प्रसुप्तवासनाः केचिद् यथा स्थावरजातयः । प्रबुद्धवासनाः केचिद् यथा नरसुरादयः
स्ववासनाबिलाः केचिद् यथा वै तिर्यगादयः । प्रक्षीणवासनाः केचिद् यथैते मोक्षभागिनः
यथास्वास्व् एव संवित्सु मनोबुद्ध्यादिभिः कृताः । हस्तपादादिसंयुक्तैः सञ्ज्ञाः पञ्चकराशिभिः
तिर्यगादिभिर् अप्य् अन्यैर् अन्यास् सञ्ज्ञाः प्रकल्पिताः । स्थावरादिभिर् अप्य् अन्यैर् अन्यथा संविदः कृताः
इति साधो स्फुरन्तीमे चित्राः पञ्चकराशयः । रूपैर् आद्यन्तमध्येषु चलाचलजडाजडैः
एषाम् एको हि सङ्कल्पपरमाणुर् महामते । बीजम् आकाशवृक्षाणां सर्गाणां तेष्व् इमानि तु
इन्द्रियाण्य् अङ्ग पुष्पाणि विषयामोदवन्ति हि । इच्छाभ्रमर्यो राजन्त्यो मञ्जर्यश् चञ्चलाः क्रियाः
लोकान्तराणि गुच्छानि गुल्मा मलयमेरवः । पल्लवानीह जलदा लतालीला दिशो दश
वर्तमानानि भूतानि भविष्यन्ति च यानि तु । जगन्ति तान्य् असङ्ख्यानि फलानि रघुनन्दन
एवंबीजास् त एते हि राम पञ्चकपादपाः । स्वयं स्वभावाज् जायन्ते स्वयं नश्यन्ति कालतः
स्वयं नानात्वम् आयान्ति चिरं जाड्यात् स्फुरन्ति च । सुविविक्ताश् शमं यान्ति तरङ्गा इव तोयधेः
यतो यान्ति समुत्सेधं यतो यान्ति शमं स्वयम् । एते जाड्यविवेकाभ्यां तरङ्गा इव तोयधेः
ये विवेकवशतो लयं गता राम पञ्चकविलासराशयः । ते न भूय इह यान्ति संस्थितिं प्रभ्रमन्ति जगतीतरे मुहुः
एतत् पञ्चकबीजं यत् कुण्डलिन्यां तद् अन्तरे । प्राणमारुतरूपेण तस्यां स्फुरति सर्वदा
सान्तः कुण्डलिनी स्पन्दस्पर्शसंवित्कलामला । कलोक्ता कलनेनाशु कथिता चेतनेन चित्
जीवनाज् जीवतां याता मननाच् च मनस् स्थिता । सङ्कल्पात् सैव सङ्कल्पो बोधाद् बुद्धिर् इति स्मृता
अहङ्कारकलां याता सैषा पुर्यष्टकाभिधा । स्थिता कुण्डलिनी देहे जीवशक्तिर् अनुत्तमा
अपानताम् उपागत्य सततं प्रवहत्य् अधः । समाननाम्नी मध्यस्था उदानाख्योपरिस्थिता
अधस् त्व् अपानरूपैव मध्ये सोम्यैव सर्वदा । पृष्ठाद् उदानरूपैव पुंसस् स्वस्थस्य तिष्ठति
सर्वयत्नम् अधो याता यदि यत्नान् न धार्यते । तत् पुमान् मृतिम् आयाति तया निर्गतया बलात्
समस्तैवोर्ध्वम् आयाता यदि युक्त्या न धार्यते । तत् पुमान् मृत्युम् आयाति तया निर्गतया बलात्
सर्वथात्मनि चेत् तिष्ठेत् त्यक्त्वोर्ध्वाधोगमागमम् । तज् जन्तोर् जायते व्याधिर् मलमारुतरोधतः
सामान्यनाडीवैधुर्यात् सामान्यव्याधिसम्भवः । प्रधाननाडीवैधुर्यात् प्रधानव्याधिसम्भवः
किंविनाशाः किमुत्पादाश् शरीरे ऽस्मिन् मुनीश्वर । आधयो व्याधयश् चैव यथावत् कथयाशु मे
आधयो व्याधयश् चैव द्वयं दुःखस्य कारणम् । तन्निवृत्तिं सुखं विद्यात् तत्क्षयो मोक्ष उच्यते
मिथः कदाचिज् जायेते कदाचित् समम् एव तु । पर्यायेण कदाचित् ताव् आधिव्याधी शरीरके
देहदुःखं विदुर् व्याधिम् आध्याख्यं वासनामयम् । मौर्ख्यमूले हि ते विद्यात् तत्त्वज्ञानपरिक्षये
अतत्त्वज्ञानवशतस् स्वेन्द्रियाक्रमणं विना । हृदि तानवम् उज्झत्सु रागद्वेषेष्व् अनारतम्
इदं प्राप्तम् इदं नेति जाड्यान्ध्यघनमोहदाः । आधयस् सम्प्रवर्तन्ते वर्षासु मिहिका इव
भृशं स्फुरन्तीष्व् इच्छासु मौर्ख्याच् चेतस्य् अनिर्जिते । दुरन्नाभ्यवहारेण दुर्देशाक्रमणेन च