मनोभ्रूमध्यरन्ध्राधोविशदब्वृत्तिचञ्चला । अनारतं रसस्यन्दैः प्लवमानैव तिष्ठति
अस्या अभ्यन्तरे तस्मिन् कदलीकोशकोमले । या वातशक्तिस् स्फुरति वेणाव् इव लसद्गतिः
सोक्ता कुण्डलिनी नाम्ना कुण्डलाकारवाहिनी । प्राणिनः परमा शक्तिस् सर्वशक्तिजवप्रदा
अनिशं निश्श्वसद्रूपा कुपितेव भुजङ्गमी । संस्थितोर्ध्वीकृतमुखी स्पन्दानां हेतुतां गता
यदा प्राणानिलो याति हृदि कुण्डलिनीपदम् । तदा संविद् उदेत्य् अन्तर् भूततन्मात्रबीजभूः
यदा कुण्डलिनी देहे स्फुरत्य् अब्ज इवालिनी । तदा संविद् उदेत्य् अन्तर् मृदुस्पर्शवशोदया
स्पर्शेन मृदुना नाड्या लिङ्गकामातपत्रयोः । यथा संविद् उदेत्य् उच्चैस् तथा कुण्डलिनी जवात्
तस्यां समस्तास् सम्बद्धा नाड्यो हृदयकोशगाः । उत्पद्यन्ते विलीयन्ते महार्णव इवापगाः
नित्यं वातात्मकतया स्पन्दोन्मुखतया तया । सा सर्वसंविदां बीजम् एकम् आद्यम् उदाहृतम्
दिक्कालाद्यनवच्छिन्ना चित्संवित् सर्वगास्ति हि । तस्याः कुण्डलिनीकोशात् केनार्थेनोदयस् स्फुटः
सर्वदा सर्वतस् सत्यं चित्संविद् विद्यते ऽनघ । किं त्व् अस्या भूततन्मात्रवशाद् अभ्युदयः क्वचित्
सर्वत्र विद्यमाना चिद् देहेषु तरलायते । सर्वगो ऽप्य् आतपस् साररत्नेष्व् अतिविजृम्भते
क्वचिन् नष्टं क्वचित् सुप्तं क्वचिद् उच्छूनतां गतम् । वस्तु वस्तुनि यद् दृष्टं तत् स्वभावविजृम्भितम्
एतद् भूयः क्रमेणाहं शृणु वक्ष्यामि ते ऽनघ । देहेष्व् एव यथोदेति भृशं संविन्मयः क्रमः
चेतनाचेतनं भूतजातं व्योम तथाखिलम् । सर्वं चिन्मात्रसन्मात्रं शून्यमात्रं यथा नभः
तद् धि चिन्मात्रसन्मात्रम् अविकाराद्य् अनामयम् । क्वचित् स्थितं संविदैव कृततन्मात्रपञ्चकम्
तत् पञ्चकं गतं द्वित्वं लिक्षाद्यन्तं स्वसंविदा । अन्तर्भूतविकारादि दीपाद् दीपशतं यथा
स्वसत्तामात्रकेणैव सङ्कल्पलवरूपिणा । पञ्चकानि व्रजन्तीह देवत्वं तानि कानिचित्
कानिचित् तिर्यगादित्वं हेमादित्वं च कानिचित् । कानिचिद् दृषदादित्वं द्रव्यादित्वं च कानिचित्
एवं हि पञ्चकं स्पन्दमात्रं जगद् इति स्थितम् । चित्संविद् अत्र सर्वत्र विद्यते रघुनन्दन
केवलं पञ्चकवशाद् देहादौ चेतनाभिधा । जडस्पन्दाभिधा वारि स्थावरादौ जडाभिधा
यथाब्धिष्व् अम्ब्व् इतो वीचिर् इतस् तलम् इति स्थितम् । पञ्चकेषु तथेतश् चिल् लोलरूपा जडा त्व् इतः
इतस् सोम्य इतो लोलः किम् अब्धिर् इति नो यथा । विकल्पार्हस् तथैवैतत् पञ्चकं हि जडाजडम्
देहादिपञ्चकं जीवत्स्पन्दि शैलादिकं जडम् । स्थावराद्य् अनिलस्पन्दि स्वभाववशतो ऽनघ
न च पर्यनुयोक्तव्यास् स्वभावा रघुनन्दन । शीतोष्णं किं हिमाग्न्यादि वक्तेति परिहस्यते
गृहीतवासनांशानां पुष्टभावविकारिणाम् । स्थितयः पञ्चकानां हि योग्याः पर्यनुयोजने
वासनांशविपर्यस्ता इतो नेतुम् इतश् च ताः । पुंसा प्राज्ञेन शक्यन्ते सुखं पर्यनुयोजिना
अशुभे वा शुभे वापि तेन पर्यनुयोज्यते । प्रबुद्धवासनं नान्यत् पञ्चकं सुप्तवासनम्
यत्र पर्यनुयोगस्य फलं समनुभूयते । तत्र तं सम्प्रयुञ्जीत नाकाशं मुष्टिभिः क्षिपेत्
तृणाग्रनिष्ठा मेर्वाद्याः पञ्चकानां हि राशयः । विरिञ्चनिष्ठाः कीटाद्या एते स्थावरजङ्गमाः