असम्बद्धप्रलापासि बालासि वरवर्णिनि । रमसे वाक्यलीलाभी रमस्वावनिपात्मजे
किञ्चित् त्यक्त्वा नकिञ्चिद् यो गतः प्रत्यक्षसंस्थितम् । त्यक्तप्रत्यक्षसद्रूपस् स कथं किल शोभते
भोगैर् अभुक्तैस् तुष्टो ऽहम् इति भोगाञ् जहाति यः । रुषेवाशनपानाद्यान् स कथं किल शोभते
वाहनाशनशय्यादि सर्वं सन्त्यज्य धीरधीः । यस् तिष्ठत्य् आत्मनैवैकस् स कथं किल शोभते
स्वयं नकिञ्चिद् एवाहं जगदीशो ऽस्मि चेति च । निश्चयो यस्य दुर्बुद्धेस् स कथं किल शोभते
आत्मन्य् एवात्मनैकान्ते त्यक्तसर्वसमागमः । यस् स्थितश् श्वभ्रतरुवत् स कथं किल शोभते
नाहं देहो ऽन्यद् एवाहं नकिञ्चित् सर्वम् एव हि । एवं प्रलापो यस्यास्ति स कथं किल शोभते
यत् पश्यामि न पश्यामि तत् पश्याम्य् अन्यद् एव यत् । प्रलाप इत्य् असन् यस्य स कथं किल शोभते
तस्मान् मुग्धासि बालासि चपलासि विलासिनि । नानालापविलासेन क्रीडसि क्रीड सुन्दरि
प्रविहस्याट्टहासेन शिखिध्वज इति प्रियाम् । मध्याह्ने स्नातुम् उत्थाय निर्जगामाङ्गनागृहात्
कष्टं नात्मनि विश्रान्तो मद्वचांसि न बुद्धवान् । राजेति खिन्ना चूडाला स्वव्यापारपराभवत्
तदा तथाङ्ग तत्राथ तादृशाशययोस् तयोः । ताभिः पार्थिवलीलाभिर् दिवसस् स जगाम ह
क्रमेण मासा ऋतवो राम संवत्सरास् तथा । अतीता बहवस् तत्र दम्पत्योस् स्निग्धयोस् तयोः
एकदा नित्यतृप्ताया निरिच्छाया अपि स्वयम् । चूडालाया बभूवेच्छा लीलया खगमागमे
खगमागमसिद्ध्यर्थम् अथ सा नृपकन्यका । सर्वभोगान् अनादृत्य समागम्य च निर्जनम्
एकैवैकान्तनिरता स्वासनावस्थिताङ्गका । ऊर्ध्वगप्राणपवनचिराभ्यासं चकार ह
यद् इदं दृश्यते किञ्चिज् जगत् सस्थास्नुजङ्गमम् । स्पन्दस्य तत् क्रियानाम्नः फलम् इत्य् अनुभूयते
कस्य स्पन्दविलासस्य घनाभ्यासस्य मे वद । ब्रह्मन् खगमनाद्य् एतत् फलं यत्नैकशालिनः
आत्मज्ञो वाप्य् अनात्मज्ञस् सिद्ध्यर्थं लीलया तथा । कथं संसाधयत्य् एतद् यथावद् वद मे विभो
त्रिविधं सम्भवत्य् अङ्ग साध्यं वस्त्व् इह सर्वतः । उपादेयं च हेयं च तथोपेक्ष्यं च राघव
आत्मभूतं प्रयत्नेन ह्य् उपादेयं तु साध्यते । हेयं सन्त्यज्यते ज्ञात्वा ह्य् उपेक्ष्यं मध्यम् एतयोः
यद् यद् आह्लादनकरम् आदेयं तद् असन्मतेः । तद्विरुद्धम् अनादेयम् उपेक्ष्यं मध्यमं विदुः
सन्मतेर् विदुषो ज्ञस्य सर्वम् आत्ममयं यदा । त्रय एव तदा पक्षास् सम्भवन्ति न केचन
केवलं सर्वम् एवेदं कदाचिल् लीलया न वा । उपेक्ष्यम् अक्षिनिक्षिप्तम् आलोकयति वा न वा
ज्ञस्योपेक्ष्यात्मकं राम मूढस्यादेयतां गतम् । हेयं स्फारविरागस्य शृणु सिद्धिक्रमं कथम्
देशकालक्रियाद्रव्यसाधनास् सर्वसिद्धयः । जीवम् आह्लादयन्तीह वसन्त इव भूतलम्
मध्ये चतुर्णाम् एतेषां क्रिया प्रथमकल्पिकी । सिद्ध्यादिसाधने साधोस् तन्मयास् ते यतः क्रमाः
गुलिकाञ्जनखड्गादिक्रियाक्रमनिरूपणम् । तत्रास्तां तावद् एषो ऽत्र विस्तारः प्रकृतार्थहा
रत्नौषधितपोमन्त्रक्रियाक्रमनिरूपणम् । तत्रास्तां तावद् एषो ऽत्र विस्तारः प्रकृतार्थहा
श्रीशैले सिद्धदेशे च मेर्वादौ वा निवासतः । सिद्धिर् इत्य् अपि विस्तारः क्रियोत्था प्रकृतार्थहा