केवलं पञ्चकवशाद् देहादौ चेतनाभिधा । जडस्पन्दाभिधा वारि स्थावरादौ जडाभिधा
यथाब्धिष्व् अम्ब्व् इतो वीचिर् इतस् तलम् इति स्थितम् । पञ्चकेषु तथेतश् चिल् लोलरूपा जडा त्व् इतः
इतस् सोम्य इतो लोलः किम् अब्धिर् इति नो यथा । विकल्पार्हस् तथैवैतत् पञ्चकं हि जडाजडम्
देहादिपञ्चकं जीवत्स्पन्दि शैलादिकं जडम् । स्थावराद्य् अनिलस्पन्दि स्वभाववशतो ऽनघ
न च पर्यनुयोक्तव्यास् स्वभावा रघुनन्दन । शीतोष्णं किं हिमाग्न्यादि वक्तेति परिहस्यते
गृहीतवासनांशानां पुष्टभावविकारिणाम् । स्थितयः पञ्चकानां हि योग्याः पर्यनुयोजने
वासनांशविपर्यस्ता इतो नेतुम् इतश् च ताः । पुंसा प्राज्ञेन शक्यन्ते सुखं पर्यनुयोजिना
अशुभे वा शुभे वापि तेन पर्यनुयोज्यते । प्रबुद्धवासनं नान्यत् पञ्चकं सुप्तवासनम्
यत्र पर्यनुयोगस्य फलं समनुभूयते । तत्र तं सम्प्रयुञ्जीत नाकाशं मुष्टिभिः क्षिपेत्
तृणाग्रनिष्ठा मेर्वाद्याः पञ्चकानां हि राशयः । विरिञ्चनिष्ठाः कीटाद्या एते स्थावरजङ्गमाः
प्रसुप्तवासनाः केचिद् यथा स्थावरजातयः । प्रबुद्धवासनाः केचिद् यथा नरसुरादयः
स्ववासनाबिलाः केचिद् यथा वै तिर्यगादयः । प्रक्षीणवासनाः केचिद् यथैते मोक्षभागिनः
यथास्वास्व् एव संवित्सु मनोबुद्ध्यादिभिः कृताः । हस्तपादादिसंयुक्तैः सञ्ज्ञाः पञ्चकराशिभिः
तिर्यगादिभिर् अप्य् अन्यैर् अन्यास् सञ्ज्ञाः प्रकल्पिताः । स्थावरादिभिर् अप्य् अन्यैर् अन्यथा संविदः कृताः
इति साधो स्फुरन्तीमे चित्राः पञ्चकराशयः । रूपैर् आद्यन्तमध्येषु चलाचलजडाजडैः
एषाम् एको हि सङ्कल्पपरमाणुर् महामते । बीजम् आकाशवृक्षाणां सर्गाणां तेष्व् इमानि तु
इन्द्रियाण्य् अङ्ग पुष्पाणि विषयामोदवन्ति हि । इच्छाभ्रमर्यो राजन्त्यो मञ्जर्यश् चञ्चलाः क्रियाः
लोकान्तराणि गुच्छानि गुल्मा मलयमेरवः । पल्लवानीह जलदा लतालीला दिशो दश
वर्तमानानि भूतानि भविष्यन्ति च यानि तु । जगन्ति तान्य् असङ्ख्यानि फलानि रघुनन्दन
एवंबीजास् त एते हि राम पञ्चकपादपाः । स्वयं स्वभावाज् जायन्ते स्वयं नश्यन्ति कालतः
स्वयं नानात्वम् आयान्ति चिरं जाड्यात् स्फुरन्ति च । सुविविक्ताश् शमं यान्ति तरङ्गा इव तोयधेः
यतो यान्ति समुत्सेधं यतो यान्ति शमं स्वयम् । एते जाड्यविवेकाभ्यां तरङ्गा इव तोयधेः
ये विवेकवशतो लयं गता राम पञ्चकविलासराशयः । ते न भूय इह यान्ति संस्थितिं प्रभ्रमन्ति जगतीतरे मुहुः
एतत् पञ्चकबीजं यत् कुण्डलिन्यां तद् अन्तरे । प्राणमारुतरूपेण तस्यां स्फुरति सर्वदा
सान्तः कुण्डलिनी स्पन्दस्पर्शसंवित्कलामला । कलोक्ता कलनेनाशु कथिता चेतनेन चित्
जीवनाज् जीवतां याता मननाच् च मनस् स्थिता । सङ्कल्पात् सैव सङ्कल्पो बोधाद् बुद्धिर् इति स्मृता
अहङ्कारकलां याता सैषा पुर्यष्टकाभिधा । स्थिता कुण्डलिनी देहे जीवशक्तिर् अनुत्तमा
अपानताम् उपागत्य सततं प्रवहत्य् अधः । समाननाम्नी मध्यस्था उदानाख्योपरिस्थिता
अधस् त्व् अपानरूपैव मध्ये सोम्यैव सर्वदा । पृष्ठाद् उदानरूपैव पुंसस् स्वस्थस्य तिष्ठति
सर्वयत्नम् अधो याता यदि यत्नान् न धार्यते । तत् पुमान् मृतिम् आयाति तया निर्गतया बलात्