दुष्कालव्यवहारेण दुष्क्रियास्फुरणेन च । दुर्जनासङ्गदोषेण दुर्भावोद्भवनेन च
क्षीणत्वाद् वा प्रपूर्णत्वान् नाडिष्व् असुखसंसृतौ । प्राणे विधुरतां याते कुपथेव नवाध्वगे
दौस्स्थित्यकारणं दोषाद् व्याधिर् देहे प्रवर्तते । नद्यां प्रावृण्निदाघाभ्याम् इवाकारविपर्ययः
प्राक्तनी वैहिकी वापि शुभा वाप्य् अशुभा मतिः । यैवाधिका सैव तथा तस्मिन् योजयति क्रमे
आधयो व्याधयश् चैवं जायन्ते भूतपञ्चके । कथं शृणु विनश्यन्ति राघवाणां कुलोद्वह
द्विविधो ह्य् आधिर् अस्तीह सामान्यस् सार एव च । व्यवहारस् तु सामान्यस् सारो जन्ममयस् स्मृतः
प्राप्तेनाभिमतेनैव नश्यन्ति व्यावहारिकाः । आधिक्षयेणाधिभवाः क्षीयन्ते व्याधयो ऽप्य् अलम्
आत्मज्ञानं विना सारो नाधिर् नश्यति राघव । भूयो रज्ज्ववबोधेन रज्जुसर्पो हि नश्यति
आधिव्याधिविलासानां राम साराधिसङ्क्षयः । सर्वेषां मूलहा प्रावृण्नदीव तटवीरुधाम्
अनाधिजा व्याधयस् तु द्रव्यमन्त्रशुभक्रमैः । चिकित्सकादिशास्त्रोक्तैर् नश्यन्त्य् अभ्रैर् इवातपाः
स्नानमन्त्रौषधोपायवक्तॄण्य् अधिगतानि च । त्वया चिकित्साशास्त्राणि किम् अन्यद् उपदिश्यते
आधेः कथं भवेद् व्याधिः कथं च स विनश्यति । द्रव्याद् इतरया युक्त्या मन्त्रपुण्यादिपूर्वया
चित्ते विधुरिते देहस् सम्यङ् नानुभवत्य् अयम् । यथा हि रुषितो जन्तुर् अग्रम् एव न पश्यति
अनपेक्ष्य यथाप्राप्तम् अमार्गम् अनुधावति । प्रकृतं मार्गम् उत्सृज्य शरार्तो हरिणो यथा
सङ्क्षोभात् साम्यम् उत्सृज्य वहन्ति प्राणवायवः । देहे गजघटार्तानि पयांसीव सरित्तटे
असमं वहति प्राणे नाड्यो यान्ति विसंस्थितिम् । असम्यक् संस्थिते भूपे यथा वर्णाश्रमक्रमाः
काश्चिन् नाड्यः प्रपूर्णत्वं यान्ति काश्चिच् च रिक्तताम् । प्राणे विधुरिते देशे सर्वर्तौ सरितो यथा
कुजीर्णत्वम् अजीर्णत्वम् अतिजीर्णत्वम् एव वा । दोषायैव प्रयात्य् अन्नं प्राणसञ्चारदुष्क्रमैः
यथा काष्ठानि नयति प्राप्तं देशं सरिद्रयः । तथान्नानि नयत्य् अन्तः प्राणवातस् स्वम् आश्रयम्
यान्य् अन्नानि विरोधेन तिष्ठन्त्य् अन्तश् शरीरके । तान्य् एव व्याधितां यान्ति परिणामस्वभावतः
एवम् आधेर् भवेद् व्याधिर् आध्यभावाच् च नश्यति । यथा मन्त्रैश् च नश्यन्ति व्याधयस् तत्क्रमं शृणु
यथा विरेकं कुर्वन्ति हरीतक्यस् स्वभावतः । भावनावशतः कार्यं तथा यरलवादयः
शुद्धया पुण्यया साधो क्रियया साधुसेवया । मनः प्रयाति वैमल्यं निकषेणेव काञ्चनम्
आनन्दो वर्धते देहे शुद्धे चेतसि राघव । पूर्णेन्दाव् उदिते व्यभ्रे नैर्मल्यं भुवने यथा
सत्त्वशुद्धौ वहन्त्य् एते क्रमेण प्राणवायवः । जरयन्ति तथान्नानि व्याधिस् तेन विनश्यति
आधिव्याध्योर् इति प्रोक्तौ नाशोत्पत्तिक्रमौ त्वयि । कुण्डलिन्याः कथायोगाद् अधुना प्रकृतं शृणु
पुर्यष्टकापराख्यस्य जीवस्य प्रथमाश्रयम् । विद्धि कुण्डलिनीम् अन्तर् आमोदस्येव मञ्जरीम्
तां यदा पूरकाभ्यासाद् आपूर्य स्थीयते चिरम् । तदैति मैरवं स्थैर्यं कायस्यापीनता तथा
यदा पूरकपूर्णान्तर् अमुक्तप्राणमारुतम् । नीयते संविदैवोर्ध्वं सोढघर्मक्लमश्रमं
सर्पी प्रकुपितेवोच्चैर् याति दण्डोपमां गता । नाडीस् सर्वास् समादाय देहे बद्धा लतोपमा