आत्मभूतं प्रयत्नेन ह्य् उपादेयं तु साध्यते । हेयं सन्त्यज्यते ज्ञात्वा ह्य् उपेक्ष्यं मध्यम् एतयोः
यद् यद् आह्लादनकरम् आदेयं तद् असन्मतेः । तद्विरुद्धम् अनादेयम् उपेक्ष्यं मध्यमं विदुः
सन्मतेर् विदुषो ज्ञस्य सर्वम् आत्ममयं यदा । त्रय एव तदा पक्षास् सम्भवन्ति न केचन
केवलं सर्वम् एवेदं कदाचिल् लीलया न वा । उपेक्ष्यम् अक्षिनिक्षिप्तम् आलोकयति वा न वा
ज्ञस्योपेक्ष्यात्मकं राम मूढस्यादेयतां गतम् । हेयं स्फारविरागस्य शृणु सिद्धिक्रमं कथम्
देशकालक्रियाद्रव्यसाधनास् सर्वसिद्धयः । जीवम् आह्लादयन्तीह वसन्त इव भूतलम्
मध्ये चतुर्णाम् एतेषां क्रिया प्रथमकल्पिकी । सिद्ध्यादिसाधने साधोस् तन्मयास् ते यतः क्रमाः
गुलिकाञ्जनखड्गादिक्रियाक्रमनिरूपणम् । तत्रास्तां तावद् एषो ऽत्र विस्तारः प्रकृतार्थहा
रत्नौषधितपोमन्त्रक्रियाक्रमनिरूपणम् । तत्रास्तां तावद् एषो ऽत्र विस्तारः प्रकृतार्थहा
श्रीशैले सिद्धदेशे च मेर्वादौ वा निवासतः । सिद्धिर् इत्य् अपि विस्तारः क्रियोत्था प्रकृतार्थहा
तस्माच् छिखिध्वजकथाप्रसङ्गपतिताम् इमाम् । प्राणादिपवनाभ्यासक्रियां सिद्धिफलां शृणु
समूलम् अखिलास् त्यक्त्वा साध्यार्थेतरवासनाः । गुदादिद्वारसङ्कोचात् स्थानकादिक्रियाक्रमैः
भोजनासनशुद्ध्या च साधुशास्त्रार्थभावनात् । स्वाचारात् सुजनासङ्गात् सर्वत्यागात् सुखासनात्
प्राणायामघनाभ्यासाद् राम कालेन केनचित् । कोपलोभादिसन्त्यागाद् भोगत्यागाच् च सुव्रत
त्यागादाननिरोधेषु भृशं यान्ति विधेयताम् । प्राणाः प्रभुत्वतज्ज्ञस्य पुंसो भृत्या इवाखिलाः
राज्याद्या मोक्षपर्यन्तास् समस्ता एव सम्पदः । देहानिलविधेयत्वसाध्यास् सर्वस्य राघव
परिमण्डलिताकारा कन्दस्थानसमाश्रिता । अन्त्रवेष्टनिका नाम नाडी नाडीशताश्रिता
वीणाग्रावर्तसदृशी सलिलावर्तसन्निभा । लिप्याद्योङ्कारसंस्थाना कुन्तलावर्तवत् स्थिता
देवासुरमनुष्येषु मृगनक्रखगादिषु । कीटादिष्व् अब्जजान्तेषु सर्वेषु प्राणिषूदिता
शीतार्तसुप्तभोगीन्द्रभोगवद् बद्धमण्डला । सिता कल्पाग्निविगलदिन्दुवद् बद्धकुण्डला
मनोभ्रूमध्यरन्ध्राधोविशदब्वृत्तिचञ्चला । अनारतं रसस्यन्दैः प्लवमानैव तिष्ठति
अस्या अभ्यन्तरे तस्मिन् कदलीकोशकोमले । या वातशक्तिस् स्फुरति वेणाव् इव लसद्गतिः
सोक्ता कुण्डलिनी नाम्ना कुण्डलाकारवाहिनी । प्राणिनः परमा शक्तिस् सर्वशक्तिजवप्रदा
अनिशं निश्श्वसद्रूपा कुपितेव भुजङ्गमी । संस्थितोर्ध्वीकृतमुखी स्पन्दानां हेतुतां गता
यदा प्राणानिलो याति हृदि कुण्डलिनीपदम् । तदा संविद् उदेत्य् अन्तर् भूततन्मात्रबीजभूः
यदा कुण्डलिनी देहे स्फुरत्य् अब्ज इवालिनी । तदा संविद् उदेत्य् अन्तर् मृदुस्पर्शवशोदया
स्पर्शेन मृदुना नाड्या लिङ्गकामातपत्रयोः । यथा संविद् उदेत्य् उच्चैस् तथा कुण्डलिनी जवात्
तस्यां समस्तास् सम्बद्धा नाड्यो हृदयकोशगाः । उत्पद्यन्ते विलीयन्ते महार्णव इवापगाः
नित्यं वातात्मकतया स्पन्दोन्मुखतया तया । सा सर्वसंविदां बीजम् एकम् आद्यम् उदाहृतम्
दिक्कालाद्यनवच्छिन्ना चित्संवित् सर्वगास्ति हि । तस्याः कुण्डलिनीकोशात् केनार्थेनोदयस् स्फुटः