स्वयं नानात्वम् आयान्ति चिरं जाड्यात् स्फुरन्ति च । सुविविक्ताश् शमं यान्ति तरङ्गा इव तोयधेः
यतो यान्ति समुत्सेधं यतो यान्ति शमं स्वयम् । एते जाड्यविवेकाभ्यां तरङ्गा इव तोयधेः
ये विवेकवशतो लयं गता राम पञ्चकविलासराशयः । ते न भूय इह यान्ति संस्थितिं प्रभ्रमन्ति जगतीतरे मुहुः
एतत् पञ्चकबीजं यत् कुण्डलिन्यां तद् अन्तरे । प्राणमारुतरूपेण तस्यां स्फुरति सर्वदा
सान्तः कुण्डलिनी स्पन्दस्पर्शसंवित्कलामला । कलोक्ता कलनेनाशु कथिता चेतनेन चित्
जीवनाज् जीवतां याता मननाच् च मनस् स्थिता । सङ्कल्पात् सैव सङ्कल्पो बोधाद् बुद्धिर् इति स्मृता
अहङ्कारकलां याता सैषा पुर्यष्टकाभिधा । स्थिता कुण्डलिनी देहे जीवशक्तिर् अनुत्तमा
अपानताम् उपागत्य सततं प्रवहत्य् अधः । समाननाम्नी मध्यस्था उदानाख्योपरिस्थिता
अधस् त्व् अपानरूपैव मध्ये सोम्यैव सर्वदा । पृष्ठाद् उदानरूपैव पुंसस् स्वस्थस्य तिष्ठति
सर्वयत्नम् अधो याता यदि यत्नान् न धार्यते । तत् पुमान् मृतिम् आयाति तया निर्गतया बलात्
समस्तैवोर्ध्वम् आयाता यदि युक्त्या न धार्यते । तत् पुमान् मृत्युम् आयाति तया निर्गतया बलात्
सर्वथात्मनि चेत् तिष्ठेत् त्यक्त्वोर्ध्वाधोगमागमम् । तज् जन्तोर् जायते व्याधिर् मलमारुतरोधतः
सामान्यनाडीवैधुर्यात् सामान्यव्याधिसम्भवः । प्रधाननाडीवैधुर्यात् प्रधानव्याधिसम्भवः
किंविनाशाः किमुत्पादाश् शरीरे ऽस्मिन् मुनीश्वर । आधयो व्याधयश् चैव यथावत् कथयाशु मे
आधयो व्याधयश् चैव द्वयं दुःखस्य कारणम् । तन्निवृत्तिं सुखं विद्यात् तत्क्षयो मोक्ष उच्यते
मिथः कदाचिज् जायेते कदाचित् समम् एव तु । पर्यायेण कदाचित् ताव् आधिव्याधी शरीरके
देहदुःखं विदुर् व्याधिम् आध्याख्यं वासनामयम् । मौर्ख्यमूले हि ते विद्यात् तत्त्वज्ञानपरिक्षये
अतत्त्वज्ञानवशतस् स्वेन्द्रियाक्रमणं विना । हृदि तानवम् उज्झत्सु रागद्वेषेष्व् अनारतम्
इदं प्राप्तम् इदं नेति जाड्यान्ध्यघनमोहदाः । आधयस् सम्प्रवर्तन्ते वर्षासु मिहिका इव
भृशं स्फुरन्तीष्व् इच्छासु मौर्ख्याच् चेतस्य् अनिर्जिते । दुरन्नाभ्यवहारेण दुर्देशाक्रमणेन च
दुष्कालव्यवहारेण दुष्क्रियास्फुरणेन च । दुर्जनासङ्गदोषेण दुर्भावोद्भवनेन च
क्षीणत्वाद् वा प्रपूर्णत्वान् नाडिष्व् असुखसंसृतौ । प्राणे विधुरतां याते कुपथेव नवाध्वगे
दौस्स्थित्यकारणं दोषाद् व्याधिर् देहे प्रवर्तते । नद्यां प्रावृण्निदाघाभ्याम् इवाकारविपर्ययः
प्राक्तनी वैहिकी वापि शुभा वाप्य् अशुभा मतिः । यैवाधिका सैव तथा तस्मिन् योजयति क्रमे
आधयो व्याधयश् चैवं जायन्ते भूतपञ्चके । कथं शृणु विनश्यन्ति राघवाणां कुलोद्वह
द्विविधो ह्य् आधिर् अस्तीह सामान्यस् सार एव च । व्यवहारस् तु सामान्यस् सारो जन्ममयस् स्मृतः
प्राप्तेनाभिमतेनैव नश्यन्ति व्यावहारिकाः । आधिक्षयेणाधिभवाः क्षीयन्ते व्याधयो ऽप्य् अलम्
आत्मज्ञानं विना सारो नाधिर् नश्यति राघव । भूयो रज्ज्ववबोधेन रज्जुसर्पो हि नश्यति
आधिव्याधिविलासानां राम साराधिसङ्क्षयः । सर्वेषां मूलहा प्रावृण्नदीव तटवीरुधाम्
अनाधिजा व्याधयस् तु द्रव्यमन्त्रशुभक्रमैः । चिकित्सकादिशास्त्रोक्तैर् नश्यन्त्य् अभ्रैर् इवातपाः