तदा समस्तम् एवेमं खं प्लावयति देहकम् । नीरन्ध्रा पवनापूर्णा भस्त्रेवाम्बुगतं नरम्
इत्यभ्यासविलासेन योगेन व्योमगामिताम् । योगिनः प्राप्नुवन्त्य् उच्चैर् दीनास् ते सुदशाम् इव
ब्रह्मनाडिप्रवाहेण शक्तिः कुण्डलिनी यदा । बहिर् ऊर्ध्वप्रवाहेण द्वादशाङ्गुलमूर्धनि
रेचकेन प्रयोगेण नाड्यन्तरनिरोधिना । मुहूर्तं स्थितिम् आप्नोति तदा व्योमगदर्शनम्
दर्शनं कीदृशं ब्रह्मन् नयनांशुगणं विना । अन्येषाम् इन्द्रियाणां च तत्त्वम् एवं कथं भवेत्
न केचन महाबाहो भूचरेण नभश्चराः । अदिव्यैर् आश्रिताज्ञानैर् दृश्यन्ते पुरुषेन्द्रियैः
विज्ञानादूरसंस्थेन बुद्धिनेत्रेण राघव । दृश्यन्ते व्योमगास् सिद्धास् स्वप्नवत् स्वार्थदा अपि
स्वप्नावलोकनं यद्वत् तद्वत् सिद्धावलोकनम् । केवलो ऽयं विशेषो यत् सिद्धप्राप्तौ स्थिरार्थता
मुखाद् बहिर् द्वादशान्ते रेचकाभ्यासयुक्तितः । प्राणे चिरं स्थितिं नीते प्रविशन्त्य् अपरां पुरीम्
वद स्वभावस्य कथं ब्रह्मन् न चलति स्थितिः । वक्तारस् सानुकम्पा हि दुष्प्रश्ने ऽपि न खेदिनः
शक्तिर् वस्तुस्वभावाख्या यथा स्फुरति यात्मनः । सर्गादिना तथैवासौ स्थितिं यातीति निश्चयः
अवस्तुत्वाद् अविद्याया वस्तुशक्तिर् अपि क्वचित् । भिद्यते दृश्यते ह्य् अङ्ग वसन्ते शारदं फलम्
सर्वम् एवंविधं ब्रह्म नानानानातयानया । दृश्यते व्यवहारार्थं केवलं कल्प्यते स्थितिः
सूक्ष्मच्छिद्रादिगत्यर्थं पूरणार्थं च खस्य वा । अणुतां स्थूलतां वापि कायो ऽयं नीयते कथम्
काष्ठक्रकचयोश् श्लेषाद् यथा च्छेदः प्रवर्तते । तयोस् सङ्घर्षणाद् अग्निस् स्वभावाज् जायते तथा
मांसाब्जयन्त्रं जठरे स्थितं श्लिष्टमुखं मिथः । ऊर्ध्वाधस्सम्मिलन्मूलं द्युभूम्योर् इव वै तलम्
तस्य कुण्डलिनी लक्ष्मीर् निलीनान्तर् निजास्पदे । पद्मरागसमुद्गस्य कोशे मुक्तावली यथा
आवर्तफेनमालेव नित्यं शलशलायते । दण्डाहतेव भुजगी सुसन्नतविवर्तना
द्यावापृथिव्योर् मध्यस्था क्रियेव स्पन्दरूपिणी । संविन्मधुविबोधोत्था हृत्पद्मपुटषट्पदी
तत् सर्वं शक्तिपद्मादि बाह्यैर् आभ्यन्तरैस् सदा । हृदि व्याधूयते वातैर् अभ्रवृन्दम् इवाभितः
यद् यद् व्योम स्फुरत्य् अङ्ग स्वभावात् तत्र वायवः । पेलवं मृदु यत् किञ्चित् तत् तत् प्रचलयन्त्य् अलम्
वातैर् आहन्यमानं तत् पद्मादि तरलायते । हृद्य् अन्योऽन्यनिकाषेण पल्लवादि यथा तरौ
देहोष्मकारणं सर्वरसादिपचनोद्यतम् । जनयत्य् अग्निम् अन्योऽन्यसङ्घर्षाद् घनवेणुवत्
स्वभावशीतशीतात्मा देहस् तेनौष्ण्यम् एत्य् अलम् । उदितेन स सर्वाङ्गं भुवनं भानुना यथा
सर्वतो विसरद्रश्मि तत् तेजस् तारकाकृति । हृत्पद्महेमभ्रमरो योगिनां चिन्त्यतां गतम्
तत् प्रकाशमयं ज्ञानं चिन्तितं सत् प्रयच्छति । येन योजनलक्षस्थं वस्तु निश्य् अपि दृश्यते
तस्याग्नेर् वाडवस्येव जलं संशुष्कम् इन्धनम् । मांसपङ्कजषण्डाढ्यहृत्सरः कोशवासिनः
यद् अब्जशीतलत्वं तद् अपानात्मेन्दुर् उच्यते । इतीन्दोर् उत्थितस् सो ऽग्निर् अग्नीषोमौ हि देहकः
सर्वम् ऊष्मात्मकं किञ्चित् तेजोऽर्काग्न्यभिधं विदुः । शीतात्मकं च सोमाख्यम् आभ्याम् एव कृतं जगत्
विद्याविद्यास्वरूपेण सर्वं सदसदात्मना । जगद् द्वयेन निर्वृत्तं तद् एवैवं विभज्यते