मिथश् छायातपस्थितिः । केवलैकोपलम्भा स्यात् स्थितिर् दिवसरात्रिवत्
कार्यकारणभावश् च द्विविधः कथितो ऽनयोः । सद्रूपपरिणामोत्थो विनाशपरिणामजः
एकस्माद् यद् द्वितीयस्य सम्भवो ऽङ्कुरबीजवत् । कार्यकारणभावो ऽसौ सद्रूपपरिणामजः
एकनाशे द्वितीयस्य यद् भावो दिनरात्रिवत् । कार्यकारणभावो ऽसौ विनाशपरिणामजः
सद्रूपपरिणामस्य मृद्घटक्रमसंस्थितेः । अक्षोपलम्भाद् इतरत् प्रमाणं नोपयुज्यते
विनाशपरिणामस्य दिनरात्रिक्रमस्थितेः । अभावो ऽप्य् एकवस्तूत्थो गतो मुख्यप्रमाणताम्