एकैवाकाशसङ्काशे केवले हृदये रमे । न रमे राजलीलासु तेनास्मि श्रीमती स्थिता
आत्मन्य् एव हि तिष्ठामि न वनोद्यानसद्मसु । न भोगौघेषु शय्यासु तेनास्मि श्रीमती स्थिता
जगतां प्रभुर् एवास्मि नकिञ्चिन्मात्ररूपिणी । इत्य् आत्मन्य् एव तिष्ठामि तेनाहं श्रीमती स्थिता
अन्यैवाहम् इयं नाहम् अन्या चेयं च वाप्य् अहम् । सर्वम् अस्मि नकिञ्चिद् वा तेनाहं श्रीमती स्थिता
यत् पश्यामि न पश्यामि तत् पश्याम्य् अन्यद् एव यत् । इति सम्यक् प्रपश्यामि तेनाहं श्रीमती स्थिता
न सुखं प्रार्थये नार्थं नानर्थं चेतरां स्थितिम् । यथाप्रप्तेन तुष्यामि तेनाहं श्रीमती स्थिता
तनुविद्वेषरागाभिस् तज्ज्ञाभिश् शास्त्रदृष्टिषु । रमे सह वयस्याभिस् तेनास्मि श्रीमती स्थिता
पश्यामि यन् नयनरश्मिभिर् इन्द्रियैर् वा चित्तेन चेह हि तद् अङ्ग न किञ्चिद् एव । पश्यामि तद्विरहितं तु नकिञ्चिदाभं पश्यामि सम्यग् इति नाथ चिरोदयास्मि
एवम् आत्मनि विश्रान्तां वदन्तीं तां वराननाम् । असम्बद्धप्रलापासि बालासीति वदञ् शनैः
भोगलम्पटया बुद्ध्या मुग्धाम् आशङ्क्य तां प्रियाम् । अबुद्ध्वा तद्गिराम् अर्थं विहस्योवाच भूपतिः
असम्बद्धप्रलापासि बालासि वरवर्णिनि । रमसे वाक्यलीलाभी रमस्वावनिपात्मजे
किञ्चित् त्यक्त्वा नकिञ्चिद् यो गतः प्रत्यक्षसंस्थितम् । त्यक्तप्रत्यक्षसद्रूपस् स कथं किल शोभते
भोगैर् अभुक्तैस् तुष्टो ऽहम् इति भोगाञ् जहाति यः । रुषेवाशनपानाद्यान् स कथं किल शोभते
वाहनाशनशय्यादि सर्वं सन्त्यज्य धीरधीः । यस् तिष्ठत्य् आत्मनैवैकस् स कथं किल शोभते
स्वयं नकिञ्चिद् एवाहं जगदीशो ऽस्मि चेति च । निश्चयो यस्य दुर्बुद्धेस् स कथं किल शोभते
आत्मन्य् एवात्मनैकान्ते त्यक्तसर्वसमागमः । यस् स्थितश् श्वभ्रतरुवत् स कथं किल शोभते
नाहं देहो ऽन्यद् एवाहं नकिञ्चित् सर्वम् एव हि । एवं प्रलापो यस्यास्ति स कथं किल शोभते
यत् पश्यामि न पश्यामि तत् पश्याम्य् अन्यद् एव यत् । प्रलाप इत्य् असन् यस्य स कथं किल शोभते
तस्मान् मुग्धासि बालासि चपलासि विलासिनि । नानालापविलासेन क्रीडसि क्रीड सुन्दरि
प्रविहस्याट्टहासेन शिखिध्वज इति प्रियाम् । मध्याह्ने स्नातुम् उत्थाय निर्जगामाङ्गनागृहात्
कष्टं नात्मनि विश्रान्तो मद्वचांसि न बुद्धवान् । राजेति खिन्ना चूडाला स्वव्यापारपराभवत्
तदा तथाङ्ग तत्राथ तादृशाशययोस् तयोः । ताभिः पार्थिवलीलाभिर् दिवसस् स जगाम ह
क्रमेण मासा ऋतवो राम संवत्सरास् तथा । अतीता बहवस् तत्र दम्पत्योस् स्निग्धयोस् तयोः
एकदा नित्यतृप्ताया निरिच्छाया अपि स्वयम् । चूडालाया बभूवेच्छा लीलया खगमागमे
खगमागमसिद्ध्यर्थम् अथ सा नृपकन्यका । सर्वभोगान् अनादृत्य समागम्य च निर्जनम्
एकैवैकान्तनिरता स्वासनावस्थिताङ्गका । ऊर्ध्वगप्राणपवनचिराभ्यासं चकार ह
यद् इदं दृश्यते किञ्चिज् जगत् सस्थास्नुजङ्गमम् । स्पन्दस्य तत् क्रियानाम्नः फलम् इत्य् अनुभूयते
कस्य स्पन्दविलासस्य घनाभ्यासस्य मे वद । ब्रह्मन् खगमनाद्य् एतत् फलं यत्नैकशालिनः
आत्मज्ञो वाप्य् अनात्मज्ञस् सिद्ध्यर्थं लीलया तथा । कथं संसाधयत्य् एतद् यथावद् वद मे विभो
त्रिविधं सम्भवत्य् अङ्ग साध्यं वस्त्व् इह सर्वतः । उपादेयं च हेयं च तथोपेक्ष्यं च राघव