कष्टं नात्मनि विश्रान्तो मद्वचांसि न बुद्धवान् । राजेति खिन्ना चूडाला स्वव्यापारपराभवत्
तदा तथाङ्ग तत्राथ तादृशाशययोस् तयोः । ताभिः पार्थिवलीलाभिर् दिवसस् स जगाम ह
क्रमेण मासा ऋतवो राम संवत्सरास् तथा । अतीता बहवस् तत्र दम्पत्योस् स्निग्धयोस् तयोः
एकदा नित्यतृप्ताया निरिच्छाया अपि स्वयम् । चूडालाया बभूवेच्छा लीलया खगमागमे
खगमागमसिद्ध्यर्थम् अथ सा नृपकन्यका । सर्वभोगान् अनादृत्य समागम्य च निर्जनम्
एकैवैकान्तनिरता स्वासनावस्थिताङ्गका । ऊर्ध्वगप्राणपवनचिराभ्यासं चकार ह
यद् इदं दृश्यते किञ्चिज् जगत् सस्थास्नुजङ्गमम् । स्पन्दस्य तत् क्रियानाम्नः फलम् इत्य् अनुभूयते
कस्य स्पन्दविलासस्य घनाभ्यासस्य मे वद । ब्रह्मन् खगमनाद्य् एतत् फलं यत्नैकशालिनः
आत्मज्ञो वाप्य् अनात्मज्ञस् सिद्ध्यर्थं लीलया तथा । कथं संसाधयत्य् एतद् यथावद् वद मे विभो
त्रिविधं सम्भवत्य् अङ्ग साध्यं वस्त्व् इह सर्वतः । उपादेयं च हेयं च तथोपेक्ष्यं च राघव
आत्मभूतं प्रयत्नेन ह्य् उपादेयं तु साध्यते । हेयं सन्त्यज्यते ज्ञात्वा ह्य् उपेक्ष्यं मध्यम् एतयोः
यद् यद् आह्लादनकरम् आदेयं तद् असन्मतेः । तद्विरुद्धम् अनादेयम् उपेक्ष्यं मध्यमं विदुः
सन्मतेर् विदुषो ज्ञस्य सर्वम् आत्ममयं यदा । त्रय एव तदा पक्षास् सम्भवन्ति न केचन
केवलं सर्वम् एवेदं कदाचिल् लीलया न वा । उपेक्ष्यम् अक्षिनिक्षिप्तम् आलोकयति वा न वा
ज्ञस्योपेक्ष्यात्मकं राम मूढस्यादेयतां गतम् । हेयं स्फारविरागस्य शृणु सिद्धिक्रमं कथम्
देशकालक्रियाद्रव्यसाधनास् सर्वसिद्धयः । जीवम् आह्लादयन्तीह वसन्त इव भूतलम्
मध्ये चतुर्णाम् एतेषां क्रिया प्रथमकल्पिकी । सिद्ध्यादिसाधने साधोस् तन्मयास् ते यतः क्रमाः
गुलिकाञ्जनखड्गादिक्रियाक्रमनिरूपणम् । तत्रास्तां तावद् एषो ऽत्र विस्तारः प्रकृतार्थहा
रत्नौषधितपोमन्त्रक्रियाक्रमनिरूपणम् । तत्रास्तां तावद् एषो ऽत्र विस्तारः प्रकृतार्थहा
श्रीशैले सिद्धदेशे च मेर्वादौ वा निवासतः । सिद्धिर् इत्य् अपि विस्तारः क्रियोत्था प्रकृतार्थहा
तस्माच् छिखिध्वजकथाप्रसङ्गपतिताम् इमाम् । प्राणादिपवनाभ्यासक्रियां सिद्धिफलां शृणु
समूलम् अखिलास् त्यक्त्वा साध्यार्थेतरवासनाः । गुदादिद्वारसङ्कोचात् स्थानकादिक्रियाक्रमैः
भोजनासनशुद्ध्या च साधुशास्त्रार्थभावनात् । स्वाचारात् सुजनासङ्गात् सर्वत्यागात् सुखासनात्
प्राणायामघनाभ्यासाद् राम कालेन केनचित् । कोपलोभादिसन्त्यागाद् भोगत्यागाच् च सुव्रत
त्यागादाननिरोधेषु भृशं यान्ति विधेयताम् । प्राणाः प्रभुत्वतज्ज्ञस्य पुंसो भृत्या इवाखिलाः
राज्याद्या मोक्षपर्यन्तास् समस्ता एव सम्पदः । देहानिलविधेयत्वसाध्यास् सर्वस्य राघव
परिमण्डलिताकारा कन्दस्थानसमाश्रिता । अन्त्रवेष्टनिका नाम नाडी नाडीशताश्रिता
वीणाग्रावर्तसदृशी सलिलावर्तसन्निभा । लिप्याद्योङ्कारसंस्थाना कुन्तलावर्तवत् स्थिता
देवासुरमनुष्येषु मृगनक्रखगादिषु । कीटादिष्व् अब्जजान्तेषु सर्वेषु प्राणिषूदिता
शीतार्तसुप्तभोगीन्द्रभोगवद् बद्धमण्डला । सिता कल्पाग्निविगलदिन्दुवद् बद्धकुण्डला